________________ पुरिसजाय 1035- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय मानवशादिति। एवमेष उभयकरः। रणे च संग्रामे च-राज पुत्र इति समाभाषितो युध्यते। उभयनिसेहो चउत्थे, विइयचउत्थेहि तत्थ उन लद्धा। वित्ती इयरेहिँ लद्धा, दिटुंतस्सेस उवणेओ॥१०॥ चतुर्थे पुरुषे उभयस्थ अर्थस्य समानस्य च निषेधः / तत्र द्वितीयचतुर्थाभ्यां वृत्तिन लब्धा, इतराभ्यां प्रथमतृतीयाभ्यां लब्धा / दृष्टान्तस्य एव वक्ष्यमाण उपनयः। तमेवाऽऽह - एमेवाऽऽयरियस्म वि, कोई अटुं करेइ न य माण। अट्ठो उ उच्चमाणो, वेयावच्चं दसविहं तु / / 11 / / अहवा अब्भुट्ठाणं, आसणकितिमत्तपायसंथारो। उववाया य बहुविहा, इच्चाइ हवंति अट्ठा उ / / 12 / / एवमेव-शकपुरुषदृष्टान्तगतेन प्रकारेण, कोऽप्याचार्यस्यार्थ करोति, नच मानम्। अर्थो वक्ष्यमाणसूत्रोणोच्यमानः कः पुनः स इत्याह-दशविध वैयावृत्यम् / अथवा-समागच्छतोऽयूत्थानमासनदान, कृति कर्मविश्रामणा, यथा खेलमुचारमात्रकस्य श्लेष्ममात्रकस्य चोपनयः, संस्तारकस्यकरणमुपपताश्च समीपभवनलक्षणा बहविधास्तत्प्रयोजन भेदतोऽनेकप्रकारा इत्यादयोऽर्था भवन्ति। वितिओ माणकरे तू, को पुण माणो हवेज्ज तस्स इमो। अब्भुट्ठाणऽभत्थण, होइ पसंसा य एमादी।।१३।। द्वितीयो भवति मानकरः / कः पुनस्तस्य मानः ? उच्यते अयं वक्ष्यमाणः / तमेवाऽऽह-(अब्भुट्ठाणभित्यादि) आगच्छतोऽभ्युत्थानं न कृतं, यदि वा-न मेऽभ्यर्थयति वा कृता ममप्रशंसा इत्या-दि। तइओभय नोभयतो, चउत्थओ, दो वि निप्फलगा। सुत्तत्थोभयनिज्जर-लाभो, दोण्ह भवे तत्थ / / 14 / / तृतीय उभयकरोऽर्थकरो मानकरश्चतुर्थो नोभयकरः, तत्र द्वौ द्वितीयचतुर्थी*उभयनिर्जरा लाभाभावात् / तथाहि-न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति, नाऽपि ते निर्जरां प्राप्नुतःद्वयोः प्रथमतृतीययोः सूत्रार्थोभयनिर्जरा लाभोऽर्थकारितया सर्वस्याऽपि सम्भवात्। तस्मात्प्रथमतृतीयाभ्यामिव वर्तितव्यं, न द्वितीयचतुर्थाभ्यामिव / * निष्फलौ। सूत्रम्चत्तारि पुरिसजाया पण्णत्ता। तं जहा-गणट्ठकरे नाम एगे नो माणकरे, माणकरे नाम एगे नो गणट्टकरे, एगे गणट्ठकरे वि माणकरे वि, एगे नो गणट्ठकरे नो माणकरे। अस्याक्षरगमनिका सुप्रतीता। प्रपञ्चभाष्यकृदाहएमेव होंति भंगा, चत्तारि गणट्ठाकारिणो जइणो। रण्णो सारूविय दे-वचिंतगा तत्थ आहरणं / / 15 / / एवमेव अनन्तरसूत्रोक्तम्प्रकारेण गणार्थकारिणोऽपि यतेश्चत्वारो भङ्गा भवन्ति।तेच सूत्रातः स्पष्टा एव। तेषुचचतुर्ध्वपिपुरुषजातेषु ये सारूपिका यतेः समानरूपधारिणो मुण्डितशिरस्का भिक्षाऽऽटनशीला इत्यादि प्रागुक्तस्वरूपाः देवचिन्तका नाम-ये शुभाशुभं राज्ञः कथयन्ति, ते आहरण-दृष्टान्तः। तमेव भावयति - पुट्ठा पुट्ठो पढमो, उ साहई न उ करेइ माणं तु / वितिओ माण करेई, पुट्ठो विन साहई किंचि // 16|| तइओ पुट्ठो साहइ, नापुट्ट चउत्थ नेव सेवइ तु / दो सफला दो अफला एवं गच्छे विनायव्वा / / 17 / / प्रथमो राज्ञा पृष्टोऽपृष्टो वा यत्रात् शुभाऽशुभं वा साधयति, न तु मान करोति। द्वितीयो मान करोति न च मानादेव पृष्टोऽपि किञ्चिक्कथयति। तृतीयः पृष्टः साधयति नापृष्टः / चतुर्थः सेवते एव राजानं नेति। अथ द्वी प्रथमतृतीयौ सफलौ, द्वौ च द्वितीयचतुर्थावफलौ। एवम्-अमुना दृष्टान्तगतेन प्रकारेण गच्छे द्वौ प्रथमतृतीयौ सफलौ, द्वौ च द्वितीयचतुर्थावफलौ चज्ञातव्यौ। तेषां चतुर्णामपि स्वरूपमाहआहारउवहिसयणा-इएहिं गच्छस्सुवग्गहं कुणइ। विइओ माणं उभयं, च तइय नोभय चउत्थोउ।।१५|| प्रथम आहारोपधिशयनाऽऽदिभिर्गच्छस्योपग्रहं करोति न मानं, द्वितीयो मानं, तृतीय उभयंगच्छस्योपग्रह मानं च, चतुर्थो नोभयं-न गच्छस्योपग्रह नापि मानमिति। सूत्रम्चत्तारि पुरिसजाया पन्नत्ता / तं जहा-गणसंगहकरे नाम एगे नो माणकरे, एगे माणकरे नो गणसंगहकरे, एगे गणसंगहकरे वि माणकरे वि, एगे नो गणसंगहकरे नो माणकरे। अस्य संबन्धमाहसो पुण गणस्स अट्ठो, संगहो तत्थ संगहो दुविहो। दव्वे भावे तियगा, उदोन्नि आहार नाणादी॥१६॥ अनन्तरसूत्रे गणार्थकर उक्तः,सपुनर्गणस्यार्थः संग्रहकरः, ततप्रतिपादनार्थमिदं सूत्रम्। तत्र संग्रहो द्विधा-द्रव्यतो, भावतश्च / तत्र द्रव्ये भावै चद्वी त्रिको द्रष्टव्यौ। तद्यथा आहारऽऽदित्रिकं द्रव्ये, ज्ञानाऽऽदित्रिक भावे। तदेवं संग्रह व्याख्याय संग्रहकरत्वयोजनामाह - आहारोवहिसेजा-इएहिं दय्वम्मि संगहं कुणइ / सीसे पडिच्छे वाए, भावेण तरंति जाहि गुरु // 20 // द्रव्यतः संग्रहं करोति आहारोपधिशम्याऽऽदिभिः, अत्राऽऽदिशब्द आहारऽऽदीनां स्वगतानेकभेदसूचकः / भावेन यदा गुरवः शक्नुवन्ति तदा शिष्यान् प्रतीच्छिकान्वा वाचयन्ति / एव प्रथमः पुरुषः। द्वितीयो मानं करोति न तु द्रव्यतो भावतो वा गणस्य संग्रह.तृतीय उभयं, चतुर्थों नो भयमिति। सूत्रम्चत्तारिपुरिसजाया पन्नत्ता। तं जहा-गणसोहकरे नाम एगे नो माणकरे, एगे माणकरे नो गणसोहकरे, एगे गणसोहकरे वि माणकरे वि, एगे नो गणसोहकरे नो माणकरे / /