SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ पूया 1076- अभिधानराजेन्द्रः - भाग-५ पूया अद्वेषेण तदन्येषां, वृत्ताऽऽधिक्ये तथाऽऽत्मनः / / 120 // गुणाऽऽधिक्यपरिज्ञानादेवताऽऽन्तरेभ्यो गुणाधिकस्य गुणबृद्धेरवगमात् विशेषेऽप्यर्हदादौ किं पुनः सामान्येन / एतत्पूजनमिष्यते। कथमित्याह-- "अद्वेषेण" अमत्सरेण, "तदन्येषां" पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां "वृत्ताऽऽधिक्ये आचारधिक्ये सति। "तथा'' इति विशेषणसमुच्चये।"आत्मनः" स्वस्य देवताऽऽन्तराणि प्रतीत्येति। गुरुदेवाऽऽदिपूजनमित्यत्राऽऽदिशब्दप्रगृहीत पूजनीयान्तरमधिकृत्याऽऽहपाने दीनाऽऽदिवर्गे च, दानं विधिवदिष्यते। पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् / / 121 // पाने-दयाकलोकरक्षाकारे निर्दिक्ष्य(श्य)माण(न)लक्षणे, दीनाऽऽ - दिवर्गे च भविष्यमाणरूप एव दानस्वविभवाति सर्गरूपम, विधिवद्विधिक्तम्, इष्यते मतिमद्भिः / कथमित्याह-'पोष्यवर्गाविरोधेन'' मातापित्रादिपोषणीयलोकस्य वृत्तेरनुच्छेदनेन, 'न विरुद्धं' न दायकग्राहयोर्धर्मबाधाकारि हलमुसलाऽऽदिवत् / 'स्वतश्च'' स्वात्मना च"यत्"दीयमा नमिति। एतदेव भावयतिव्रतस्था लिङ्गिनःपात्रा-मपचास्तु विशेषतः। स्वसिद्धान्ताविरोधेन, वर्तन्ते ये सदैव हि / / 122 / / व्रतन्थाः-हिंसाऽनृतादिपापस्थानविरतिमन्तः, लिङ्गिनोव्रतसूचकतथाविधनेपथ्यवन्तः, पात्रम्, अविशेषेण वर्तन्ते। अत्राऽपि विशेषमाहअपचास्तु स्वयमेवापाचकाः, पुनरुपलक्षणत्वात्परपाचयितारः पञ्यमानाननुमन्तारश्च लिङ्गिन एव, विशेषतो विशेषेण पात्रमिति। तथा स्वसिद्धान्तावि रोधेनस्वशास्त्रोक्तक्रियाऽनुल्लङ्घनेन वर्तन्तेचेष्टन्ते ये सदैव हि सर्वकालमेवेति। दीनान्धकृपणा ये तु, व्याधिग्रस्ता विशेषतः। निःस्वाः क्रियाऽन्तराशत्काः, एतदर्गो हि मीलकः॥१२३|| दीनान्धकृपणाः-दीनाः-क्षीणसकलपुरुषार्थशक्तयः अन्धाः नयनरहिताः कृपणाः-स्वभावत एव सतां कृपास्थानम्। ये तु ये चाव्याधिग्रस्ता:-कुष्ठाऽऽद्यभिभूताः, विशेषतोऽत्यन्तम्,तथा निःस्वानिधनाः। कीद्दशा एत इत्याह-"क्रियाऽन्तराशक्ताः निर्वाहहेतुव्यापारान्तरासमर्था ये प्राणिविशेषाः / किमित्याह-"एतद्वर्गः'' दीनाऽऽदिवर्गो यः प्रागुद्धिष्टः, हि पादपूरणार्थः, मीलकः दीनाऽऽदीनामेवेति। "विधिवत्' (121) इत्युक्तमथ तदेव व्याचष्टेदत्तं यदुपकाराय, द्वयोरप्युपजायते। नाऽऽतुरापथ्यतुल्यं तु, तदेतद्विधिवन्मतम्॥१२४।। दत्तं-वितीर्णम्, यदन्नादि, उपकाराय-अनुग्रहाय, द्वयोरपि दायकग्राहकयोरुपजायते, न पुनरेकस्यैवेत्यपिशब्दार्थः / व्यतिरेकमाह-ननैव, आतुरापथ्यतुल्यं तुज्वराऽऽदिरोगविधुरस्यघृताऽऽदिदानसदृशपुनः यन्मुसलहलाऽऽदि तहाय कग्राहकयारपकारि, एतहत्तं विधिवन्मतमभीष्टम्। दानाऽऽदीनामपि प्रकारान्तेण पूजात्वमेवा अथ दान मेव स्तुवन्नाहधर्मस्याऽऽदिपदं दानं, दानं दारिद्रयनाशनम्। जनप्रियकरं दानं, दानं कीांदिवर्धनम् // 125 / / धर्मस्य-श्रेयोरूपस्य, आदिपदं प्रथमस्थानम्, दानमुक्तलक्षणम्, दानं दारिद्रयनाशनम्, इहपरभवयोर्लोभान्तरा यकर्मोपघातेन विशिष्टलाभसंभवाद्दौर्गत्यापोहकारि जनप्रियकर लोकसन्तोष हेतुर्दानम्, दानं कीयादिवर्धन कीर्तिः स्वचित्त सन्तोषजनसौभाग्यऽऽदिवृद्धिहेतुः, यदत्र पुनः पुनर्दानशब्दोचारणं तदत्यन्ताः ऽऽदरणीयताख्याफ्नार्थमिति। यो० वि०। ईसरतलवरमाडं-बियाण सिवइंदखंदविण्हूणं / जा किर कीरइ पूया, सा पूया दय्वतो होइ // 315|| ईश्वरश्च-द्रव्यपतिः, तलवरश्च-प्रभुस्थानीयो नगराऽऽदिचिन्तकः, मडम्बंजलदुर्ग, तस्मिन् भवो माडम्बिकः, तद्भोक्ता, सच, ईश्वरतलवरमाडम्बिकास्तेषां, तथा शिवश्च शम्भुरिन्द्रश्वपुरन्द्ररः, स्कन्दश्चस्वामिकार्तिकेय, विष्णुश्चवासुदेवः शिवेन्द्रस्कन्दविष्णवस्तेषां, या किल क्रियते पूजा सा पूजा द्रव्यतो द्रव्यनिक्षेपमाश्रित्य भवति। द्रव्यपूजेति योऽर्थ, किलशब्दस्त्विहापारमार्थिकत्वख्यापको, द्रव्यतोऽपि हि भावपूजाहेतुरेव पूजोच्यते, इंय तु द्रव्यार्थमप्रधाना वा पूजेति द्रव्यपूजा, अतोऽपारमार्थिक्येव, एतदभिधानं तुद्रव्यशब्दस्यानेकार्थत्वसूचकमिति गाथाऽर्थः / भावपूजामाहतित्थगरकेवलीणं, सिद्धाऽऽपरियाण सव्वसाहूणं| जा किर कीरइ पूया, सा पूया भावतो होइ // 316|| तीर्थकराश्च-अर्हन्तः, केवलिनश्च–सामान्येनैवोत्पन्न केवला स्तीर्थकरकेवलिनस्तेषां. सिद्धाऽऽचार्याणां प्रतीतानां, तथा सर्वसाधूनां का? या किल क्रियते-विधीयते पूजा सा पूजा भावतो-भावनिक्षेपमाश्रित्य भवति, किलशब्दः परोक्षाऽऽतवादसूचकः। तीर्थकराऽऽदिपूजा हि सर्वाऽपि क्षायोपशमिकाऽऽदिभाववर्तिन एव भवतीति भावपूजैव, यत्तु पुष्पाऽऽदि पूजाया द्रव्यस्तवत्वमुक्तंतद्-द्रव्यैः-पुष्पाऽऽदिभिः स्तव इति व्युत्पत्तिमाश्रित्य संपूर्ण भावस्तवकारणत्वेन वेति गाथाऽर्थः / सम्प्रति प्रस्तुतोपयोग्याहजे किर चउदसपूवी, सव्वक्खरसन्निवाइणो निउणा। जा तेसिं पूया खलु, सा भावे ताएँ अहिगारो॥३१७।। ये प्राग्वत, किलेति वाक्यालङ्कारे, चतुर्दशपूर्विणश्चतुर्दश पूर्वधरः राणि समरतानि यान्यक्षराणि अकाराऽऽदीनि तेषां सन्निपातनंतत्तदर्थाभिवायकतया साङ्गत्येन घटनाकरणं सर्वाक्षरसन्निपातः, स विद्यतेऽधिगमविषयतया येषां तेऽमी सर्वाक्षरसन्निपातिनः निपुणाः-कुशलाः, या तेषां चतुदर्शपूर्विणां पूजा उचितप्रतिपत्तिरूपा, उपलक्षणं चेयं शेषबहुश्रुत पूजायाः, प्राधान्याचास्या एवोपादानं, खलु निश्चितं, सा भावभाव विषया, तयाबहुश्रुतपूजालक्षणया भावपूजये हाऽधिकारः प्रकृतमिति गाथाऽर्थः / इत्युक्तो नामनिष्पन्ननि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy