________________ पेढालपुत्त 1085- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त एतदेव व्यत्ययेन विभणिषुराह-(जे वयमित्यादि) यान्चयं वदामस्त्रसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ त्रसभूता एव प्राणारत्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते / अपि स्थाने एकार्थेतुल्ये भवतोनात्रार्थभेदः कश्चिदस्त्यन्यत्रा शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ? युष्माकमयंपक्षः सुष्टु प्रणीततरोयुक्तियुक्तः प्रतिभासते ? तद्यथा-असभूतां एव प्राणास्त्रसभूताः प्राणा इति अयं तु पक्षो दुष्प्रणीततरो भवति प्रतिभासते भवताम् ? तद्यथा-ठासा एव प्राणारत्रसाः प्राणाः, सन्ति चैकार्थत्वेन भवतां कोऽयं व्यामोहो? येन शब्दभेमाश्रित्यात एक पक्षमाक्रो, शयश, द्वितीयं त्वभिनन्दथ इति। तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याऽऽक्रोशनमपरस्य सविशेषण पक्षस्याभिनन्दन मित्येष दोषाभ्युपगमो भवतां नो नैयायिको-न न्यायोपपन्नो भवत्युभयोरपि पक्षयोः समानत्वात्, केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति || वच भवताऽस्माक प्राग्दोषोद्भावनमकारि / तद्यथा त्रसानां वधनिवृत्ती तदन्येषां वधानुमतिः स्यात साधोः, तथा भूतशब्दानुपादानेऽन्तरमेव त्रसं स्थावरपर्यायाऽपन्नं व्यापादयतो व्रतभङ्ग इत्येतत्कुचोद्यजातं परिहर्तुकाम आह -- भगवं च णं उदाहु संतेगइआ मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणागारियं पव्वइत्तए, सावयं एहं अणु पुटवेण गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं सखं ठावयंति नन्नत्थ अभिओएणंगाहा वइचोरगहणवि-मोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तं पितेसिं कुसलमेव भवइ // 10 // (भगवं च णमित्यादि) णमिति वाक्यालङ्कारे। भगवान् गौतमस्वामी, चशब्दः पुनः शब्दार्थे। पुनराहा तद्यथा-सन्ति विद्यन्ते एके केचन लघुकर्माणो मनुष्याः प्रव्रज्यां कर्तुमसमर्थाः, तदव्यतिरेकेणैव धर्म चिकीर्षवस्तेषां चैवमध्यवसायिनां साधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति। तद्यथा-भोः सधो ! न खलु वयं शक्नुमो मुण्डा भवितुं प्रव्रज्या ग्रहीतुमगाराद्-गृहादनगारता-साधुभावं प्रतिपत्तुं, वयं त्वानुपूर्येण क्रमशो गोत्रास्येति गां त्रायत इति गोत्र साधुत्वं तस्य साधुभावस्य पर्यायेण परिपाल्याऽऽत्मानमनुश्लेषयिष्यामः / इदमुक्तं भवति-पूर्व देशविरतिरूपतया श्रावक्रधर्म गृस्थयोग्यमनिन्द्यमनुपालयामस्ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति / तत एवं ते संख्या व्यवस्था श्रावयन्ति प्रत्याख्यानं कुर्वन्तः प्रकाशयन्तिा तद्यथा-नान्यत्राभियोगेन, सचाभियोगो राजाऽभियोगो गणभियोगो बलाभियोगो देवता ऽभियोगो गुरुनिग्रहश्चेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि ब्रस न व्रतभङ्गः। तथागृहपतिचोरविमोक्षणतयैत्यस्यायमर्थः कस्यचिद्गृहपतेः षट्पुत्राः, तैश्च सत्यपि पितृपितामहक्रमाऽऽयति महति वित्ते तथाविधकर्मोदयद्राज कुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतान्ते इत्येके। परे त्वन्यथा व्याचक्षते, तद्यथारल्लपुरे नगरे रत्नशेखरोनाम राजा, तेन च परितुष्टन रत्नमालाऽग्रमहि- षीप्रमुखान्तः पुरस्य कौमुदीप्रचारोऽनुज्ञातः, तदव गम्य नागरलोकेनापि राजानुमत्या स्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं, राज्ञा च नगरे सडिण्डिमशब्दमाघोषितम् / तद्यथा-अस्तमनोपरि कौगढीमहोत्सवे प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीर निग्रहः क्रियते इत्येवं च व्यवस्थिते सत्येकस्य वणिजः षट् पुत्राः, तेच कौमुदीदिने क्रयविक्रयसंव्यवहारव्याग्रतया तावत्स्थिता यावत्सविताऽस्तमुपगतः, तदनन्तरमेव स्थगितानि च नगरद्वाराणि तेषां च तत्कालात्ययान्न निर्गमनमभूत, ततस्ते भयसंभ्रान्ता नगरमध्य एवाऽऽत्मानं गोपयित्वा स्थितास्ततो निष्क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयाऽऽदिष्टा यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित इति। तैरप्यारक्षिकैः सम्यक् निरुपयद्भिरूपलभ्य षडवणिकपुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः। राज्ञाऽप्याज्ञाभङ्ग कुपितेन तेषां षण्णामपि वधः समादिष्टः / ततस्तत्पिता पुत्रवधसमाकर्णन गुरुशोकविह्वलोऽकाण्डाऽऽपतितकुलक्षयोदभ्रान्तलोचनः कि कर्तव्यतामूढतयाऽगणिताविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच गद्गदया गिरा। यथा-मा कृथा देवास्माकं कुलक्षयं, गृह्यतामिदमस्मदीय कुलक्रमाऽऽयातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यता मुच्यताममी षट् पुत्राः, क्रियता मयमस्माकमनुग्रह इति। एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश-असावपि वणिक्सववधाऽऽशङ्की सर्वमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनंयाचितवान्, तानप्यसौ राजा न मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तबास्तं, तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृताऽऽदरस्तत्पिताऽभूत, तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान्। तत्राऽप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान् / तद्यथा-देव ! अकाण्ड एवास्माकं कुलक्षयः समुपस्थितः, तस्माच भवन्त एव आणायालमतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति भणित्वा पादयोः सपौरमहत्तमः पतितो, राज्ञाऽपि संजाताऽनुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्रा इति / तदेवमस्य दृष्टान्तस्य दार्टान्ति कयोजनेयम् / तद्यथा साधुनाऽभ्युपगत सम्यग्दर्शनमवगम्य श्रावकमखिलप्राणाति पातविरतिग्रहणं प्रति चोदितोऽप्यशक्तिया यदान सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थं विज्ञापितोऽपि न षडपि पुत्रान् मुमुक्षति, नापि पञ्चचतुस्त्रि-द्विसंख्यान् पुत्रानिति। तत एकविमोक्षणेनाऽऽत्मानं कृतार्थमिव मन्यमानः स्थितोऽसावेवं साधोरपि श्राविकस्ययथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्त्येवं साधोरपि न शेषप्राणिवधानु मति प्रत्ययजनितः कर्मवन्धो भवति, किं तर्हि ? यदेव व्रतं गृहीत्वा या नेव सत्वान् बादरान् संकल्पजप्राणिवधनिवृत्या रक्षति तन्निमित्तः कुशलानुबन्ध एवेत्येत्सूत्रोणैव दर्शयितुमाह-(तसेहिमित्यादि) त्रस्यन्तीति सा द्वीन्द्रियाऽऽदयस्तेभ्यः सकाशान्निवाय निहाय वा परित्यज्येति यावत् / कम ? दण्डयतीति दण्डस्तं परित्यज्य, त्रसेषु प्राणातिपातविरतिं गृहीत्वे त्यर्थः, तदपि च सप्राणातिपातविरमणव्रतं