________________ पूया 1077- अभिधानराजेन्द्रः - भाग-५ पूया क्षेपः / उत्त० 11 अ०। 'एहवणविलेवण' इति गाथात्रये ध्वजाऽष्टमङ्गलको न दृश्यते, साम्प्रतं तु ध्वजाऽवसरे तु तो क्रियेयाता, तत्र किं कारणमिति प्रश्ने, उत्तरम्-''एहवणविलेवण" इत्यादि-गाथामध्ये ध्वजाऽष्टमङ्गलकयोरुपलक्षणेन च ग्रहणं बोध्यं, यत आत्मीयानामवच्छिन्नपरम्परागतः स्नात्राऽऽदिविधिर्निमूलो न भवतीति सम्भाव्यते इति / सेन० 2 उल्ला०। सप्तदशभेदपूजाकरणं दिवसे शुद्धयति, किं वा रात्रावपीति प्रश्ने, उत्तरम्-सप्तदशभेदपूजाकारणं दिवस एव शुद्धयति, न तु रात्रौ। तीर्थाऽऽदौ तुयत् कदाचित् पूजाकरणं तत्तु कारणि कमिति / 116 प्र० / सेन० 2 उल्ला० / तथा सप्त दशभेदपूजायां क्रियमाणायां पूजा पूजां प्रति स्थालीमध्ये कलशो ध्रियते, न वेति प्रश्ने, उत्तरम्पूजां पूजां प्रति स्थालीमध्ये कलशो धरणीय एवंविधनियमो ज्ञातो नास्ति। यदा यद्वस्तुनः पूजा तदा तद्वस्तुमोचनप्रवृत्तिः स्थालीमध्ये दृश्यत इति / 211 प्र० / सेन० 3 उल्ला० / चतुर्दशीपूजा कृत्वा स्थालीमध्ये प्रदीप मुक्तवा ऊर्द्धवस्था मायन्ति, किं तत्रा प्रदीपाधिकारोऽस्ति, अथवा-नास्तीति प्रश्ने, उत्तरम्-चतुर्दशीपूजातः पश्चातस्थालीमध्ये प्रदीपो मुच्यते एवेति ज्ञातो नियमो नास्तीति। 212 प्र०। सेन०३ उल्ला०। साधूनां भावपूजाकथिताऽस्ति, प्रतिष्ठाऽऽदावजनशालाकाकरणे तु द्रव्यपूजा जायते, तत्कथमिति प्रश्ने, उत्तरम्साधूना बाहुल्येन भावपूजा, श्राद्धानां च बाहुल्येन द्रव्यपूजा कथिताऽस्ति परमौकान्तो ज्ञातो नास्ति / यतः श्रीस्थानाङ्गसूत्रे-"पूए नामेगे पूजायेइ'' इति चतुर्भङ्गिकास्ति, एतस्या अर्थकरणे यतीना मेकान्तद्रव्यपूजानिषेधो ज्ञातो नास्ति, यतोऽङ्गरागेण यतिपतीनां पूजा क्रियते, साऽपि द्रव्यपूजा भवतीति। 447 प्र०। सेन०३ उल्ला०। अथ ग० माणिक्यविजयकृतप्रश्नौ तदुत्तरेच- यथा श्राद्धः स्वहस्तेन पुष्पाणि गोटयित्वा पूजां करोतीति कुा ग्रन्थेऽस्तीति प्रश्ने, उत्तरम्--श्रीशान्तिनाथ चरिको श्राद्धो वाटिकातः स्वयं पुष्पाणि गृहीत्वा पूजां करोतीत्यक्षराणि दृश्यन्ते / 475 प्र० / सेन०३ उल्ला० / श्राद्धोऽभिमानेनान्यपूजास्पर्द्धया वा सप्तदशभेदपूजां करोति, तस्य किं फलं भवतीति प्रश्ने, उत्तरम्मुख्यवृत्याऽभि मानाऽऽदिक बिना केवलवीतरागभक्तया पूजा क्रियते, यदि कश्चितभिमानाऽऽदिना पूजां करोती तदा तस्य न तथाविध फलमिति / 462 प्र० / सेन० 3 उल्ला० / त्रिकालवेलायां पूजा या क्रियते सा त्रिकालपूजा कथ्यते, कारणविशेषे तु न्यू नाधिककालेऽपि कृता सैव कथ्यते इति / सेन०४ उल्ला०। त्रिकालपूजाकरणे प्रभाते पुष्पमालाऽऽदिनिर्माल्यम पास्य सर्वस्नानेन वासपूजा क्रियते, अन्यथा वेति प्रश्ने, उत्तरम्-प्रभाते पुष्पमालाऽऽदिनिर्माल्यमनपास्य श्राद्धा वासपूजां कुर्वन्तो दृश्यन्ते, सर्वस्नानकरणेऽप्येकान्तो ज्ञातो नास्ति, हस्तपादप्रक्षालनेन शुद्धयतीति। 367 प्र०। से०४ उल्ला०। पूयाइ पुं० (पूजाऽऽदि) पूजासत्कारप्रभृतौ, पञ्चा०८ विव० / पूयाकम्म न० (पूजाकर्मन) पूजायाः कर्म पूजाकर्म / पूजाक्रियायाम, पूजैव कर्म। कृतिकर्माणि आव०३ अ०। (पूजाकर्मापि द्विधा किइकम्म' शब्दे तृतीयभागे 508 पृष्ठेऽस्ति) पूयापणिहाण न० (पूजाप्राणिधान) पूजा--अर्चनं तत्र प्राणिधानम् / पूजां करोमि इत्येवविध ऐकाये, पञ्चा०४ विव०। पूजापण्णासग न० (पूजापञ्चाशक) पूजाप्रतिपादके हरिभद्र सूरिविरचिते पञ्चाशद्गाथाऽऽत्मके ग्रन्थे, "विहिणा उकीमाणा, सव्वा वि अफलवई भवे चेला। इहलोइया वि किं पुण, जिणपूआ उभयलोगहि // 1 / " ध०२ अधिन पूयाभत्तन०(पूजाभक्त) पूज्यानामर्थाय निष्पादतेपूज्येभ्यः प्रदत्ते भक्ते, बृ०। सागारियररा पूयाभत्ते, उद्देसिए चेइए पाहुडियाए, सागारियस्स उवगरणजाए निहिए णिसट्ठपाडिहारिएतं सागारिओ देइ, सागारियस्सपरिजणो देइ, तम्हा दावए, नो से कप्पइ पडिग्गाहित्तए / / 25 / / अथास्य सूत्रस्य कः संबंधः? इत्याह - दव्वे छिण्णमछिण्णं, न कप्पते कप्पए य इति वुत्तं। इदमन्ने पुण भावे, अव्वोच्छिण्णम्मि पडिसिद्धं // 355 / / द्रव्यतः-छिन्नं-विभक्तं सदंशिकाद्रव्यं कल्पते तदेवाच्छिन्नमविभक्तं न कल्पते इति प्रोक्तम् / इदं पुनरन्यस्मिन् सूत्र सागारिकस्याव्यवच्छिन्ने भावे प्रतिषिद्ध न कल्पते इत्यर्थः / अविसेसिओ व पिंडो, हेट्ठिमसुत्तेसु एसमक्खातो। इह पुण तस्स विभागो, सो पुण उवकरण भत्तं वा / / 356 / / अथवा अधस्तनसूत्रषु अविशेषतो भागरहित एष सागारिकपिण्ड आख्यातः, इह पुनः-प्रस्तुतसूत्रे तस्य सागारिकपिण्डस्य विभाग उच्यते / कथामत्याह-सपुनः पिण्डउपकरणं वा भवेत्, भक्तं था। इत्यनेन संवन्धेनाऽऽयातस्यास्य (25 सूत्रास्य) व्याख्यासागारिकस्य ये पूज्याः स्वामिकलाऽऽचार्याऽऽदयस्तदर्थ भक्तमशनाऽऽदि पूज्यभक्तम्। तत्रोद्देशः-संकल्पस्तेन निवृत्तमौहेशिकं, तानेव पूज्यानुद्दिश्य कृतमित्यर्थः / ततस्तेषामेव प्राभृतिकायां तं चेतति, ढौकनीकृतमुपनीतमिति भावः। तथा सागरिकस्योपकरणजातं वस्त्रं कम्बलाऽऽदिकं पूज्यानामर्थाय निष्ठितं-निष्पादितं, ततो निसृष्टं पूज्येभ्यः प्रदत्तं, तच्च-भक्तमुपकरण, यतिभ्यः प्रातिहारिकदत्तं भक्तावशेष सदिदं भूयोऽप्यस्माकं प्रत्यर्पणीयमिति भावः। तदेवप्रकारं संयतानां सागरिको वा दद्यात्, सागरिकस्य परिजनो वा दद्यात्, किं कल्पते न वेत्याह-तस्मात् पूज्यभक्तात् पूज्योपकरणाद्वा प्रातिहारिकं दद्यात्, परं न कल्पते प्रतिगृहीतुमिति सूत्राऽर्थः // 25 // अथ भाष्यम्संबंधी सामि गुरु, पासंडी वा वि तं सणुद्दिस्स। पूया उक्खितं ति य, पट्टगभत्तं च एगट्ठा // 357 / / सागारिकस्यैव यः सबन्धी पितृव्यमातुलाऽऽदियों वा तस्य स्वामी प्रभुर्गुरुर्वा कलाऽऽचार्याः, यस्य वा पाखण्डिनो भक्तिः स पूज्य उच्यते, तसमुद्दिश्य कृतं सत्पूज्यभक्तमुच्यते, तत्र भेदपर्यायाख्या निर्वचनादेकाथिकान्याह-पूज्यभक्तम्, उत्क्षिप्तभक्तं, पट्टकभक्तम्, एतान्येकार्थानि पदानि। चेइय कडमेगटुं, पाहुडिय पहेणनं च एगट्ठा। उवगरणं वत्थादी, जाव विभागो उ जोगं वा / / 358||