________________ पोरिसी 1126 - अभिधानराजेन्द्रः - भाग 5 पोरिसी पौरुषी छायां निवर्तयति / एवं स्वमतविभावनाऽर्थमाहुः-'ताजया ण' इत्यादि, तायदा यस्मिन् काले, णमितिवाक्याऽलङ्कारे, सर्वाऽभ्यन्तरं मण्डलमुपसडक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रिः, तस्मिंश्च दिवसे सूर्यश्चतुष्पौरुषींचतुष्पुरुषप्रमाणां छायां निवर्तयति। तद्यथाउगमनमुहुर्तेऽस्तमनमुहुर्तेचस चोगमनमुहूर्तेऽस्तमनमुहूर्तच चतुष्पौरुषी छायां निवर्तयति, लेश्यामभिवर्द्धयन् प्रकाश्यवस्तुन उपरि प्लवमानां दूर दूरतरं परिक्षिपन्नो चैव-नैव निर्वेष्टयन-प्रकाश्यवस्तुन उपरिप्लवमानां प्रत्यासन्नं प्रत्यासन्नतरं परिक्षिपन तथा सति छायाया हीनहीनतरत्व सम्भवात् ता जया णं इत्यादि, तायदा सर्वबाह्य मण्ड, लमुपसडकम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षि का अष्टादशमुहूर्ता रात्रिभर्वति, जघन्यो द्वादशमुहूर्तो दिवसः, तस्मिंश्च दिवसे सूर्यो द्विपौरुषींपुरुषद्यप्रमाणां छायां निर्वर्तयति। तद्यथा-उदगमनमुहूर्ते अस्तमनमुहुर्ते च, स च तदा द्विपौरुषी छायां निर्वर्त्तयति, लेश्यामभिवर्द्धयन् नो चैव निर्वेष्टयन, अस्य वाक्यस्य भावाऽर्थः प्राग्वद् भावनीयः। तथा तत्र-तेषां द्वयानां मध्ये ये वादिन एवमाहुः-अस्ति स दिवसो यस्मिन् दिवसे स सूर्यो द्विपौरुषी छायां निवर्तयति अस्ति स दिवसो यस्मिन् दिवसे सूर्योन काञ्चिदपि पौरुषी छाया निवत्तयति,तएवं स्वमतविभावनार्थमाचक्षते-- 'ताजग्राणं' इत्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्तो रात्रिः, तस्मिंश्च दिवसे सूर्यो द्विपौरुषी छायां निवर्त्तयति। तद्यथा-उगमन मुहूर्तेऽस्तमनमुहुर्ते च, स च तदानीं द्विपौरुषी छायां निवर्तयति लेश्यामभिवर्द्धयन् नो चैव निर्वेष्टयन्, 'ता जयाणं' इत्यादि, तायदा णमिति वाक्यालङ्कारे सूर्यः सर्व बाह्य मण्डलमुपसडकम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिः, जघन्यो द्वादशमुहूर्तप्रमाणो दिवसस्तस्मिंश्च दिवसे उगमनमुहुर्तेऽस्तमनमुहूर्ते च सूर्यो न काञ्चिदपि पौरुषी छायां निर्वर्त्तयति, 'नो चेवणं' इत्यादि, न च - नैव तदानीं सूर्यो लेश्यामभिवर्द्धयन् भवति निर्वेष्टयन् वा अभिवर्द्ध (य) ने अधिकाऽधिकतराया निर्वेष्ट (य) ने हीनहीनतरायाश्छायायाः सम्भवप्रसङ्गात्। तदेवं परतीर्थिकप्रतिपत्तिद्वयं श्रुत्वा भगवान् गौतमः स्वमतं पृच्छति-'ता कइकट्ठ' इत्यादि, यद्येवं परतीथिकानां प्रतिपत्ती 'ता' तर्हि भगवन्! स्वमतेन त्वया कतिकाष्ठां किं प्रमाणां सूर्यः पौरुषी छायां निवर्तयन आख्यात इति वदेत्ता भगवान् स्वमतेन देशविभागतः पौरुषी छायां तथा तथा अनियतप्रमाणां वक्ष्यति, परतीर्थिकास्तु प्रतिनियतामे व प्रतिदिवसं देशविभागेनेच्छन्ति, ततः प्रथमतस्तन्मतान्ये वोपदर्शयति-, तत्थेत्यादि, तत्र-तस्मिन् देशविभागेन प्रतिदिवसं प्रतिनियतायाः पौरुष्याश्छायाया विषये षण्णवतिः प्रतिपत्तयः प्रज्ञाप्तः। तद्यथा-ता-तेषा षण्णवतेः परतीर्थिकानां मध्ये एके एवमाहुः-'ता' इति पूर्ववत्, अस्ति स देशो यस्मिन् देशे सूर्य आगतः सन् एक पौरुषीम्-एकपुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं सर्वस्याऽपि प्रकाश्यवस्तुनः, स्वप्रमाणां छायां निर्वर्तयति। अत्रोपसंहारः-'एगे एवमाहसु१. 'एके पुनरेवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्यो द्विपौरुषी-द्विपुरुषप्रमाणां, पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्याऽपि वस्तुनः प्रकाश्यस्य द्विगुणामित्यर्थः, छायां निर्वर्तयति, अत्रोपसंहारः-'एगे एवमाहेसु' २'एवं' इत्यादि, एवम् उक्तेन प्रकारेण एतेनानन्तरोदिनाभिलापेन सूत्रपाठगमनेन शेषप्रतिपत्तिगतमपि सूत्रा नेतव्यं तावद्यावच्चरम-प्रतिपत्तिगत सूत्र, तदेव खण्डशो दर्शयति-'छन्नउ' इत्यादि, एतच्चैवं परिपूर्ण द्रष्टव्यम्"एगे पुण एवमाहसु अत्थिणं से देसेजंसिणं देसंसि सूरिएछन्नउइपोरिसिं छायं निव्वत्तइ आहिय तिवएखा, एगे एवमासु'' मध्यमप्रतिपत्तिगतास्त्वालापकाः सुगमात्वात्स्वयं परिभावनीयाः सम्प्रत्येतासामेव षण्णवतिप्रतिपत्तीनां भावनिका चिकीर्षुराह 'तत्थ' इत्यादि, ता -तेषां षण्णवतिपरतीथिकानांमध्ये येतेवादिन एवमाहुः-अस्तिस देशो यस्मिन् देशे समागतः सूर्यः एकपौरुषी-प्रकाश्यवस्तुनः स्वप्रमाणां छायां निर्वर्त्तयति, त एवं स्वमतविभावानार्थमाहुः-'ता सूरियस्सणं'। इत्यादि, 'ता' इति पूर्ववत्, सूर्यस्य सर्वाऽधस्तनात्सूर्य प्रतिधेः-सूर्यप्रतिधानात्, सूर्यनिवेशादित्यर्थः। बहिर्निःसृताया लेश्यास्ताभिः (ताडिजमाणाहिं ति) ताड्यमानाभि रस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद्भूमिभागाद यावति सूर्य ऊर्ध्वमुचैस्त्वेन व्यवस्थित एताक्ताऽध्वना सूत्रेचाध्वशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात्, एकेन च छायाऽनुमानप्रमाणेन प्रकाश्यस्य वस्तुनो यदुहेशतः प्रमाणमनुमीयते तेन, इहाऽऽकाशदेशे सूर्यसमीपे प्रकाश्यस्य वस्तुनः प्रमाणं नैव साक्षात् परिग्रहीतु शक्यते, किन्तु देशतोऽनुमानेन ततश्छायाऽनुमानप्रमाणेनेत्युत्कम् (उमाए त्ति) अवमितः परिच्छिन्नो यो देशः-प्रदेशो यस्मिन् प्रदेशे आगतः सन् सूर्य एकपौरुषी, पुरुषग्रहण-स्योपलक्षणत्वात् सर्वस्य प्रकाश्यस्य वस्तुनः प्रमाणभूता छायां निर्वर्त्तयति। इयमत्र भावना-प्रथमत उदयमाने सूर्ये या लेश्या विनिर्गत्य प्रकाशमाश्रितास्ताभिः प्रकाश्यवस्तुदेशे ऊर्द्ध क्रियमाणाभिः किञ्चित्पूर्वाऽभिमुख मवनताभिःप्रकाश्येन च वस्तुना यः सम्भाव्यते परिच्छिन्न आकाशप्रदेशे तत्राऽऽगतः सूर्यः प्रकाश्यवस्तुप्रमाणां छायां निर्वर्त्तयति। एवमुत्तरत्राऽपि भावना कार्या, (तत्थेत्यादि) ता येते वादिन एवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्या द्विपौरुषी छायां निवर्तयति त एवं स्वमतविस्फारणार्थमाहुः-(ता सूरियस्स णमित्यादि) 'ता' इति पूर्ववत् सूर्यस्य सर्वाऽधस्तात् सूर्यप्रतिधे-सूर्यनिवेशाद्वहिनि: सृताभिर्लेश्याभिस्ताड्यमानाभिरस्या रत्नप्रभायाः पृथिव्या चहुसमरमणीया भूमिभागादूर्ध्वमुच्यत्वेन व्यवस्थितः एतावद्भयां द्वाभ्याममद्धाभ्यां द्वाभ्यां छायाऽनुमानप्रमाणाभ्यां प्रकाश्यवस्तु-प्रमाणाम्यामवमितःपरिच्छिन्नो यो देशस्तत्रा समागतः सूर्यो द्विपौरुषीप्रकाश्यवस्तुनो द्विगुणा छायां निवर्तयति, एवमेकै प्रतिपत्तावेकैकच्छायाऽनुमानप्रमाण वृद्धया तावनेतव्यं यावत्पण्णवतितमा प्रतिपत्तिः,तदगतानिच सूत्राणि स्वयं परिभावनीयानि, सुगमत्वात्, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः। सम्प्रति स्वमतमुपदर्शयति-'वयंपुण' इत्यादि, वयं पुनरेववक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह - (सातिरेगेत्यादि) सूर्य उगमसमये अस्तमनसमये च सातिरेकैकोनषष्टिपुरुषप्रमाणां छायां निर्व