________________ पेढालपुत्त 1083- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त तिपाताऽऽदिविषये तदन्येषां सुक्ष्मबादराणां प्राणिनामुपघाते सत्यारम्भजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः करमान्न भवति? तथा स्थूलप्राणातिपाताऽऽदिविषये व्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिस्थं व्यापादयत इव तव्रतभङ्ग जनितः कर्मबन्धः कस्मान्न भवीत्येतत्प्रश्नस्योत्तरं गृहपति चौरग्रहण विमोक्षणोपमया दत्तवान् तच्च श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुत्वोदकाऽऽख्यो निर्ग्रन्थ उपशान्तः–अपगतसंदेहः संवृत्त इति।सांप्रतं सूत्रामनुश्रियते-सउदको गौतमस्वामिसमीपसमागत्य भगवन्तमिदमवादीत् / तछथा-आयुष्मन् गौतम ! अस्ति मम विद्यते कश्चित्प्रदेशः प्रष्टव्यः, ता संदेहात्,तंच प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम व्यागृणीहि-प्रतिपादय / एवं पृष्टः स चायं भगवान, यदि वा सह वादेन सवादं पृष्टः सदाचं वा शोभनभारतीकं वा प्रश्न पृष्टस्तमुदकंपेढालपुकामेवमवादीत्। तद्यथा अपि च आयुष्मन्नुदक ! श्रुत्वा भवदीयं प्रश्नं निशम्य चावधार्य च गुण दोषाविचारणतः सम्यगह ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवाय' सदाचं सवाद या उदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् / / 5 / / आउसो गोयमा ! अत्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खावेंति णण्णत्थ आभिओएणं गाहावइचोरगहणं विमोक्खणयाए तसेहिं पाणेहिं णिहाय दंड, एवं एहं पचक्खंताणं दुप्पचक्खायं भवइ, एवं एहं पञ्चक्खावेमाण / णं दुप्पचक्खावियव्वं भवइ, एवं ते परं पञ्चाक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं तं हेउं? संसारिया खलु पाणा थावरा विपाणा तसत्ताए पचायंति, तसा वि पाणाथावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति तसकायाओ विप्पमुचमाण थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं // 6 // तद्यथा-भो गौतम ! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बह्वर्थवृत्तिर्गृहीतस्ततश्चायमर्थः-सन्तिविद्यन्तेकुमार पुत्रा नाम निर्ग्रन्था युष्मदीय प्रवचनं प्रवदन्तः। तद्यथा-गृहपतिं अमणोपासकमुपसंपन्न नियमायोत्थितमेवं प्रत्याख्यापयन्ति प्रत्याख्यानं कारयन्ति, तद्यथास्थूलेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्तं निहायपरित्यज्य प्राणातिपातनिवृत्तिं कुर्वन्ति। तामेवापवदतिनान्योति, स्वमनीषिकाया अन्या राजाऽऽद्यभियोगेन यः प्राण्युपधातो न ता निवृत्तिरिति। तत्रा किल स्थूलप्राणिविशेषणात्तदन्येषामनुमति प्रत्ययदोषः स्यादित्या शङ्कावानाह-(गाहावइ इत्यादि) अस्य चार्थमुत्तरत्राऽऽविर्भाव यिष्यामः। येनाभिप्रायेणोदकश्चोदितवाँस्तमाविष्कुर्वन्नाह-(एवं एहमित्यादि) एहमिति वाक्यालङ्कारे अवधारणे वा, एवमेव असप्राणिविशेषणत्वेनापरासभूत विशेषणरहित्वेन प्रत्खाख्यान गृहृतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्तथैवमेव प्रत्याख्यापयतामपि / साधूनां दुष्ट प्रत्याख्यानदान भवति। किमित्यत आह-एवं ते श्रावकाः | प्रत्याख्यानं गृह्णन्तः साधवश्च परं प्रत्याख्यापयन्तः स्वां प्रतिज्ञामति चरन्ति-अतिलगायन्ति। (कस्सणं हेउ ति) प्राकृतशैल्य कस्माद्धेतोरित्यर्थः ? तत्र प्रतिज्ञाभङ्ग कारणमाह-(संसारिया इत्यादि) संसारो विद्यते येषां ते सांसारिकाः। खलुरलङ्कारे, प्राणिनोजन्तवः स्थावराः प्राणिनः--पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयालासतयाठासत्वेन द्वीन्द्रियाऽऽदिभावे प्रत्यायान्ति उत्पद्यन्ते, तथा कासा अपि स्थावरतयेत्येवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः / तथाहि नागरिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता, स यदा बहिरारामाऽऽदौ व्यवस्थितं नागरिकं व्यापादयेत्किमे त्रावतातस्य न भवेत्प्रतिज्ञाविलोपः? एवमत्रापि येन त्रसवधनिवृत्तः कृता स यदा तमेव त्रसंप्राणिनं स्थावराकायस्थित व्यापादयेक्तिं तस्य न भवेत् प्रतिज्ञाविलोपः ? भवेदेवेत्यर्थः / एवमपि त्रासस्थावरकाये समुत्पन्नां असाना यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं स्यात्ततस्ते त्रसाः स्थावरत्वेनाप्युत्पन्नाः शक्यन्ते परिहर्तु, न च तदस्तीत्येतदर्शयितुमाह-(थावरकायाओ इत्यादि) स्थावरकायात्सकाशाद्विविधम्-- अनेकैः प्रकारैःप्रकर्षेणु मुच्यमानाः स्थावरकायाऽऽयुषा तद्योग्यैश्वापरैः कर्मभिः सर्वाऽऽत्मना ासकाये समुत्पद्यन्ते, तथा असकायादपि सर्वाऽऽत्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानं तथाभूतत्रास लिङ्गाभावात्प्रतिझालोप इत्येतत्सूत्रेणैव दर्शयितुमाह-(तेसिं च णमित्यादि) तेषां-असानां स्थावरकाये समुत्पन्नानां गृहीतत्र सप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थाव राऽऽख्य धात्यं स्थानं भवति, तस्मादनिवृत्तल्वास्येति॥६॥ एवं एहं पचक्खंताणं सुपचक्खायं भवइ, एवं एहं पञ्चक्खा वेमाणाणं सुपचक्खावियं भवइ, एवं ते परं पञ्चक्खावेमाणा णातियरंति सयं पइण्णं, णण्णत्थ अमिओगेणं गाहावइचो रगइणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं, एवा मेव सइ भासाए परक्कमे विजमाणे जे ते कोहा वा लोहा वा परं पचक्खावेंति अयं पि णो उदएसे णो णेआउए भवइ, अवियाई आउसो गोयमा ! तुब्भं पि एवं रोयइ॥७॥ तदेवं व्यवस्थिते नागरिकदृष्टान्तेन असमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो, यतस्तत एवं मदुक्तया वक्ष्यमाणनीत्या प्र(त्या) ख्यानं कुर्वतां सुप्रत्याख्यातं भवत्येवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयतो नातिचरन्ति स्वीयां प्रतिज्ञा मित्येतद्दर्शयितुमाह- (णण्णत्थेत्यादि) तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति / तद्यथा-ासभूतेषु वर्तमानकाले त्रसत्वेनोत्पन्नेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्त विहायपरित्यज्य प्रत्याख्यान करोति, तदिह भूतत्वविशेषणात स्थावरपर्यायाऽऽपन्नवधेऽपि न प्रतिज्ञा विलोपः / तथा नान्यत्राभियोगेनेति राजाऽऽद्यभियोगादन्यता, प्रत्याख्यानमिति तथा गृहपतिचौरविमोक्षणतयेति, एतच भवद्धि सम्यगुत्कम् एतदपि असकाये भूतत्वविशेषण मभ्युपगम्यतामिति एतदभ्युपगमेऽपि हि यथा क्षीरविकृति प्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञा विलोपः / तथा त्रसभूताः सत्त्वान हन्तव्या इत्येवंप्रतिज्ञावतः स्थावरहिसायामपि न प्रत्या ख्यानत्तिचारः / तदेवं विद्यमाने सति भाषायाः प्रत्याख्यानवचः पराक्रमे भूत विशेषणाद्दोषपरिहार सामर्थ्य एवं पूर्वोक्तया