________________ पेढालपुत्त 1082- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त अणहे, उस्सियफलिहे अप्पावयदुवारे चियत्तंतेउरप्पवेसे चाउद्दसट्ठमुद्दिपुण्णमासिणीसु पडिपुग्नं पोसह सम्म अणु पालेमाणे समणे निग्गंथे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूहिं सीलव्वयगुण विरमणपचक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं चणं विहरइ॥३॥ (सेणं लेवे इत्यादि) णमिति वाक्यालङ्कारे, सलेपाऽऽख्यो गृहपतिःश्रमणान-साधूनुपास्तेप्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवाऽऽदिपदार्थाऽऽविर्भावक श्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति-अभिगतजी वाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुराऽऽदिभि देवगणैरनतिक्रमणीयः-अनतिलङ्घनीयो धर्मादप्रच्यावनीय इति यावत्, तदियता विशेषणकलापेन तस्यसम्यग्ज्ञा नित्वमावेदितं भवति। साम्प्रतंतस्य विशिष्टस्मयग्दर्शनित्वंप्रतिपादयितुमाह-('निग्गंथे' इत्यादि) निर्गन्थे-आर्हतेप्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशद्धं यज्जिनैः प्रवेदितस्' इत्येवं कृताध्यवसायः, तथा निर्गता कासा--अन्यान्यदर्शनग्रहरूपा यस्याऽसौ निराकासाः, तथा निर्गता विचिकित्साचित्तविप्लुतिर्विद्वज्जुगुप्सा वा यस्यासौ निर्विचिकित्सः, यत एवमतोलब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो ज्ञाततत्व इत्यर्थः, तथा गृहीतः स्वीकृतोऽर्थों-- मोक्षमार्गरूपो येन स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः, ततोऽभिगतः--पृष्टनिर्वधनतः प्रतीतोऽर्थो येन सोऽभिगतार्थः, तथा अस्थिमिजा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्त्ववासितान्तश्चेता इति यावत्, एतदेवाऽऽविर्भावयन्नाह-'अयमाउसो!' इत्यादि। केनचिद्धर्मसर्वस्वं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्रप्रवचनमर्थःसद्भूतार्थः तथा प्ररूपणतया, तथेदमेवाऽऽह-अयमेव परमार्थः, कषतापच्छेदैरस्यैव शुद्धत्वेन निर्घटितत्वात्, शेषस्तु सर्वोऽपिलौकिकतीर्थिकपरिकल्पितो ऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाऽऽविष्करणं कृतं भवति / साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाऽऽह-('उस्सिय' इत्यादि) उच्छृतं प्रख्यातं स्फटिकवन्निर्मलं यशो यस्याऽसावुच्छृतस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः तथा-अप्रावृतम्-अस्थगितंद्वारं गृहमुखं यस्य सोऽप्रावृतद्वारः, इदमुक्तं भवति-गृहं प्रविश्य परतीर्थिकोऽपि यद्यक्तथयति तत्तदसौ कथयतु, न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्त्वाचयावयितुं शक्यत इति यावत्। तथा राज्ञांवल्लभान्तःपुरद्वारेषु प्रवेष्टुशीलं यस्य स तथा। इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि भाण्डागारान्तःपुराऽऽदीनि तेष्वप्यसौ प्रख्यातश्रावकाऽऽख्यगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिषूयदिष्टासुमहाकल्याणकसंबन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः, एवंभूतेषुधर्मदिवसेषुसुष्टुअतिशयेन प्रतिपूर्णी यः पौषधौव्रताभिग्रहवि शेषस्तंप्रतिपूर्णमआहारशरीरसत्कारब्रह्मचर्या व्यापाररूपं पौषधमनुपालयन् सम्पूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रामावेदितं भवति / साम्प्रतं तस्यैवोत्तरगुणख्यापनेनदानधर्ममधिकृत्याऽऽह-'समणे निग्गंथे' इत्यादि सुगमं यावत् 'पडिलाभेमाणे' त्ति / साम्प्रतं तस्यैव शीलतपोभावनाऽऽत्मकं धर्ममावेदयन्नाह-(बहूहि-मित्यादि) बहुभिः-शीलव्रतगुणविरमणप्रत्याख्यानपौषधोप-वासैस्तथा यथा परिगृहीतैश्च तपःकर्मभिरात्मानं भावयन, एवं चानन्तरोक्तया नीत्या विहरतिधर्ममाचरंस्तिष्ठति, चः समुच्चये। णमिति वाक्यालङ्कारे // 3 // तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उदगसाला होत्था, अणेगखंभसयसग्निविट्ठा पासादीया० जाव पडिरूवा, तीसे गं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्थ णं हत्थिजामे नामवणसंडे होत्था, किण्हे वण्णओवणसंडस्स।।।। तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः सम्बन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधानागृहोपयुक्तशेष द्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः सैवंभूताऽऽसीदनेकस्तम्भशतसन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्याश्चोत्तर पूर्वदिग्विभागे हस्तिया माख्यो वनखण्ड आसीत् कृष्णावभास इत्यादिवर्णकः॥४|| तस्सिं च णं गिहपदेसम्मि भगवं गोयमे विहरइ, भगवं घणं अहे आरामंसि / अहे णं उदए पेढालपुत्ते भगवं पासावचिजे नियंठे मेयजे गोत्तेणं जेणेव भगवं गोयमे तेणे व उवागच्छइ, उवागच्छइत्ता भगवं गोयम एवं वयासीआउसंतो ! गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च आउसो! अहासुयं अहादिरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी अवियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-||५| तस्मिश्च वनखण्डगृहप्रदेशे भगवान् गौतमस्वामी श्रीवर्धमानस्वामिगणधरो विहरति। अथानन्तरं भगवान गौतम स्वामी तस्मिन्नारामे सह साधुभिर्व्यवस्थितः, अथानन्तरं णमिति वाक्यालंकारे, उदकाऽऽख्यो निम्रन्थः पेढालपुत्रः पापित्यस्य पार्श्वस्वामिशिष्यस्यापत्यं शिष्यः पापित्यीयः स च मेतार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया। यस्यां दिशियस्मिन्वा प्रदेशे भगवान श्रीगौतमस्वामी तस्यां दिशि तस्मिन्या प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति। अत्रा नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयि तुमाहपासावचिनो पु-च्छियाइओ अञ्जगोयम उदगो। सावगपुच्छा धम्म, सोउं कहियम्मि उवसंता॥२०५।। (पासावचीत्यादि) पार्श्वनाथाशिष्य उदकाभिधान आर्यगौ - तमं पृष्टवान्, किं तत्, श्रावक गतं-श्रावक विषयं प्रश्न, तद्यथाभो इन्द्रभूते? साधोः श्रावकाणुव्रतदाने सति स्थूलप्राणा