________________ पच्चक्खाण 87- अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण विधिश्वायम्- "गिण्हइ सय गिही य, काले विणएण सम्ममुवउत्तो। अणुभासनो पइवत्थुजाणनी जाणगसगासे॥१॥" चशब्दौ समुच्चयाथी, एवकारोऽवधारणार्थः / तस्य चैव प्रयोगःअविधिरेव च, न तु विधिरपीत्यर्थः, तथा अपरिणामः प्रत्याख्यानप्रतिपत्तौ निजश्रद्धारूपपरिणापाभावः। तथैवयथा अपेक्षाऽऽदयो भावप्रत्याख्यानविघ्नाः, तथैवायमपति : शरदः समुच्चये। प्रत्याख्यानस्य भावतो नियमस्स,विघनास्तु तिघाला एव, द्रव्यप्रत्याख्यानदेवत एते अपेक्षाऽऽदय इत्यर्थः / वीर्य नियन्तिरामदायोपशमाऽऽदिसमुत्थो जीवपरिणामः, तस्याभावो बीयर्याभावः, त्यति यत्प्रकारा अपेक्षाऽऽदयस्तत्प्रकार: प्रत्याख्यानविघ्नोऽपराऽना इति / अयं च परिणामे सत्यपि प्रत्याख्यानपरिपालनहेतुत्वन प्रत्याख्यानविघ्नो भवतीति / / 2 / / अपेक्षाकृतप्रत्याख्यानं निष्फलत्वेनाप्रधानत्वादद्रव्यप्रत्याख्यानमित्यस्यार्थस्य प्रतिपादनायापेक्षां निन्दन्नाहलब्ध्याद्यपेक्षया ह्येत-दभव्यानामपि क्वचित्। श्रूयते न च तत्किञ्चि-दित्यपेक्षाऽत्र निन्दिता / / 3 / / लस्बिोजनाऽऽदिलाभआदिर्येषा यशःपूजाऽऽदीना ते लब्ध्या-दयः, तषु तेषा वा अपेक्षा स्पृहा लब्ध्याद्यपेक्षा, तया, हिशब्दो यस्मादर्थः / एतत प्रत्याख्यानम, अभव्यानामपि सिद्धिगभनायोग्यानीमपि, आस्ता भव्य नामित्यपिशब्दार्थः। क्वचिदवस्यान्तरे,यथाप्रवृत्तिकरणेनग्रन्थिप्रदेशमागताना, श्रूयते आगम आकर्यत / तथाहि- ''असजेयभवियैदबदवाण नं ! देवलो एसु उववजमाणाणं कहिं उववाए पन्नते?। गायमा ! जहन्नण भवणवईसु, उक्कोसेणं उवरिमगेवेजेसु।'' इह चासंयतनविकद्रव्यदेवा अभव्याः सन्तोये देवत्वेन भाविनस्ते व्याख्याताः। तथा"एगभगस्सा भते ! मणूसरस गेवेजग, देवत्ते केवइया दग्विदिया अईसा | गोयमा ! अणत त्ति।" द्रव्येन्द्रियाणि चत्वगादीनि शरीराणीति तात्पर्यम् / मेवाकोपपातश्च साधुलिङ्गेनैव, तत्र च प्रत्याख्यानमवश्यंभवतीति। आइ च- "आणोहेणाणता, मुक्का गेवेजगेसु उ सरीरा। न य तस्थासंपुन्ना-ए साहुकिरियाएँ उववाओ।।१।।" ततश्च किमित्याह -नच न पुनः तदपेक्षाजनितप्रत्याख्यानं, किञ्चिद्वस्तु मुमुक्षुविवक्षितभोक्षलक्षणं स्वफल प्रसाधकत्वात् स्वफलसाधकं हि वस्तु वस्तुत्वामाप्नोति, न पुनरन्यद्वन्यासुतवदिति। इतिशब्दो हेत्वर्थः / ततश्च यतोऽपेक्षाकृतप्रत्याख्यानमफलमतोऽपेक्षा भावप्रत्याख्याने विघ्नभूता, अत्र प्रत्याख्यानविषये, जिनशासने वा, निन्दिता गर्हितेति / / 3 / / ___ अथ विधेभीवप्रत्याख्यानविघ्नतामाहयथैवाऽविधिना लोके, न विद्याग्रहणाऽऽदि यत्। विपर्यथफलत्वेन, तथेदमपि भाव्यताम् / / 4 / / यथैव येनैव प्रकारेण, अविधिना अविधानेन प्रसिद्धेन, लोकेसामान्यजने, विद्यारहागाऽऽदि विद्यामन्त्रोपादानाऽऽदि, यत् किमपि यच्छब्दस्येह दर्शनात्तदित्यस्य च गम्यमानत्वान्न नैव तद्विद्याग्रहणाऽऽदिकंभवति स्व स्वभाव न लभत इत्यर्थः / कथ-मित्याह-विपर्ययेण वाञ्छितफलविपर्यासेन, फल यस्य तद्विपर्ययफलं, तद्भावस्तत्त्व तेन, मरणादिफलत्वेनेत्यर्थः / दान्तिकयांजनामाह- तथा तेनैव प्रकाऽऽरेण , अप्रत्याख्यानत्वेनेत्यर्थः। इदमपि अविधिकृतप्रत्याख्यानमपि, भाव्यता निरूप्यतामिति / प्रयोगश्चैवम्- अविधिप्रत्यख्यानमप्रत्याख्यानमेव, विपर्ययफलत्वात्। यद्यद्विपर्ययफलं तत्तन्न भवति अविधिप्रत्याख्यानमतः प्रत्याख्यानं न भवतीति / / 4|| अपरिणामकृतप्रत्याख्यानस्य द्रव्यप्रत्याख्यानतामाहअक्षयोपशमात् त्याग-परिणामे तथा सति। जिनाऽऽज्ञाभक्तिसंवेग-वैकल्यादेतदप्यसत्।।५।। क्षय उदीर्णस्य विरत्यावारककर्मणो विनाशः तेन सहोपशमस्तस्यैवानुदीर्णस्य विपाकोदयापेक्षया विष्कम्भितोदयत्वं क्षयोपशमः, तन्निषेधादक्षयोपशमात्, त्यागपरिणामे प्रत्याख्येयवस्तुविवेकपरिणतो, तथा तेन प्रकारेण देशसर्वविरतिनमस्कारसहिताऽऽदिप्रत्याख्यानप्रतिपत्तिलक्षणेन, असति अविद्यमाने / अनेन देशसर्वविरतिप्रत्याख्यानयोस्तथा तद्वतोरेव गृहस्थश्रमणयोर्नमस्कारसहिताऽऽद्युत्तरगुणप्रत्याख्यानस्य च द्रव्यतोक्ता। अथवा-तथेति यथाविधक्षयोपशमे सति त्यागपरिणामो भवति, तथाविधे त्यागपरिणामे असति / एतेन चाविरतसम्यग्दृष्टीनां वासुदेवऽऽदीनामभव्याऽऽदीनां च प्रत्याख्यायनस्य द्रव्यतोक्ता / अथ कथञ्चित् प्रत्याख्ये यवस्तुत्यागपरिणामेऽपि सत्यगव्याऽऽदेः कथ द्रव्यप्रत्याख्यानतेत्याशङ्कयाऽऽह-जिनाऽऽज्ञायामामाऽऽगम भक्तिबहुमानो जिनाऽऽज्ञाभक्तिः, सा च संवेगश्च मोक्षभिलाषो जिनाऽऽज्ञाभक्तिसवपो जिनाऽऽज्ञाभक्तेर्वा सकाशात्संवेगो जिनाऽऽज्ञाभक्तिसंवेग, तयोस्तस्य वा वैकल्यं विरहितत्वं जिनाऽऽज्ञाभक्तिसंवेगवैकल्यम्, तस्मात्। एतदुक्तं भवति-अभव्याऽऽदीनां त्यागपरिणामस्य संवेगाऽऽदिविकल्पतया अपरिणामत्वात्तद्द्य्यप्रत्याख्यानमिति / एतदपि न केवलमवधि प्रत्याख्यानमपरिणामप्रत्याख्यानमपि, असत् अशोभन, भावप्रत्याख्यानापेक्षया अप्रधानं द्रव्यप्रत्याख्यानमित्यर्थः / / 5 / / अथ वीर्याभावस्य द्रव्यप्रत्याख्यानहेतुतामाहउदग्रवीर्यविरहात्, क्लिष्टकर्मोदयेन यत्। बाध्यते तदपि द्रव्य-प्रत्याख्यानं प्रकीर्तितम्।।६।। उदगमुत्कट यद्धीर्य वीर्यान्तरायक्षमोपशमसंपन्नाऽऽप्मपरिणामलक्षणं, तस्य विरहो विच्छेद उदग्रवीर्यविरहः, तस्मादवधेः, क्लिष्टकर्मोदयेन तीव्रवीर्यान्तरायाऽऽदिकर्मविपाकेन कर्तृभूतेन, यत् प्रत्याख्यानं प्रतिपन्नमपि सद् बाध्यतेऽभिभूयते, वीर्योल्लासेन हि जीवः क्लिष्ट कर्म शमयति तदभावे च क्लिष्ट कर्मोदयो भवति। तेन च प्रत्याख्यानं बाध्यत इति वीर्याभावः प्रत्याख्यानबाधने हेतुः। अथवा-क्लिष्टकर्मोदयेन यो वीर्याभावस्तस्मात् प्रत्याख्यानं यद्बाध्यते जीवेनेति, तदपि न केवलमविधिप्रत्याख्यानं वीर्याभावप्रत्याख्यानमपि. द्रव्यप्रत्याख्यानमुक्तलक्षण, प्रकीर्तितं तत्त्ववेदिभिः, अन्यैस्तु व्याख्यातं कालान्तरेण भावप्रत्याख्यानकारणत्वात् द्रव्यत्वम्, अस्य सकृत्संजातो हि भावान्तरं जनयति / यदाह- "सइसजाओ भावो, पायं भावतरं जओ कुणइ।" इति / इह च द्रव्यशब्दो योग्यतावाची द्रष्टव्य इति // 6|| उक्तं द्रव्यप्रत्याख्यानम्। अथ भावप्रत्याख्यानमाहएतद्विपर्ययाद्भाव-प्रत्याख्यानं जिनोदितम्। सम्यक् चारित्ररूपत्वा-न्नियमान्मुक्तिसाधनम् // 7 // एतद्विपर्ययादपेक्षाऽऽदिकृतप्रत्याख्यानविपर्यासात्, अनपेक्षा