________________ पुरिसजाय 1034- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय (चत्तारीत्यादि) स्पष्टा चेयं, नवरं मित्रमिह लोकोपकारित्वात्, पुनर्मित्रं परलोकोपकारित्वात सद्गुरुवत् / अन्यस्तु मित्रां स्नेहवत्वाद मित्रः परलोकसाधनविध्वंसात्कलत्राऽऽदिवत्। अन्यस्त्वमित्रः प्रतिकूलत्वाद् मित्र निवेदनोत्पादनेन परलोकसाधनोपकारित्वादविनीतकाऽऽदिवत्, चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः संल्केशहेतुत्वेन दुर्गतिनिमित्तवात पूर्वापरकालापेक्षया चेदं भावनीयमिति / तथा मित्रामन्तः स्नेहवृप्या मित्रस्यैव रूपमाकारो बाह्योपचारकारणत्वात् यस्य स मित्ररूप इत्येकः, द्वितीय अमित्ररूपोबाह्योपचाराभावात्, तृतीयोऽमित्राः स्नेहवर्जितत्वादिति, चतुर्थः प्रतीतः तथा मुक्तः त्यक्तसंगो द्रव्यतः / पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात सुसाधुवत्, द्वितीयोऽमुक्तः साभिष्वङ्गत्वाद्रङ्कवत, तृतीयोऽमुक्तो द्रव्यतो भाववस्तु मुक्तो राज्यावस्थोत्पन्नकेवलज्ञानः भरतचक्रवर्तिवत्, चतुर्थो गृहस्थः, कालापेक्षया चेदं दृश्यमिति, मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाऽऽकारतया यतिरिवेत्येकः, द्वितीयोऽमुक्तरूपः उक्तरूपविपरीतत्वात् गृहस्थावस्थायां महावीर इव, तृतीयो मुक्तः साभिष्वङ्गत्वात् शठयतिवत्, चतुर्थो गृहस्थ इति। स्था० 4 ठा०४ उ०। ह्रीसत्वाऽऽदिपुरुषाःपंच पुरिसजाया पण्णत्ता / तं जहा-हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, थिरसत्ते, उदयणसत्ते। (पंच पुरिसेत्यादि) (हिरिसत्ते) हिया-लज्जया सत्वं परीषहेषु साधोः संग्रामाऽऽदावितरस्य वा अवष्टम्भोऽविचलत्वं यस्याऽसौ हीसत्त्वः, तथा हियाऽपि मनस्येव सत्वं न देहे शीताऽऽदिषु कम्पाऽऽदिविकारभावात् स हीमनः सत्वः,चलंभइरंसत्त्वंयस्य स तथा एतद्विपर्ययात स्थिरसत्वः, उदयनमुदयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा / स्था०५ ठा०१उ०। अर्थकरो गणेश :चत्तारि पुरिसजाया पण्णत्ता / तं जहा अट्टकरे नाम एगे नो माणकरे 1, माणकरे नामं एगे नो अट्ठकरे 2, एगे अट्ठकरे वि माणकरे वि३, एगे नो अट्ठकरे णो माणकरे / एततत्प्रभृतीनां च पुरुषजातसूत्राणामयं संबन्ध:ववहारकोवियप्पा, तदढे नो पमायए जोगे। मायहु तदुजमते, कुणमाणं एस संबंधो // 1 // पञ्चविधव्यवहारकोविदात्मा तदर्थे–व्यहारार्थे योगे न मनोवाकायात्प्रमाद्यति, न व्यवहारविषये प्रमादमाचरतीतिभावः / 'मायहु' निश्चितं तस्मिन् व्यवहारे उद्यच्छति उद्यम कुर्वति, मानमहमकार्षमिति / ज्ञापयत्येवमादीनि सूत्राणि, एष पुरुषजातसूत्राणां संबंध। प्रकारान्तरेण संबंधमाहवुत्ता वा पुरिसजाया, अत्थओ न वि गंथओ। तेसिं पुरूवणत्थं,तदिदं सुत्तमागयं / / 2 / / वाशब्दः प्रकारान्तरद्योतने / अथवा-अनेन व्यवहारसत्रेण अर्थतः पुरुषजाताः उक्ता-सूचिनाः, न वै ग्रन्थतः उक्ताः, तेषां प्ररूपणार्थ तदिदं सूत्र-पुरुषजातसूत्रमागतम् / अस्याक्षरगमनिका तु प्रतीता। विस्तरार्थ भाष्यकृदाह पुरिसज्जाया चउरो, विभासियव्वा उ आणुपुव्वीए। अत्थकरे माणकरे, उभयकरे नो य उभयकरे / / 3 / / अधिकृत भङ्ग सूचिताश्चत्वारः पुरुषा इमे आनुपूर्व्यापरिपाट्या विभाषितव्याः / तद्यथा-प्रथमभङ्गे अर्थकरः, द्वितीय भङ्गे मानकरः, तृतीये उभयकरः, चतुर्थे नोभयकरः। चतुष्टयम्पढमतइया य एत्थं, तू सफला निष्फला दुवे इयरे। दिटुंतो सगतेणा, सेवंता अन्नरायाणं / / 4 / / अत्र एष चतुर्थपुरुषेषु मध्ये प्रथमतृतीयो सफलौ, इतरौ द्वितीयचतुर्थों निष्फलौ। एतेषु चतुर्वपि दृष्टान्तोऽन्यराजानं सेवमानाः शकस्तेनाः। तमेव दृष्टान्तमभिधित्सुराहउज्जेणी सगरायं, नीया गव्वा न मुठ्ठ सेवें ति। वित्तिअदाणं चोजं, निव्विसया अण्णानिवसेवा / / 5 / / धावइ पुरतो तह म-गता य सेवइ य आसणं नीयं / भूमीए पि निसीयइ, इंगियकारी उ पढमो उ॥६॥ चिक्खल्ले अन्नया पुरतो, उ गतो से एगो नवरि सेवंतो। तुट्टेण तहा रन्ना, वित्ती उसुपुक्खला दिन्ना // 7 // यदा कालिकाऽऽचार्येण शका आनीतास्तदा उज्जयिन्या नगार्या शको राजा जातः, तस्य निजका-आत्मीया एषोऽस्माकं जात्या सदृश इति गर्वात्तंराजानं न सुष्टु सेवन्ते, ततोराजा तेषां वृत्तिं नादात्, अवृत्तिकाश्च ते चौर्य कर्तुं प्रवृत्ताः, ततो राजा बहुभिर्जनैर्विज्ञप्तेन निर्विषयाः कृताः। ततस्तैर्देशान्तरं गत्वा अन्यस्य नृपस्य सेवा कर्तुमारब्धाः, तौकः पुरुषो राज्ञा आज्ञप्तश्च, यदि राजाऽऽसनं प्रजानाति तथापि स नीचमासन माश्रयते कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति, राज्ञश्चेङ्गितं ज्ञात्वा अनाज्ञप्तोऽपि विवक्षितप्रयोजनकारी / अन्यदा च राजा पानीयस्य कर्दमस्य मध्येन धावितः, शेषश्च भूयान लोको निःकर्दमेन प्रदेशेन गन्तुं प्रवृत्तः स पुनः शकपुरुषो ऽश्व स्याग्रतः पानीयेन कर्दमेन च सेव्यमान एकः (से) तस्य पुरतो धावति। ततस्तस्य राज्ञा तुष्टन सुपुष्कलाअतिप्रभूता वृत्तिर्दत्ता। वितिओ न करे अटुं, माणं च करेइ जाइकुलमाणी। न निवसति भूमीए, न य धावति तस्स पुरतो उ / / 8 / / द्वितीयः पुरुषोऽहमपि राजवंशिक इति गर्वात् न कमप्यर्थराज्ञः प्रयोजन करोति जातिकुलमानी सन्मानं च भूयां समाप्तनि करोति, न च भूमो निवसति, न च तस्य राज्ञः पुरतो धावति। तृतीयमाहसेवति ठितो वि दिणे, वि आसणं पेसितो कुणइ अहूं / इइ उभयकरो तइओ, जुज्झइ य रणे समाभट्ठो |6 तृतीयः पुरुषो राजानं प्रथम पुरुषवत् सेवते, नवरमश्वस्य पुरतो न धावति किंतु पृष्ठतः, तथा ऊद्धर्वस्थितः सेवते। वित्तीर्ण आसने स्थितोऽप्युपविष्टोऽपिआसनसेवतिनभूमौनिषीदति तथा प्रेषितःसन्अर्थंकरोति, नाऽप्रेषितो