________________ पचक्खाण 88 - अभिधानराजेन्द्रः - भाग 5 पञ्चक्खाण ऽऽदिकृतमित्यर्थः,भावप्रत्याख्यानमुक्तशब्दार्थ, भवतीति गम्यम् / किंभूतम् ?- जिनोदतम्-आलाभिहितम् / इह च प्रयोगः-यद्यस्य विपर्ययभूतं तत्तस्याभावेऽवश्यं भवति। यथा- छायाया अभावे सत्यातपः, द्रव्यप्रत्याख्यानविपर्ययभूतं च भावप्रत्याख्यानमिति द्रव्यप्रत्याख्यानाभावेऽवश्यं भवति प्रत्याख्यानसामान्ये सतीति / तच्च भावप्रत्याख्यानं किंफलमित्याह-नियमाद-वइयंभावेन मुक्तिसाधनं मोक्षकारणं साक्षात पारम्पर्येण वा कुत इत्याह-सम्यक् चारित्ररूपत्वाच्छोभनधरणस्वभावत्वातथा-भूतध्यानाऽऽदियोगवदिति दृष्टान्त ऊहा इति ||7|| द्रव्यप्रत्याख्यानं किमनर्थकमेव? नेत्याहजिनोक्तमितिसद्भक्त्या, ग्रहणे द्रव्यतोऽप्पदः। बाध्यमानं भवेद्भाव-प्रत्याख्यानस्य कारणम् // 8|| इहैवमक्षरघटना-अदएतत् प्रत्याख्यानं, ग्रहणे उपादाने, द्रव्यतोऽपि नकवलं भावतः, अपेक्षाऽऽदियोगेन द्रव्यतो गृहीतमपीत्यर्थः, भवेद्भावप्रत्याख्यानस्य कारणमिति योगः / कथंभूतं सदित्याह-जिनोक्तमाप्तप्रणीतमिति। एवमुल्लेखवती या सती शोभना प्रशस्ता भक्तिबहुमानविशेषा सा जिनोक्तमितिसद्भक्तिः, तया / अथवा-जिनोक्तमिति है तोः, शेष तथैव / वाध्यमानं निराक्रियमाणं, भवेत स्यात् / भादप्रत्याख्यानस्य परमार्थप्रत्याख्यानस्य, कारणं निमित्तं, जिनोक्तमिति सद्भक्तिर्हि द्रव्यप्रत्याख्यानहेतूनामपेक्षाऽऽदिभावानां विरुद्धा, अतो यत्र सा स्यात तषां निवृत्तभविप्रत्याख्यांनी भवति, न सर्वमेवेति भावनेति / / 8 / / हा० 8 अट / सूत्र० / आव०। (6) तं दुविहं सुअ नोसुअ, सुअं दुहा पुव्वमेव नोपुव्वं / / पुव्वसुअ नवमपुव्वं, नोपुव्वस इमं चेव / / 5 / / तद्भावप्रत्याख्यानं द्विविधं द्वियकारम्-(सुयं नोसुयं ति) श्रुत प्रत्याख्यानं नोश्रुतप्रत्याख्यानं च। श्रुतप्रत्याख्यानं द्विधा भवतिपूर्वश्रुतप्रत्याख्यान, नोपूर्वश्रुतप्रत्याख्यानं च। (पुध्वसुयं नवमपुव्वं) पूर्वश्रुतप्रत्याख्यान नवमपूर्वे, प्रत्याख्यानपूर्वमित्यर्थः / (नो पुव्वसुयं इभचेव) नोपूर्वश्रुतप्रत्याख्यानाध्ययनमिति / एतचोपलक्षणमन्यसऽऽतप्रत्याख्यानाऽऽदि पूर्वबाह्यमिति गाथार्थः / / 5 / / अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाहनोसुअपचक्खाणं, मूलगुणा चेव उत्तरगुणे अ। सूले सव्वं देसं, इत्तरियं आवकहिअंच।।६।। मूलगुणा वि अदुविहा, समणाणं चेव सावयाणं च / ते पुण विभज्जमाणा, पंचविहा हुंति नायव्वा / / 7 / / (नोसुयपचक्खाणं ति) श्रुतप्रत्याख्यानं न भवति नोश्रुतप्रत्याख्यानम् (मूलगुणे चेव उत्तरगुणे य) मूलगुणाश्चाधिकृत्योत्तरगुणाश्च मूलभूता गुणाः, त एव प्राणातिपानाऽऽदिनिवृत्तिरुपत्वात प्रत्याख्यानं वर्तते। उत्तरभूता गुणारत्र एवाऽशुद्धपिण्डनिवृत्तिरूपत्वात्प्रत्याख्यान, तद्विषयं वा अनागताऽऽदि वा दशविधमुत्तरगुणप्रत्याख्यानमा (मूले सव्वे देस त्ति) मूलगुणप्रत्याख्यानं द्विधासर्वमूलगुणप्रत्याख्यानं, देशमूलगुणप्रत्याख्यानं च। सर्वभूलगुणप्रत्याख्यानं पक्ष महावतानि, देशमूलगुणा:याख्यानं पञ्चाणुव्रतानि / इदं चोपलक्षण वर्त्तते, यत उत्तरगुणप्रत्याख्यानमपि द्विधैवसर्वोत्तरगुणप्रत्याख्यानं, देशोत्तरगुणप्रत्याख्यानं च। तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधम् - " अणागयमइक्वंतं " इत्याद्युपरिटाद्वक्ष्यामः / देशोत्तरगुणप्रत्याख्यानं सप्तविधम् त्रीणि गुणव्रतानि, चत्वारि शिक्षाव्रतान्यप्युर्द्ध वक्ष्यामः / पुनरुत्तरगुणप्रत्याख्यानमोघवो द्विविधिम्''इत्तरियमावक हियं / ' यदित्वरं साधूनां किचिदभिग्रहाऽऽदि, श्रावकाणां तु चत्वारि शिक्षाव्रतानि / यावत्कथिकं तु नियन्त्रितं यत्कान्तारदुर्भिक्षाऽऽदिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणव्रता" नीति गाथार्थः। साम्प्रतं स्वरूपतः सर्वभूलगुणप्रत्याख्यानमुपदर्शयन्नाहपाणवह मुसावाए, अदत्त मेहुण परिग्गहे चेव। समणाणं मूलगुणा, तिविहं तिविहेण नेयव्वा।।। प्राणा द्वीन्द्रियाऽऽदय / तथा चोक्तम्- पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिश्वासमथान्यदायुः / प्राणा दशैते भवद्भिरुक्तास्तेषां वियोगीकरणं तु हिंसा // 1 // " तेषां वधः प्राणवधो जीवबधः, तस्मिन् मृषावदनं मृषावादस्तस्मिन्, असदभिधान इत्यर्थः / (अदत्त त्ति) उपलक्षणत्वाददत्ताऽऽदाने परस्वापहारे इत्यर्थः / (मेहुण ति) मैथुनमब्रहासेवने (परिगहे चेव त्ति) परिगृहे चैव / एतेषु विषयभूतेषु श्रमणानां साधूनां मूलगुणाः प्रथमगुणास्त्रिविधत्रिविधेन योगत्रयकरण येन नेतव्या अनुसरणीयाः / इयमत्र भावनाश्रमणः प्राणातिपाताऽऽदिविरतरित्रविधं त्रिविधेन "तत्थ तिविहे तिन करेइन कारवेइ न करेतं पि अन्नं समगुजाणइ, तिविहेणं ति मणेण,वायाए, कारणं।'' एवमन्यमपि योजनीयमिति गाथार्थः / / 8 / / इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानम्। अधुना देशमूलगुणप्रत्याख्यानावरसरः, तच श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिरेवौधतः प्रतिपादनीयः / आव० 4 अ०। आ०चू० / श्रा०॥ तत प्रत्याख्यानद्वारे मूलगुणप्रत्याख्यानोदाहरणमाहकोडीवरिसे चिलाए, जिणदेवे रयणपुच्छ कहणा य। साएए सत्तुंजय-वीरे कहणा य संबोही।।१।। 'साकेतनगरे क्षीण-शत्रुः शत्रुनयों नृपः। जिनदेवः श्रावकोऽगा-त्कोटीवर्षपुरेऽर्जितुम् / / 1 / / तत्रानार्यश्चिलातो राट्, तस्ये रवान्यढोकयत्। विस्मितस्तैशिचलातोऽस, कैतानीति तमद्रवीत् // 2 // जिनदेवोऽभ्यधादस्म-द्राज्ये सन्ति बहून्यपि। सोऽभ्यधादहमप्यमि, तत्र रत्नानि वीक्षितुम् / / 3 / / परं विभमि ते राज्ञो, मा भैमीरिति सोऽवबीत्। तन विज्ञप्तिका प्रेषि, राज्ञस्तेनोक्तमत्वसौ॥४|| श्रावकेण स आनिन्ये, तदानीं च जिनेश्वरः। श्रीवीरः समवासार्षी-तत्र शत्रुञ्जयो नृपः / / 5 / / सर्वदा निर्ययौ नन्तुं, पौराश्च सपरिच्छदाः। जिनदेवं चिलातोऽथा-प्राक्षीत् कुत्रेत्ययं जनः? ||6|| द्रष्टु रत्नानि सोऽवादी-ततो द्वावपि तौ गतौ / दृष्ट्वा समवसरणं, चिलातोऽजीव विस्मितः॥७|| प्रभु प्रणम्य रत्नानि, पत्र.छाथ सविस्तरम्। तस्याऽऽख्यद्रव्यरत्नानि, भावरत्नानि च प्रभुः // 5 // आद्य सामायिक सार, सचतुर्विशतिस्तवम्। तार्तीयीकं वन्दनक, प्रतिक्रमणराङ्गतम् / / 6 / / कायोत्सर्गस्तथा प्रत्याख्यानं रत्नानि भावतः /