________________ पूया 1074- अभिधानराजेन्द्रः - भाग-५ पूया देवः, तम् अर्चय-पूजय, तद्भक्तिरतो भव इति।।१।। 2 अथ अनुक्रमेण पूजाप्रकारानाहक्षमा पुष्पस्त्रजं धर्म -युग्मक्षौमद्यं तथा। ध्यानाऽऽभरणसारंच, तदने विनिवेशय / / 3 / / हे भव्य ! तदरे आत्मस्वरुपे अङ्गे क्षमा क्रोधोपशमस्तां वचनधर्मक्षमारूपांपुष्पस्त्रज पुष्पमालां निवेशय स्थापय, तथा-तथैव धर्मयुग्मंश्रावकसाधुरूपं श्रुतचारित्रारूपं वा क्षौमद्य वस्त्रद्वयं निवेशय, पुननि धर्मशक्तं तदेव आभरण्स्य सारं प्रधानं परमब्रह्मणि निवेशय, इत्येवं गुणपरिणमनरूपां पूजां कुरु // 3 // मदस्थनमिदात्यागै-लिखाग्रे चाष्टमङ्गलीम्। ज्ञानानौ शुभसंकल्प-काकतुण्डं च धूपय / / 4 / / मदः-मानोन्मादः तस्य स्थानानि, तान्येव भिदा भेदाः तेषां त्यागैःवर्जनैरष्टमङ्गलीमगे लिखा तथा-ज्ञानाऽनौ शुभ संकल्पशुभरागपरिणमस्तद्रूपं काकतुण्डंकृष्णगुरुं धूपय इत्यनेन रागाऽध्यवसायाः शुभाः पुण्यहेतवः सिद्धि साधनेत्याज्या एव, अतः ज्ञानबलेन तेषात्यागो भवति // 4 // प्रागधर्मलवणोत्तारं,धर्मसंन्यासवह्निना। कुर्वन् पूरय सामर्थ्य-राजन्नीराजनाविधिम् // 5 // अाऽऽत्मस्वरूपार्चने 'धर्मसंन्यासवहिना धर्मः स्वरूपसत्ता सहजपरिणामिकलक्षणः चन्दनगन्धतुल्यः तस्य सम्यग्न्यासः- स्थापनं, स एव वह्निः, तेन प्राक्-पूर्वसाधनरूपः धर्मः सविकल्पभावनारूपः तदेव लवणं तस्योत्तारोनिवारणं, निर्विकल्पकसमाधो साधकस्याऽपि सविकल्पकधर्मस्य त्याग एव भवति। एवं भावरूपमपवादसाधनरूपं लवणोत्तारं कुर्वन, 'सामर्थ्यराजन्नीराजनविधि' पूर्व सामर्थ्ययोगरुपा राजत् शोभमाना नीराजना-आरार्तिका तस्या विधिस्तंपूरय, सामर्थ्ययोगरूपंचया कर्मबन्धहेतेषु प्रवर्त्तमानबीर्यस्य न ताङ्ग प्रवृत्तिः, स्वाऽऽत्मधर्मसाधनाऽनुभवैकत्वे प्रवर्त्तमानो निष्प्रयासत्वेन प्रवर्त्तते स योगः सामर्थ्य उच्यते // 5 // स्फुरन्मङ्गलदीपं च, स्थापयाऽनुभवं पुरः।। योगनृत्यपरस्तौर्य-त्रिक*संयमवान् भव // 6|| चः-पुनः स्फुरत् देदीप्यमानं मङ्गलदीपं मङ्गलं सर्वद्रव्यभावो पद्रवमुक्त, दीपभावप्रकाशम्, अनुभवं स्पर्शज्ञानम् आत्मस्वभावाऽऽस्वादनयुक्तं ज्ञानं, पुरः-अग्रे स्थापया योगा:मनोवाकायरूपास्तेषां साधनप्रवर्तनरूपं नृत्य, तत्र तत्परः सोद्यमः सन् परमाध्यात्मधारणध्यानसमाधिरूप साधनयोगङ्गपरिणमनरुपः पूजात्रायमयो वा यः 'दुर्यायनय' संयमः तद्वान्भव, इत्यनेन आभ्यन्तरपूजया तत्वाऽऽनन्दमयं च चैतन्यलक्षणं स्वात्मानं तद्रूपं कुरु // 6 // उल्लसन्मनसः सत्य-घण्टां वादयतस्तव। भावपूजारतस्येत्यं, करक्रोडे महोदयः // 7 // इत्थं भावपूजारतस्य तव महोदयः-मोक्षः करक्रोडे हस्ततले अस्ति। किं कुर्वतः? उल्लसनमनसः-प्रसन्नचित्तस्य सत्पर्यायरुपां 'घण्टा वादयतः शब्दं कुर्वत इत्यनेन सहर्ष सत्यमनोल्लासघण्टा नादयतः सतः * मेघाऽऽघोष-मृदङ्ग- शङ्ख। पूर्वोक्तपूजाकरणेन सर्वशक्ति प्रादुर्भावरूपो मोक्षो भवति // 7 // द्रव्यपूजोचिता भेदो-पासना गृहमेधिनाम्। भावपूजा तु साधूना-मभेदोपासनाऽऽत्मिका ||8!! गृहमेधिना-गृहस्थाना भेदोपासनारूपा आत्मनः सकाशात् अर्हन्परमेश्वरः भिन्नः निष्पन्नाऽऽनन्दचिद्विलासी, तस्योपासनासेवना निमित्ताऽऽलम्बनरूपाद्रव्यपूजा उचितायोग्यातुपुनः साधूनामभेदोपासनाऽऽत्मिका परमात्मना स्यात्माऽभेदरुपा भावपूजा उचिता / यद्यपि सविकल्पकभावः पूजा गुणस्मरणबहुमानोपयोगरूपा भावपूजा गृहिणां भवति, तथाऽपि निर्विकल्पोपयोगस्वरूपेकत्वरूपा भावपूजा निर्ग्रन्था नामेवा एवम्-आश्रवकषाययोगचापल्यपराबृत्तिरूपद्रव्यपूजा ऽभ्यासेन अर्हदगुणस्वात्मधर्म कत्वरूपभावपूजावान् भवति, तेन च तन्मयतां प्राप्य सिद्धो भवति, इत्येवं साधनेन साध्योपयोगयुक्तेन सिद्धिः-निष्कर्मता भवति / / 8|| इति व्याख्यातं भावपूजाष्टकम् / अष्ट० 26 अष्ट० / "माता पिता कलाचार्यः, एतेषां ज्ञातयस्तथा। वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः॥११०।।" ('गुरुवग्ग' शब्दे तृतीयभागे 644 पृष्ठे दर्शितोऽयम्) गुरुवर्गपूजाविधिर्दीतेपूजनं चास्य विज्ञेयं, त्रिसंध्यं नमनक्रिया। तस्यानवसरेऽप्युच्चै-श्वेतस्यारोपितस्य तु // 111 // पूजनं च पूजनं पुनः, अस्य-गुरुवर्गस्य, विज्ञेयमवगन्तव्यम् / किमित्याह-"त्रिसंध्यं" संध्यातायाऽऽराधनेन 'नमनक्रिया'" प्रमाणरूपा। यदि कथञ्चित्सक्षादसौ प्रणन्तुंनयार्यते, तदा किं कृत्यमित्याह"तस्य" गुरुवर्गस्थ, "अभवसरेऽपि तथाविधप्रघट्टकवशाविपुनरवसर इत्यपिशब्दार्थः। " उचैः" अत्यर्थं "चेतसि मनसि "आरोपितस्य तु पूर्ववद गुरुवर्गस्य पूजनमिति। तथाअभ्युत्थानाऽऽदियोगश्च, तदन्ते निभृताऽऽसनम्। नामग्रहश्च नास्थाने, नावर्णश्रवणं कचित् / / 112 / / अभ्युत्थानाऽऽदियोगोऽभ्युत्थानाऽऽसनप्रदानस्थितपर्युपासनाऽऽदि विनयव्यापाररूपः, चः समुच्चये, तदन्ते गुरुवर्गान्ते, निभृताऽऽसनम - प्रगल्भतयाऽयस्थानम्, नामग्रहश्च नामोचारणरूपः न नैव, अस्थाने मूत्रापुरीषोत्सर्गाऽऽदिस्थानरूपे, न-नैव, श्रवर्णश्रवणमवर्णयादाssकर्णनम्, वचित्परपक्षमध्याव, स्थानेऽपीति। तथासाराणंच यथाशक्ति, वस्त्राऽऽदीनां निवेदनम्। परलोकक्रियाणां च, कारणं तेन सर्वदा // 113|| साराणं चोत्कृष्टानाम्, यथाशक्ति यस्य यावती शक्तिस्तया वस्ताऽऽदीनां वसनभोजनालङ्काराऽऽदीनाम, निवेदनसमर्पणम्, तथा परलोकक्रियाणां च देवातिथिदीनानाथप्रतिपत्ति प्रभृतीनाम्, कारणंविधपनम्, तेन गुरुवर्गेण, सर्वदा सर्वकालम्। तथा - त्यागश्च तदनिष्टानां, तदिष्टेषु प्रवर्तनम्। औचित्येन त्विदं ज्ञेयं, प्राहुर्धर्माऽऽद्यपीडया॥११४||