________________ पुरिसजाय 1030- अभिधानराजेन्द्रः -- भाग-५ पुरिसजाय सर्गतन्निदानपरिहारतोरक्षत्येकोऽन्यस्तु पूर्वकृतातिचारति दानपरिहारतो रक्षति नवं च न करोति, 'नो' नैव व्रणं संरोहयत्यौषधदानाऽऽदिनेति द्रणसरोही, भावव्रणापेक्ष्या तु नो व्रणरोही प्रायश्चित्ताप्रतिपत्तेः, व्रणसरोही पूर्वकृताऽतिचारप्रायश्चित्तप्रतिपत्या, नो व्रणकरोऽपूर्वातिचारा कारित्वादिति / उक्ता आत्मचिकित्सकाः / अथ चिकित्स्यं व्रण दृष्टान्तीकृत्य पुरुषभेदानाहा- (चत्तारीत्यादि) चतुःसूत्री सुगमा, नवरम्, अन्तः-मध्ये शल्यं यस्य अदृश्यमानमित्यर्थः तत्तथा। (बाहिं सल्ले ति) यच्छल्यं व्रणस्यान्तरल्पं बहिस्तुबहु तद् बहिरिव बहिरित्युच्यते अन्तो बहिः शल्यं यस्य तत्तथा, यदिपुनः सर्वथैव तत्ततो बहिः स्यात्तदा शल्यतैव न स्यादुदधृतत्वे वा भूतभावितया स्यादपीति 2, या पुनरन्तर्बहि बहिरप्युपलभ्यते तदुभयशल्यम् 3, चतुर्थः शून्य इति 4 / गुरुसमक्षमनालोचितत्वेनान्तः शल्यमतिचाररूपं यस्य स तया, बहिः शल्यमालोचिततया यस्य तत्तथा अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा। चतुर्थः शून्यः / अन्तर्दृष्टवणं लूताऽऽदिदोषतो, न बही रागाऽऽद्यभावेन सौम्यत्वात् ४।पुरुषस्तु अन्तर्दुष्टः शठतया संवृत्ताऽऽकारत्वात् न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितवाक्यारुष्याऽऽदित्वात् बहिरेवेति। श्रेयान्चत्तारि पुरिसजाया पण्णत्ता। तं जहा-सेयंसे नाममेगे सेयंसे, सेयंसे नाममेगे पावंसे, पावंसे नाममेगे सेयंसे, पावंसे नाममेगे पांवसे 1 / चत्तारि पुरिसजाया पण्णत्ता। तं जहा- सेयंसे नाममेगे सेयंसे त्ति सालिसए, सेयंसे नाममेगे पावंसे त्ति सालिसए०४। 2 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-सेयंसे ति णाममेगे सेयंसे त्ति मण्णइ, सेयंसे त्ति नाममेगे पावंसे त्ति मण्णइ०४। 3 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-सेयंसे नाममेगे सेयंसे त्ति सालिसए मन्नइ, सेयंसे नाममेगे पावंसे त्ति सालिसए मन्नइ०४|४| पुरुषाधिकारात् तद्भेदप्रतिपादनाय षटसूत्री, कण्ट्या च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनः श्रेयान् प्रशस्तानुष्ठानत्वा साधुवदित्येकः 1, अन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान, स चाविरतत्वेन दुरनुष्ठायित्वादिति 2. अन्यस्तुपापीयान् भावतो मिथ्यात्याऽऽदिभिरुपहृतत्वात् कारणवशात् सदनुष्ठायित्वाच श्रेयान् उदायिनृपमारकवत् 3, चतुर्थः स एव कृतपाप इति 4 / अथवा - श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रवज्यायां विहारकाले वेत्येवमन्येऽपि। श्रेयानेको भावतो, द्रव्यस्तु श्रेयान-प्रशस्यतर इति एवं बुद्धिजनकत्वेन सदृशकोऽन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेति एकः, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयानित्येवं बुद्धिजनकत्वेन सदृशकोऽन्येन पापीयसा समानो नतुपापीयानेवेति द्वितीयः 2, भावतः पापीयानप्यन्यः संवृताऽऽकारतया श्रेयानित्येवं बुद्धिजनकतया सदृशकोऽन्येन श्रेयसेति तृतीयः / चतुर्थः सुज्ञानः / श्रेयानेकः सदवृत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावद्-बोधाल्लोकेन वा मन्यते विशद- शुभानुष्ठानात्। इह च-''मन्नि-जइ''इति वक्तव्ये प्राकृतत्वेन ''मन्नइ" इत्युक्तं, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मान मन्यते, स एव वा पूर्वोपलब्धतघोषेण जनेन मन्यते दृढप्रहदारिवत् 1, पापीयानप्यपरो मिथ्यात्वाऽऽद्युपहतत्तया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भक्तेत्केन वेति २,पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्वोधत्वात्, असंयतो वा मन्यते, संयतलोकेनेति 3, श्रेयानेको भावतो द्रव्यतस्तु किञ्चित्सदनुष्टायित्यात् श्रेयानित्येवं विकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यतेज्ञायते जनेनेति विभक्तिपरिणमाद्वा सदृशकमात्मानं मन्यत इति एवं शेषाः / / आख्यायकः - चत्तारि पुरिसजाया पन्नत्ता / तं जहा-आघवइत्ता नाममेगे नो परिभावइत्ता, परिभावइत्ता णाममेगे नो आघवइत्ता० 4 / 5 / चत्तारि पुरिसजाया पन्नता / तं जहा-आघव इत्ता णाममेगे नो उंछजीविसंपन्ने, उंछजीविसंपन्ने नाममेगे नो आघवइत्ता०४।६। (आघवइत्ते त्ति) आख्यायकः-प्रज्ञापकः प्रवचनस्य एकः कश्चिन्न च प्रविभावयिता प्रभावयिता प्रभावकः शासनस्य उदाराक्रियाप्रतिमाऽऽदिरहितत्वात् प्रविभाजयिता वा प्रवचनार्थस्य नयोत्सर्गाऽऽदिभिर्विवेचयितेति / अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति, आख्यायकएकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नो नैषणानिरत इत्यर्थः / स चापगतः संविग्रः संविग्रपाक्षिको वा। यदाह "हुजहु वसणं पत्तो, सरीरदुब्बल्लयाएँ असमत्थो। चरणकरणे असुद्धे, सुद्ध मग्गं परूवेज्जा / / 1 / / तथा"ओसण्णो वि विहारे, कम्मं सिढिलेइ सुलहबोही य। चरणकरणं विसुद्ध, उववूहंतो परुवेतो।।२॥" (शरीरदौर्बल्येनाऽसमर्थः व्यसनं प्राप्तो भवेत्) (तथाऽपि) अशुद्धे चरणकरणे शुद्ध मार्ग प्ररूपयेत्॥१॥ विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोविश्च विशुद्धं चरणकरणमुपद्व्हयन् प्ररूपयंश्च / / 2 / / इत्येकः, द्वितीयो यथाच्छन्दः, तृतीयः साधुः चतुर्थी गृहस्थाऽऽदिरिति। पूर्वसूत्रे साधुलक्षणपुरुषस्याऽऽख्यायकत्वोच्छजीविका सम्पन्नत्वलक्षणा गुणविभूषोक्ता / स्था०४ ठा०४ उ०। मेघदृष्टान्तःचत्तारि मेहा पण्णत्ता / तं जहा-गजित्ता नाममेगे णो वासिता, वासित्ता नाममेगे णो गजिता, एगे गजिता वि वासित्ता वि, एगे णो गजिता णो वासित्ता 1 / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-गजित्ता नाममेगे णो वासित्ता० 412 / चत्तारि मेहा पण्णत्ता / तं जहा-गजिता नाममेगे णो विजुयाइत्ता, विजुयाइत्ता नाममेगे० 4 / 3 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा गञ्जित्ता नाममेगे णो विजुयाइत्ता० 4 चत्तारि मेहा पण्णत्ता / तं जहा-वासित्ता नाममेगे णो