________________ पूइकम्म 1071- अभिधानराजेन्द्रः - भाग-५ पूइकम्म आगमे निषिध्यते, ततश्चादक आह- 'सुन्दर' युक्तमेना पूर्ति वर्जयितु, तत्किं नाऽऽगमे निषिध्यते? एवं परेणोत्के गुरुर्भणतिइंधनधूमेगंधे - अवयवमाई न पूइयं होइ। जेसिं तु एस पूई, सोही न वि विजए तेसिं // 258|| अत्रापि पदयोजनां प्रागिवा ततोऽयमर्थः-इन्धनाङ्गारावयवधू मगन्धवाष्पैराधाकर्मसम्बन्धिभिर्निभं पूतिर्न भवति, येषां तु मतेन पूतिर्भवति तेषां मतेन साधोः शुद्धिः सर्वथा न विद्यते। एतदेव भावयतिइंधनअगणीअवयव, धूमो बप्फो य अन्नगंधो या सव्वं फुसंति लोयं, भन्नइ सव्वं तओ पूई / / 256 / / इन्धनान्यवयवाः सूक्ष्माये धूमेन सहादृश्यामाना गच्छन्ति, तथा धूमो वाष्पोऽन्नगन्धश्च, एते सर्वेऽपि प्रसरन्तः किल सकलमपिलोकं स्पृशन्ति, तत्पुद्गलानां सकलमपि लोक यावगमनसम्भवात्, ततस्तवाभिप्रायेण सर्वमपि पूतिरापद्यते, तथा च सति साधोः कथं शुद्धिः ? इति। अापरः प्रागुक्तविरोध दर्शयन् स्वपक्षं समर्थयतिनणु सुहुमपूइयस्सा, पुव्वुट्ठिस्सऽसंभवो एवं। इंधणधूमाईहिं, तम्हा पूइ त्ति सिद्धिमिणं // 260 / / मनु यदीन्धनाग्न्यवयवाऽऽदिभिः पूतिर्न भवेत्, एवं सति तर्हि पूर्वोदिएस्य ''भावम्मि उ बायरं सुहुम'' इत्येवमुक्तस्य सूक्ष्मपूतेरसम्भवः प्राप्नोति, अन्यस्य सूक्ष्मपूतेरभावात् तस्मात् सिद्धमिदं यदुत इन्धनधूमाऽऽदिभिः सम्मिश्र पूतिः सूक्ष्मपूतिरिति। अा गुरुराहचोयग! इंधणमाई--हिँ चउहि वी सुहुमपूइयं होइा पन्नवणामित्तमियं, परिहरणा नत्थि एयस्स // 261 / / 'हे चोदक!' प्रेरक! इन्धनाऽऽदिभिः' इन्धनाग्नयवयवधू मवाष्पगन्धैश्चतुर्भिरपि स्पष्ट सूक्ष्मपूतिर्भवति, नात्र कश्चिद्वि वादः, एनामेव च सूक्ष्मपूतिमधिकृत्य प्रागुक्तम् (भावम्मि उबायरं सुहुम इति) केवलमिदं सूक्ष्मपूतित्वेन भणनं प्रज्ञापनामात्र, परिहणं पुनस्तस्याः सूक्ष्मपूतेनास्ति, अशक्यत्वात्। एतदेव प्रपञ्चयतिसज्झमसज्झं कलं, सज्झं साहिज्जए न उ असज्झं। जो उ असज्झं साहइ, किलिस्सइन तं च साहेइ॥२६२।। इह द्विविध कार्य साध्यमसाध्यं च शक्यमशक्यं चेत्यर्थः, तत्रा साध्य साध्यते न त्वसाध्यं, य स्त्वसाध्यं युष्मादृशः साधयति स नियमात् क्लिश्यते, नच तत्कार्य साधयति, अविद्यमानोपायत्वात्, एषोऽपि चानन्तरोक्तः सूक्ष्मपूतिरशक्य परिहारः, ततो न परिहि यते। सम्प्रति परः "बायरं सुहमं ति 'समर्थयमानोऽपर सूक्ष्म पूर्ति तस्य परिहरणं च शक्यं प्रतिपादयतिआहारकम्मियभायण-पप्फोडण काय अकयए कप्पे। गहियं तु सुहुमपूई, धोबणमाईहिँ परिहरणा / / 263 // यत्रा भाजने गृहीतमाधाकर्म तस्मिन् भाजने आधाकर्म परित्यागानन्तरं प्रस्फोटनं कृत्वा हस्तेनाऽऽस्फालनाऽऽदिनासर्वानप्याधाकवियवानापसार्य अकृते 'कल्पे कल्पनाये यद् गृहीततत्सूक्ष्मपूतिर्भवति, कतिपयोद्धरितसूक्ष्माऽऽधाकर्मावय वमिश्रणसम्भवति, तस्य च सूक्ष्मपूतेः परिहरणं भावनाऽऽदिभिः, किमुक्तं भवति? पात्रास्याऽऽधाकर्मिकपरित्यागान्तर कल्पत्रयधावनेन प्रक्षालनं क्रियते तर्हि सूक्ष्मपूतिर्न भवति, तत एवं सूक्ष्मपूतः परिहरणमपिघटते, तस्मादिदमेव सूक्ष्मपूति स्वरूप मुच्यतामिति भावः। तदेतदयुक्तम्। यत इयं वादरपूतिरेव, तथाहिगृहीतोऽस्ति तस्याऽऽधाकर्मणाः, सत्कैः स्थूलैः सिक्थाऽऽद्यवयवैः तन्मिभंसत्कथं स सूक्ष्मपूतिः? क्तिञ्चधोयं पि निरावयवं, न होइ आहच्च कम्मगहणम्मि। न य अहव्वा उ गुणा, भन्नइ सुद्धीकओ एवं // 264 / / कदाचित् 'कर्मग्रहणे' आधार्मिकग्रहणे सति तत्परित्या गानन्तरं पश्चात् 'धौतमपि' प्रक्षालितमपि पात्रं सर्वथा न निरवयवं भवति, पश्चादपि गन्धस्योपलभ्यमानत्वात्, अथ गन्ध एव केवल उपलभ्यतेन तु तदवयवः कश्चिदस्तीति वूषे,तत आह-नच 'अद्रव्याः' द्रव्यरहिताः गुणाः गन्धाऽऽदयः सम्भवन्ति, ततो गन्धोपलम्भादवश्यं ता धौतेऽपि केचन सूक्ष्मा अवयवा द्रष्टव्याः, ततो भण्यते-'एवमपि' अपिरत्रा सामर्थ्यानगम्यते, भवत्परिकल्पितप्रकारेणा पि कुतः सूक्ष्मपूतेः 'शुद्धिः परिहारो?, नैव कथञ्चन इति भावः, तस्मात्पूर्वोक्त एव सूक्ष्मपूतिः, तस्य च प्रज्ञापनामानं, न तु परिहरणं कर्तुं शक्यमिति स्थितम्। ननु यदि स परमार्थतः सूक्ष्मपूतिस्ततस्तस्याऽपरिहारे नियमादशुद्धिः प्राप्नोति, सोऽपि च सूक्ष्मपूतिः सकललोकव्यापीष्यते, गन्धाऽऽदिपुगलाना क्रमेण सकललोकव्यापनसम्भवात्, ततो यदा तदा वा काप्याधा कर्मसम्भवे सर्वेषामपि साधूनांमशुद्धिः प्रापोतीति नैव दोषो, गन्धाऽऽदिपुद्गलानां चरणभंशाऽऽपादनसामर्थ्यायोगात्, न चैतदनुपपन्नं, लोकेऽपि तथा दर्शनात्। तथाहिलोए वि असुइगंधा, विपरिण्या दूरओ न दूसंति। न य मारंति परिणया, दूरगयाओ विसावयवा ||265 / / लोकेऽपि अशुचिगन्धाः, अशुचिसत्का गन्धपुद्गला दूरत आगता विपरिणताः सन्तः स्पृष्टाः अपि 'न दुष्यन्ति' न स्पृष्टिदोषमशुचिस्पर्शनरूपं लोकप्रसिद्धं जनयन्ति, न च विषावयवा अपि दूरगताः सन्तः 'परिणताः' पर्यायान्तरमा पन्ना मारयन्ति, तथेहाष्याधाकर्मणः सम्बन्धिनो गन्धाऽऽदि पुदला दूरतः समागच्छन्तो विपरिणता न चरणप्राणान् विनाशयितुमीशाः, नाप्याधाकर्मसंस्पर्शलक्षणं दोष जनयन्तीति। तदेवमिन्धनाऽऽद्यवयवापेक्षया यः सूक्ष्मपूतिस्तमपरिहार्य प्रतिपाद्य सम्प्रति शेषद्रव्यपूर्ति परिहार्य प्रतिपादयतिसे सेहि उदव्वेहिं, जावइयं फुसइ तत्तियं पूई। लेवेहिं तिहि उ पूई, कप्पइ कप्पे कए तिगुणे // 266 / शेषैः इन्धनाऽऽद्यवयवव्यतिरिक्तैः शाकलवणाऽऽदिभिर्यावत् स्थाल्यादिपरिमितं द्रव्यं स्पृष्टं भवति तावत्प्रमाणं पूतिः, तथा सिभिलें पैः पूतिः। इयमत्रा भावनास्थाल्यां किलाऽऽधाकर्म