________________ पेढालपुत्त 1084- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त नीत्या सति दोषपरिहणोपाये ते केचन क्रोधाद्वा लोभाद्वा परं श्रावकाऽऽदिकं निर्विशेषणमेव प्रत्याख्यापयन्ति, तेषां प्रत्याख्यानं ददतां मृषावादो भवति, गृह्यतां चावश्यंभावी व्रतविलोप इति। तदेव-मयमपि न:-अस्मदीयोपदेशाऽभ्युपगमो भूतत्वविशेषणविशिष्टः पक्षः किं भवतां (नो) नैव नैयायिको-न्यायोपपन्नो भवति? इदमुक्तं भवति-भूतत्वविशेषणेन हि असान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञाऽतिचार इत्यपि चैतदायुष्मन् गौतम ! तुभ्यमपि रोचते / / 7 / / सवायं भगवं गोयमे ! उदयं पेढालयुत्तं एवं वयासी आउसंतो! उदगा ! नो खलु अम्हे एवं रोयइ,जे ते समणा वा माहणा वा एवमाइक्खंति-जाव परूवेंति, णो खलु ते समणा वा णिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अन्माइक्खंति खलु ते समणे समणोवासए वा, जेहिं वि अन्नेहि जीवेहिं पाणेहिं भूएहिं सत्तेहिं संयमयंति ताण वि ते अब्भाइक्खंति, कस्स णं तं हेउं? संसारिया खलु पाणा तसा वि पाणा थावरत्ताए पचायंति, थावरा वि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुचमाणा थावरकायंसि उववजंति, थावरकायाओ विप्पमुचमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं / / 8 / / एवमेतद्यथा मया व्याख्यातमा एवमभिहितो गौतमः सद्वाचं सवाद वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत्, तद्यथा-नो खल्वायुष्मनुदक! अस्मभ्यमेतदेवं यद्यथा त्वयोच्यते तद्रोचत इति। इदमुक्तं भवति-यदिदं असकायविरतौ भूतत्वविशेषण क्रियते, तन्निरर्थकतयाऽस्मभ्यं न रोचत इति तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मण वा एवंभूतशब्द विशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं स्वतः कुर्वन्तः कारयन्तश्चैवमिति-सविशिषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानप्ररूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तोन खलुते श्रमणा वा निर्ग्रन्था वा यथार्था भाषा भाषन्ते, अपि त्वनुतापयतीत्यनुतापिका तां तथा भूतां च खलु ते भाषां भाषन्ते, अन्यथा भाषणे ह्यपरेण जानता बोधि तस्य सतोऽनुतापो भवतीत्यतोऽनुतापिकेत्युच्यत इति। पुनरपि तेषां सविशेषणप्रत्याख्यानतामुल्वणदोषो द्विभावयिषयाऽऽह-(अब्भाइक्खति इत्यादि, ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह तश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोषोद्भावनतोऽभ्याख्यान ददति। किं चान्यत्-(जेहिं वीत्यादि) येष्वप्यन्येषु प्राणिषुभूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयमं कुर्वन्ति संयमयन्तिा तद्यथा ब्राह्मणो न भया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति, तद्वधे ब्राहाणवध आपद्यते, भूतशब्दाविशेषणात्तदेवं तान्यपि विशेषतानि सूकरो मया न हन्तव्य इति एवमादीनि ते भूतशब्दविशेषवादिनोऽभ्याख्यान्तिदूषयन्ति। किमित्रुयतआह-(कस्स णमित्यादि) कस्मा-1 खेतोस्तदसद्भूतं दूषणं भवतीति ? यस्मात्सांसारिकाः खलु प्राणाः परस्पर-जातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनः स्थावरत्वेन प्रत्यायान्ति, स्थावराश्च त्रासत्वेनेति। असकायाच सर्वाऽऽत्मना ासाऽऽयुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मो पादानादुत्पद्यन्ते, तथा स्थावरकायाच्च तदायुष्काऽऽदिना कर्मणा विमुच्यमानास्त्रसकाये समुत्पधन्ते, तेषां च त्रासकाये समुत्पन्नां स्थानमे तलाकायाऽऽख्यमघात्यम्अघातार्ह भवति। यस्मात्तेन श्रावकेण त्रासानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीब्राध्यवसायोत्पादकत्वाल्लोकगर्हि तत्वाचेति। तत्रासो स्थूलप्राणतिपातानिवृत्तस्त निवृत्या च त्रसस्थानमधात्यं वर्तते, स्थावरकायाचानिवृत्त इति तद्योग्यतथा तत्स्थानं घात्यमिति / तदेवं भवदभिप्रायेण विशिष्टसत्वोदेसेनाऽपि प्राणातिपातनिवृत्तौ कृतायामपरपर्यायाऽऽपन्नं प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्चन कस्यचिदपि सम्यग्वतपालन स्यादित्येवमभ्याख्यात मसदभूतदोषोद्भावनं भवन्तो ददति / यदपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलाऽयं भूतशब्द उपादीयतेऽसावपि व्यामोहाय केवलमुपतिष्ठते। तथा हि-भूतशब्दोऽयमुपमानेऽपि वर्तत। तद्यथा-देवलोकभूतं नगरमिदं, न देवलोक एव तथाऽत्रापि त्रसभूतानां त्रअससद्दशानामेव प्राणातिपातनिवृत्तः कृता स्यान्न तु सानामिति / अथ तादर्थ्य भूतशब्दोऽयं, यथा शीतीभूतमुदकं शीतमित्यर्थः / एवं त्रसभूतास्वासत्वं प्राप्तास्तथा च सति कासशब्देनैवगतार्थत्वापौनरूक्तयं स्यात्। अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात्। तथाहि-क्षीरभूत विकृतेः प्रत्याख्यानं करोम्येवं घृतभूतं मे ददस्वैवंघटभूतः पटभूत इत्येवमादावप्यायोज्यामिति / / 6 / / तदेवं निरस्ते भूतशब्दे सत्युदक आहसवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासीकयरे खलु ते आउसंतो गोयमा ! तुन्भे व्यह-तसपाणातसा आउ अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा ! जे तुन्भे वयह-तसभूता पाणा ते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुब्भे वयह तसभूया पाणा, पए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो ! इमे भे सुप्पणीयतराए भवइ, तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ, तसा पाणा तसा, ततो एगमाउसो ! पडिक्कोसह एक अभिणंदह अयं पि भेदो से णो णेआउए भवइ / / 6 / / सद्वाचं सवादं वा उदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत। तद्यथा हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ असा एव ये प्राणाः प्राणिनस्त एव ासाः प्राणा इति, उतान्यथेति, एवंपृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्र मेवमवादीत्। तद्यथा-आयुष्मन्नुदक ! यान-प्राणिनो यूयं वदथ त्रसभूतास्त्रसत्वेनाऽऽविर्भूताः प्राणिनो नातीता नाप्येष्याः, किं तु ? वर्तमानकाल एव ासाः प्राणा इति, तानेव वयं वदामः सास्त्रसत्वं प्राप्तास्तत्कालवर्तिन एव ासाः प्राणा इति।