________________ पूया 1075- अभिधानराजेन्द्रः - भाग-५ पूया त्यागश्च--प्रोज्झनम्, तदनिष्टानां-गुरुवर्गाऽसमतानां व्यवहाराणाम्, तदिष्टेषु-गुरुवर्गप्रियेषु व्यवहारेष्वेव प्रवर्तनम् / अत्रापवादमाह - 'औचित्येन तु" औचित्यवृत्त्या पुनः 'इदं पूजनं ''ज्ञेयं प्राहुः" उक्तवन्तः पूर्वे, औचित्यमेव व्यनक्तिधर्मा ऽऽद्यपीड्याधर्माऽऽदीनां पुरुषार्थानामबाधया, यदि तदनिष्टभ्यो निवृत्तौ तदिष्टषु च प्रवृत्ता धर्माऽऽदयः पुरुषार्था बाध्यक्न्ते, तदान तन्निवृत्तिपरेण भाव्यं, किंतु पुरुषार्थाऽऽराधनपरेणैव, अतिदुर्लभत्वात्पुरुषार्थाऽऽराधनकालस्येति / / तथातदासनाऽऽद्यभोगश्च, तीर्थे तद्वित्तयोजनम्। तद्विम्बन्याससंस्कारः, ऊर्ध्वदेहक्रिया परा।।११।। तदासनाऽऽद्यभोगश्च-गुरुवर्गस्याऽऽसनशयनभोजनपात्राऽऽदी नामभोगोऽपरिभोगः, तीर्थे-देवताऽऽयतनाऽऽदौ, तद्वित्तयोजनमअलङ्काराऽऽदिगुरुवर्गद्रव्यनियोजनम्, अन्यथा-तत्स्वयंग्रहे गुरुवर्गमण्णाऽऽद्यनुमतिप्रसङ्ग स्यात्। तद्विम्बन्याससंस्कारः तस्य गुरुवर्गस्य यो बिम्बन्यासः प्रतिबिम्बस्थापनारूपस्तस्य संस्कारो धूपपुष्पाऽऽदिपूजारूपः, तत्कारितदेवताऽऽदेः पूजारूप इत्यन्ये / ऊर्ध्वदेहक्रियागुरुदेवपूजनाऽऽदिमृतकार्यक्ररणरुपा, परादर्शिताऽऽदरा। अथ देवपूजाविधिमाह - पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रीश्च शोभनैः। देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम्।।११६।। पुष्प-जातिशतपत्रिकाऽऽदिसंभवैः, बलिना पक्वान्नफलाऽऽद्यु पहाररूपेण वस्दै र्वसनैः, स्तोत्रौः-स्तवनैः। चशब्दौ चैवशब्दश्च समुच्चयार्थाः / शोभनरादरोपहितत्वेन सुन्दरैः, देवानाम् आराध्यतमानाम, पूजन ज्ञेयम् / कीदृशमित्याह-शौच श्रद्धासमन्वितम्-शौचेन शरीरवस्त्रव्यवहारशुद्धिरूपेण श्रद्धया च-बहुमानेन समन्वितं-युक्तमिति। एतचअविशेषेण सर्वेषा-मधिमुक्तिवशेन वा। गृहिणां माननीया य - त्सर्वे देवा महात्मनाम् // 117|| अविशेषेण साधारणवृत्त्या, सर्वेषां पारगतसुगतहरह-रिदिरण्यगर्भाऽऽदीनाम् / पक्षान्तरमाह-अधिमुक्तिवशेन वा अथवा, यस्य यत्रा देवतायामतिशयेन श्रद्धा तद्वशेन / कुत इत्याह?'गृहिणाम्' अद्याऽपि कुतोऽपि मतिमोहादनि तदेवताविशेषाणां 'माननीयाः" गौरवार्हाः "यत्" यस्मात् "सर्वे देवाः" उक्तरूपाः ''महात्मानां" परलोक प्रधानतया प्रशस्ताऽऽत्मनामिति / एतदपि कथमित्याह ? सर्वान्देवान्नमस्यन्ति, नैकं देवं समाश्रिताः। जितेन्द्रिया जितक्रोधाः, दुर्गाण्यतितरन्ति ते // 118 // सर्वान्देवान्नमस्यन्ति-नमरकुर्वते / व्यतिरेकमाह- "नैक'' कञ्चन ''देवं समाश्रिताः' प्रतिपन्ना वर्तन्ते, यतो- 'जितेन्द्रियाः-निगृहीतहृषीकाः "जितक्रोधाः"अभिभूतकोपाः "दुर्गाणि नरकपाताऽऽदीनि व्यसनानि 'अतितरन्ति'' व्यातिक्रामन्ति ते -सर्वदेवनमस्काररिः / ननु नैव ते लोके व्यवह्रियमाणाः सर्वेऽपि देवा मुक्तिपथ प्रस्थितानामनुकूलाऽऽचरणा भवन्तीति कथमविशेषेण नमस्का (स्क)रणीयतेत्याशक्याऽऽह चारिसंजीवनीचार-न्याय एष सतां मतः। नान्यथाऽत्रोष्टसिद्धिःस्या द्विशेषेणाऽऽदिकर्मणाम्।।११।। चारेः प्रतीतरूपाया मध्ये सजीवन्यौषधिविशेषश्चारिसञ्जीवनी, तस्याश्चारश्चरणं, स एव न्यायो दृष्टान्तश्चारिसञ्जी वनीचारन्यायः, एषोऽविशेषेण देवतानमस्का स्क रणीयतोपदेशः, सतां विशिष्टानाम्, मतः-अभिप्रेतः। "भावार्थस्तु कथागम्यः, स चायमभिधीयते। अस्ति स्वस्तिमती नाम, नगरी नागराऽऽकुला // 1 // तस्यामासीत्सुता काचिद्, ब्राह्मणस्य तथा सखी। तस्यामेव परं पात्रां, सदा प्रेम्णो गतावधेः / / 2 / / तयो विवाहवशतो, भिन्नस्थाननिवासिनोः। जज्ञेऽन्यदा द्विजसुता, जाता चिन्तापरायणा // 3 // कथमास्ते सखीत्येवं, ततः प्राघूर्णिका गता। दृष्टा विषादजलधौ, निमग्ना सा तया ततः / / 4 / / पप्रच्छ कि त्वमत्यन्त-विच्छायवदना सखी?| तयोचे पापसद्माऽहं, पत्युर्दुर्भगतां गता।।५।। मा विषीद विषादोऽयं, निर्विशेषो विषात्सखि ! / करोम्यनवाहमह, पतिं ते मूलिकाबलात्॥६।। तस्याः सा मूलिका दत्त्वा, संनिवेशं निजं ययौ / अप्रीतमानसा तस्य, प्रायच्छत्तामसौ ततः // 7 // अभूगौरुद्धरस्कन्धो, झगित्येव च सा हृदि। विद्राणैष कथं सर्व-कार्याणामक्षमो भवेत? ||8|| गोयूथान्तर्गतो नित्य, बहिश्चारयितुं सकः। तयाऽऽरब्धो वटस्याधुः, सोऽन्यदा विश्रमं गतः / / 6 / / तच्छाखायां नमश्चारि-मिथुनस्य कथञ्चन। विश्रान्तस्य मिथो जल्प प्रक्रमे रमणोऽब्रवीत्।।१०।। नात्रैष गौः स्वभावेन, किं तु वैगुण्यतोऽजनि। पत्नी प्रतिबभाषे सा, पुनर्नासौ कथं भवेत् ? / / 11 / / मूलान्तरोपयोगेन, काऽऽस्ते साऽम्यतरोरधः। श्रुत्वैतस्या पशोः पत्नी, पश्चात्तापितमानसा / 12|| अभेदज्ञस्ततश्चारि, सर्वां चारयितु तकाम्। प्रवृत्तो मूलिकाभोगा-त्सद्योऽसौ पुरुषोऽभवत्।।१३।। अजानानो यथा भेदं, मलिकायास्तथा पशुः। चारितः सर्वतश्चारि, पुनर्नृत्वोपलब्धये // 14 // तथा धर्मगुरुः शिष्य, पशुप्रायं विशेषतः। प्रवृत्तावक्षम ज्ञात्वा, देवपूजाऽऽदिक्रे विधौ / / 15 / / सामान्यदेवपूजाऽऽदौ, प्रवृत्तिं कारयन्नपि / विशिष्टसाध्यसिद्ध्यर्थ, न स्याद् दोषी मनागपि॥१६॥" इति। विपक्षे बाधामाह-(न) नैव "अन्यथा'' चारिसंजीवनीचार न्यायमन्तरेण "अत्र'' देवपूजनाऽऽदौ प्रस्तुते 'इष्ट सिद्धिः'' विशिष्टमार्गावताररूपा " स्यात्' भवेत् / अयं चोपदेशो यथा येषां दातव्यस्तदाह"विशेषेण" सम्यगहष्ट्याधुचितदेशनापरिहाररुपेण 'आदिकर्मणां'' प्रथम मेयाऽऽरब्धस्थूलधर्माऽऽचाराणाम् / न ह्यत्यन्तमुग्धतया कञ्चन देवताऽऽदिविशेषमजानाना विशेषप्रवृत्तेरद्यापि योग्याः, किंतु सामान्यरूपाया एवेति। तर्हि कदा विशेषप्रवृत्तिरनुमन्यत इत्याशक्याऽऽह - गुणाऽऽधिक्यपरिज्ञाना-द्विशेषेऽप्येतदिष्यते।