________________ पुहवीचंद 1070- अभिधानराजेन्द्रः - भाग-५ पुहवीचंद तानि च सर्वाण्याधाकाऽऽदिरूपाणि द्रष्टव्यानि, सर्वत्रापि च तृतीयार्थे सप्तमी। ततोऽयमर्थः-एतैः सम्मिश्रं शुद्धमपि यदशनाऽऽदि तत् पूतिः, तब चुल्ल्युखाभ्यां मिश्रिताभ्यां कृत्वा रन्धनेनः यद्वा तत्रा स्थापनेन, तथा 'डाय' शाकालवणं हिड्ड च प्रतीतम्, एतेराधाकर्मिकैः सम्मिश्रं पूतिः। तथा संक्रामणफोटनधूमैः इति, तत्रा संक्रामणम्-आधाकर्म, भक्ताऽऽदिखरण्टिते स्थाल्यादौ शुद्धस्याशनाऽऽदेः पचनं मोचन या, यदा-दारुहस्तेनाऽऽधाकर्मणाऽन्यत्रा स्थाल्यां सञ्चारणं, स्फोटनम्आधाकर्मणा राजिकाऽऽदिना संस्कारकरणं, धूमः हिब्वादिसत्को बघारः। एनामेव गाथां व्याचिख्यासुः प्रथमत उपकर णशब्द व्याख्यानयतिसिज्झंतस्सुवयारं, दिजंतस्सव करेइ जं दव्वं। तं उवकरणं चुल्ली, उक्खा दवी य डोयाई / / 251 / / (पिं) (अस्याः व्याख्या 'उवगरण' शब्दे 2 द्वितीयभागे 877 पृष्ठे गता।) तत्र चुल्ल्युखयोः स्थितमशनाऽऽदिकमाश्रित्य कल्प्याक लप्यविधिमाह - चुल्लुक्खा कम्माई, आइममंगेसु तीसु वि अकप्पं। पडिकुटुं तत्थऽत्थं, अन्नत्थगयं अणुन्नायं / / 252 / / इह, चुल्ल्युखे कदाचिद्वे अप्पाधाकर्मिके आधाकर्मिक कर्दमसम्मिश्रे वा भवेतां, कदाचिदेकतरा काचित्, तत्रा च भङ्गाश्चत्वारः, तद्यथाचुल्ली आधाकर्मिकी उन्ना च 1, चुल्ली आधाकर्मिकी नोखा 2, उखा आधाकर्मिकी न चुल्ली 3 नोखा आधकर्मिकी नापि चुल्ली 4 / तत्राऽऽदिमेषु शिष्वपि भङ्गेषु रन्धनेनावस्थानमात्रेण वा स्थितमकल्प्यं पूतिदोषात् / अकल्प्यस्यापि तस्य विषयविभागेन कल्प्यतामकल्प्यता चाऽऽह-'ता' चुल्ल्यादौ रन्धनेनान्यतो वाऽऽनीय स्थापनेन स्थितं सत् 'प्रतिक्रुष्ट' निराकृतम्, अन्यत्र गतं पुनस्तदेवानुज्ञातं तीर्थकराऽऽदिभिः। इयमत्रा भावना-यदि ता राद्धम्, अथवा अन्यतः समानीय स्थापित ततो यदि तदेवान्या स्ययोगेन नीतं भवति न साध्वर्थ तर्हि कल्पते। तदेवं चुल्ल्युखास्थितस्य कल्प्याकल्प्यविधिमुपदर्य, सम्प्रति चुल्ल्याधुपकरणानां पूतिभावं दिदर्शयिषुः 'चुल्लुक्खलिया डोए" (250) इति पूर्वोक्त गाथाऽवयवं व्याख्यानयतिकम्मियकद्दममिस्सा, चुल्ली उक्खा य फड्डगजुया उ। उवगरणपूइमेयं, जेए दंडे व एगयरे // 253 / / आधाकर्मिकन कईमेन या मिश्रा। किमुक्तं भवति ? कियता शुद्धन कियता चाऽऽधाकर्मि के ण या निष्पादिता चुल्लीउखा च सा आधाकर्मिककर्डममिश्रा, कथम्? इति, आह-(फडुगजुया उत्ति) अत्रा हेतौ प्रथमा। ततोऽयमर्थः-यतः फडु (के) गेन आधाकर्मि के न कमसूचकेन युता तत आधाकर्भिककर्दममिश्रा, सा इत्थंभूता उपकरणपूतिः, तथा 'डोए' इति। एकदेशे समुदायशब्दोपचारात्' 'डोय' इत्युक्ते डोयस्याग्रभागो गृह्यते, तस्मिन, यद्वा-दण्डे एकतर स्मिन्ना धाकर्मणि स दारुहस्सकः पूतिर्भवति, एवमनया दिशा अन्यस्याप्युपकरणस्य पूतित्वं भावनीयं, तत्र चुल्लयुखाविषये कल्प्याकल्प्यविधि रनन्तरमेवोक्तो दारुहस्तके चाऽऽधाकर्मणि पूतिरुपे या स्वयोगेन स्थाल्या बहिष्कृते स्थाल्यां स्थितमशनाऽऽदि कल्पते, न तु तेन सम्मिश्रमिति। 'सम्प्रति ''दव्वी छूढे य" इति व्याचिस्यासुराहदव्वीछूढे तिजं वुत्तं, कम्मदव्वीऍ जदए। कम्मं घट्टिय सुद्धं तु,घट्टए हारपूइयं / / 254|| 'दवी छूढे' (250) इति यद् प्रागुक्तं तस्यायमर्थः- 'कर्मदा, आधाकर्मिकदा यत् शुद्धमप्यशनाऽऽदिकं घट्टयित्वा ददाति तद् 'आहारपूतिः' भवतपूतिः / सा चेद्दर्वी स्थाल्याः सकाशान्निष्काशिता तर्हि स्थाल्याः सत्कं कल्पते, यद्वामा भूदाधाकर्मिकी दीं, केवल शुद्धयाऽपिदा यदि पूर्वमाधाकर्मिक, 'घट्टयित्वा' चालयित्वा पश्चादाधाकर्मा वयवखरण्टितया यदपरं शुद्धमपि भक्ताऽऽदिकं यथयति, घट्टयित्वा च ददाति तदप्याहारपूतिः। अस्यां च दा स्थाल्या निष्काशितयामपि पाश्चात्य स्थालीभक्तंन कल्पते, आधाकर्मावयवमिश्रितत्वात्। "डाए'' (250 गा०) इत्याधुत्तरार्द्ध व्याचिख्यासुराहअत्तट्ठिय आयाणे, डायं लोणं च कम्म हिंगुं वा। तं भत्तपाणपूई, फोडण अन्नं व जं छुहइ // 255 / / संकामेउं कम्मं, सिद्धं जं किंचि तत्थ छूट वा। अंगारधूमि थाली, वेसण हेट्ठा मुणिहि धूमो // 256 / / आत्मार्थम् 'आदाने'तकाऽऽदिपाकारऽऽम्भकरणरूपे सति यदाधाकर्मिकं 'डाय' शाकं, यदि वा-लवणं, यद्वा-हिडगुः, अन्यथा स्फोटनं राजिकाजीराकाऽऽदि तत् तक्राऽऽदिक तेन सम्मिश्रं भक्त पानपूतिः। एतेन "डाएलोणे हिंगू फोडणं' इति व्याख्यातम्। तथा यस्यां स्थाल्या राद्धमाधाकर्म तदन्यत्रा संक्रमथ्य प्रतिक्षिप्य तस्यामेव स्थाल्यामकृतकल्पयायां यदात्मार्थ सिद्धं किञ्चित्, यद्वा-तत्रा प्रक्षिप्तं तदपि भक्तपानपूतिः, अनेन "संकमणं,' ति व्याख्यातं, तथा 'अङ्गारेषु' निर्दूमाग्निरुपेषु'वेसने वेसनग्रहणमुपलक्षणम्, तेन वेसनहिङगुजीरकाऽऽदौ प्रक्षिप्ते सति यो धूम उच्छलति स वेसनाङ्गारधूम इति ज्ञातव्यं, पूर्वगाथायां धूम इत्यस्यपदस्यायमर्थो भावनीय इत्यर्थः वेसन शब्दस्य च व्यस्तः संबंध आर्षत्वात्, अडाराऽऽदीनां चमध्ये एकद्वे त्रीणि वाऽऽधाकर्मिकाणि द्रष्टव्यानि, अनेन च धूमेन या व्याप्ता स्थाली तक्राऽऽदिक या तदपि पूतिः / उक्ता बादरपूतिः। अथ सूक्ष्मपूतिमाहईंधणधूमेगंधे अवयवमाईहिं सुहमपूई उ। सुंदरमेयं पूई, चोयग भणिए गुरु भणइ / / 257 / / अौकारद्वयस्य छन्दोऽर्थत्वादादिशब्दस्य व्यत्ययान्मकारस्य चालाक्षणिकत्यादेवं निर्देशोद्रष्टव्यः-'इन्धनधूमगन्धाऽऽद्यवयवैः, इति, इन्धनग्रहण चोपलक्षणं, ततोऽङ्गारा अपि गृह्यन्ते, आदिशब्देन च वाष्पपरिग्रहः। ततोऽयमर्थः-इन्धनाङ्गारा वयवधूमगन्धवाष्पैराधाकर्मसम्बन्धिभिः सम्मिश्रं यत् शुद्धमशनाऽऽदिकं सूक्ष्मपूतिः / एषा च किल सूक्ष्मपूतिर्न