________________ पुहवीचंद 1069- अभिधानराजेन्द्रः - भाग-५ पुहवीचंद णीं। उत्त० 1 अ०। सटितकाम्. उत्त०। 'जहा सुणी पूइकण्णी' उत्त० १अ० पूइकम्म न० (पूतिकर्मन्) पूति-अपवित्रां तस्य कर्म, पवित्रास्य स तोऽपवित्रभक्ताऽऽदिमीनलनेन करणं पूतिकर्म, तद्योगाद् भक्ताऽऽद्यपि पूतिकर्म। पञ्चा० 6 विव०ा सम्भाव्यमानाऽऽधाकर्माव यवसम्मिश्रे, दश० 5 अ०१ उ०ा आधाकर्माऽऽद्य-विशुद्धकोट्यवयवेनाऽपि संपूक्ते, सूत्र० 1 श्रु०११ अ०। गायथा शुचिः पयोघटोऽपि एकेन मद्यविन्दुनाऽशुचिः स्यात्, तथा पूतिकर्मणा विशुद्धाऽऽहारमपि आधाकर्मिकयोगात् पूतिक स्यात्। अयं तृतीयो दोषः। उत्त०२४ अ०। आचा०। पं० चू०। धo| ग0) दर्श०। पं०व०। बृ०॥ सम्प्रति पूतिद्वारं वक्तव्यम्। पूतिश्चतुर्विधा। तद्यथा नामपूतिः स्थापनापूतिर्द्रव्यपूतिर्भावपूतिश्चा ता नामस्थापने सुज्ञानत्वादनाद्दत्य द्रव्यभावपूती प्रतिपादयतिपूईकम्मं दुविहं, दव्वे भावे य होइ नायव्वं / दव्वम्मि छगणधम्मिय, भावम्मि य बायरं सुहुमं / / 243 / / 'पूतिकम्मे पूतीकरण द्विधा / तद्यथा-'द्रव्ये' द्रव्यविषयं 'भावे' भावविषय, तत्रा द्रव्ये 'छगणधार्मिकः' गोमयोपलक्षितो धार्मिको दृष्टान्तः / भावविषय पुनर्द्विधा बादरं, सूक्ष्मंच। इह यद् द्रव्यस्य पूतिकरणं तद द्रव्यपूतिः, येन पुनद्रव्येण भावस्य पूतिकरणं तद् द्रव्यमप्युपचाराद् भावपूतिः ततो वक्ष्यमाणमुपकरणाऽऽदि भावपूतित्वेनाऽभिधीयमानं न विरुध्यते। तत्र प्रथमतो द्रव्यपूतिलक्षणमाह - गंधाइगुणसमिद्धं, दव्यं असुइगंधदव्वजुयं / पूइ त्ति परिहरिजइ, तं जाणसु दव्वपूइ त्ति // 244 / / इह यत् पूर्व स्वरूपतो 'गन्धाऽऽदिगुणविशिष्ट सुरभिगन्धाऽऽदिगुणविशिष्टमपि, अपिरत्रा सामर्थ्याद्गम्यते, पश्चादशु चिगन्धद्रव्ययुक्तं सत् पूतिरिति परिहियते, तद् द्रव्यं जानीहि द्रव्यपूतिरिति। अत्राार्थे गाथाद्वयेनोदाहरणमाह - गोहिनिउत्तो धम्मी, सहाएँ आसन्नगोट्ठिभत्ताए। समियसुरवल्लमीसं, अजिन्न सन्ना महिसिपोहो॥२४५|| संजायलित्तभत्ते, गोट्ठिगगंधो त्ति वल्लवणियाओ। उक्खणिय अन्न छगणे-ण लिंपणं दव्वपूई उ॥२४६।। समिल्ल नाम पुर, ता बहिरुद्याने सभाकलितदेवकुलिकाया माणिभद्रो नाम यक्षः अन्यदा च तस्मिन् पुरे शीतलकाभिधमशिवमुपतस्थे, ततः कैश्चित्तस्य यक्षस्योपया चितकमिष्टं यद्यस्मादशिवाद्वयं निस्तरामस्ततस्तवैक वर्षमष्टम्याऽऽदिषूद्यापनिकां करिष्यामः, ततो निस्तीर्णाः कथमपि तस्मादशिवात्, जातश्च तेषां चेतसि चमत्कारोयथा नूनमयं स प्रातिहार्यो यक्ष इति / ततो देवशर्माभिधो भाटकप्रदानेन पूजाकारको बभणे, यथा वर्षमेकं यावदष्टम्यादिषु प्रातरेव यक्षसभा गोमयेनोपलिम्पेः येन तत्र पवित्रीभूतायां वयमागत्योद्यापनिका कुर्मः, तथैव तेन प्रतिपन्न, ततः कदाचि दद्योद्यापनिका भवष्यितीति कृत्वा सभोपलेनार्थमनुद्गत एव सूर्ये कस्याऽपि कुटुम्बिनो गोपाटके छगणग्रहणाय प्रविवेश, तत्रा च केनाऽपि कर्मकरेण रात्रौ मण्डकवल्लसुराऽऽद्यभ्यवहारतो जाताऽजीर्णन पश्चिमरात्रिभागे तरिमन्नेव गोपाटके क्वचित्प्रदेशे दुर्गन्धमजीर्णं पुरीष घ्युदसर्जि, तस्य चोपरि कथमपि महिषी समागत्य छगणपोहं मुक्तवती. ततस्तेन स्थगितं तदजीर्णं पुरीषं देवशर्मणा न ज्ञातमिति. देवशर्मा त छगणपोहं सकलमपि तथैव गृहीत्वा तेन सभामुपलिप्तवान्, उद्यापनिकाकारिणश्च जना नानाविधमोदनाऽऽदिकं भोजनमानीय यावद् भोजनार्थतत्रोपविशन्ति, तावत्तेषामतीव दुरभिगन्धः समायातः, ततः पृष्टो देवशर्मा, यथा कुत्तोऽयमशुचिगन्धः समायाति? इति। तेनोक्तं नजाने, ततस्तैः सम्यकपरिभावयद्विरुपलेपनामध्ये वल्लाऽऽद्यवयवादद्दशिरे सुरागन्धश्च नितिः , ततो जज्ञे यदुपलेपनमध्ये पुरीषमवतिष्ठते इति, ततः सर्व भोजनमशुचीतिकृत्वा परित्यक्तम्, उपलेपनं च समूलमुत्खातम्, अन्येन च गोमयेन सभोपलेपिता, भोजनाऽऽदिकं चान्यत् पक्त्वा भुक्तामिति / सूत्र सुगमं, नवरं धर्मी धार्मिकः ('समिय' त्ति) मण्डकाः 'सञ्झा पुरीषम्, अत्र यदुपलेवन, यत्र तत्रा न्यस्तं भोजनाऽऽदिकं, तत्सर्वं द्रव्यपूतिः / उक्ता द्रव्यपूतिः। अथ भावपूतिमाहउग्गमकोडीअवयव-मित्तेण वि मीसियं सुसुद्धं पि। सुद्धं पि कुणइ चरणं, पूइं तं भावओ पूई // 247 / / 'उद्गमस्य' उदमदोषजालस्य याः कोटयोऽस्त्रयः विभागा आधाकमाऽऽदिरूपा भेदा इत्यर्थः / ताश्च द्विधा-विशोधयोऽविशोधयश्च / तोहाविशोधयो ग्राह्याः, तासामविशोधिरूपाणामुन्द्रमकोटीनामवयवमात्रोणापि मिश्रितमशनाऽऽदिकं स्वरूपतः 'सुशुद्धमपि' उद्रमाऽऽदिदोषरहितमपि सत् यद् भुज्यमानं चरणं 'शुद्धमपि' निरतिचारमपि पूर्ति करोति, तदशनाऽऽदिकं भावपूतिः। 'उग्गमकोडी' इत्युक्तम् / ततस्ता एवोगमकोटीरभिधित्सुराह - आहाकम्मुद्देसिय, मीसं तह वायरा य पाहुडिया। पूई अज्झोयरओ, उग्गमकोडी भवे एसा / / 248 / / आधाकर्म सकल तथा औद्देशिक यावदर्थिकं मुक्त्वा शेषं कम्मौद्देशिक 'मिश्र' पाखण्डिसाधुमिश्रजातं बादरा च प्राभृतिका 'पूतिः' भावपूतिः अध्यवपूरकश्चोत्तरभेदद्वयाऽऽत्मकः, एषा भवति उद्रम कोटिरविशोधिकोटिरूपा। तदेवं भावपूर्ति स्वरूपत उपदर्थ्य सम्प्रति भेदत आहबायरसुहुम भावे, उ पूइयं सुहुममुवरि वोच्छामि। उवगरणे भत्तपाणे, दुविहं पुण बायरं पूई / / 256 / / 'भावे' भावविषया पूतिर्द्विविधा / तद्यथा-बादरा, सूक्ष्माच / सूत्रो च नपुंसकनिर्देशः प्राकृतत्वात्, तत्र सूक्ष्मा भाव पूतिमुपुरि वक्ष्ये। बादरा पुनर्द्विधा। तद्यथा-'उपकरणे' उपकरणविषया, भक्तपाने' भक्तपान विषया। तत्र भक्तपानपूर्ति सामान्यतो व्याचिख्यासुराहचुल्लुक्खलिय डोए, दव्वी छूढे य मीसगं पूई। डाए लोणे हिंगू, संकामण फोडणे धूभे // 250 / / 'चुल्ली प्रतीता, 'उखा' स्थाली, 'डो य बृहदारुहस्तकः, महांश्चटुक इत्यर्थः, 'दव्वी' लघीयान् दारुहस्तकः, ए