________________ पुरिसजाय 1025- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रम् दुर्गतीदरिद्रः, पूर्व धनविहीनत्वात् ज्ञानाऽऽदिरत्नविहीनत्वाद्वा, पश्चादपि तथैव दुर्गत एवेति / अथवा दुर्गतो द्रव्यतः पुनर्दुर्गतो भावत इति प्रथमः, एवमन्ये त्रयो, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानाऽऽदिगुणवानिति, दुर्गतः कोऽपिव्रती स्यादिति दुव्रतसूत्रम्।दुर्गतीदरिद्रः दुर्वतोऽसम्यग्वतः, अथवा दुर्व्ययः आयनिरपेक्षव्ययः, कुस्थानव्ययो वेति एकः। अन्यो दुर्गतः सन् सुव्रतो निरतिचारनियमः, सुव्ययो वाऔचित्यप्रवृत्तेरिति। इतरी प्रतीतौ / दुर्गतस्तथैव दुःप्रत्यानन्द उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति दुर्गतोदरिद्रःसन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतीति सुगतिगामी, सुगत ईश्वर इत्यर्थः / दुर्गतस्तथैवदुर्गतिं गतः याप्राजनकुपित तन्मारणप्रवृत्तद्रमकवत्, एवमन्ये त्रयः। तमःचत्तारि पुरिसजाया पण्णत्ता / तं जहा-तमे णामं एगे तमे, तमे णामं एगे जोई,जोई णाममेगे तमे,जोई णाममेगे जोई। चत्तारि पुरिसजाया पण्णत्ता / तं जहा-तमे नाममेगे तमबले, तमे नाममेगे जोतिबले, जोती नाममेगे तमबले, जोती नाममेगे जोतीबले / चत्तारि पुरिसजाया पण्णत्ता। तं जहा-तमे नाममेगे तमबलपलज्जणे, तमे नाममेगे जोतीबलपलज्जण०४। तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एषेत्येकः, अन्यस्तु तमः पूर्वं पश्चाज्जयोतिरिव ज्योतिः उपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वादा। शेषौ सुज्ञानौ / तमः कुकर्म कारितया मलिनस्वभावास्तमः-अज्ञातं बलं सामर्थ्य यस्य तमः-अन्धकार वा तदेव तत्र वा बलं यस्य सतथा। असदाचारवानज्ञानी रात्रिचरोवा चौराऽऽदिरित्येकः। तथा तमस्तथैव ज्योतिः ज्ञानं बलं यस्य आदित्याऽऽदिप्रकाशो वा ज्योतिस्तदेव तत्रा वा बलं यस्य स तथा, अयं चासदाचारो ज्ञावान् दिनचारी वा चौराऽऽदिरित द्वितीयाः / ज्योतिः सत्कर्मकारितयोज्जवल स्वभावस्तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तरादा रात्रिचर इतितृतीयः। चतुर्थः सुज्ञानः अयञ्च सदाचारवान् ज्ञानी दिनचरो वेति। तथा तमस्तथैव (तमबलपलज्जणे त्ति) तमा मिथ्याज्ञानमन्धकार वा तदेव बलं तावा, अथवा तमस्युक्तरूपे बलेच सामथ्ये प्ररज्यते रति करोतीति तमोबलप्ररज्जनः / एवं ज्योतिर्बलप्ररजनोऽपि, नवरं ज्योतिः सम्यग्ज्ञानमादित्याऽऽदि प्रकाशो वेतिञ्जएवमितरावपि / इहापित एवपूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररजनविशेषिता द्रष्टव्याः / अथवा तमस्तथैवाप्रसिद्धो वा तमोबलेनान्धकारबलेन संचरन् प्रलज्जते इति तमोबलप्रलज्जनः प्रकाशचारी / एवमितरोऽपि, नवरं द्वितीयोऽन्धकारचारी, तृतीयः प्रकाशचारी, चतुर्थः कुतोऽपि कारणदन्धकारचार्येवेति / " पज्जलणे ति 'क्वचित्पाठः / तत्राज्ञानबलेनान्धकारबलेन वा ज्ञानबलेन वा प्रकाशबलेन वा प्रज्वलतिदर्पितो भवति अवष्टम्मं करोति यः स तथेति। परिज्ञातकर्मा - चत्तारि पुरिसजाया पण्णत्ता। तं जहा-परिण्णायकम्मे णाममेगे णो परिण्णायसपणे, परिण्णायसपणे णाममेगे णो परिणायकम्मे, एगे परिण्णायकम्मे विपरिण्णायसपणे वि, एगे नोपरिण्णायकम्मे नो परिण्णायसण्णे / चत्तारि पुरिसजाया पण्णत्ता। तं जहा-परिण्णायकम्मे णाममेगे गो परिण्णाय-गिहावासे, परिणायगिहावासे णामं एगे गो परिण्णायकम्मे०४ / चत्तारि पुरिसजाया पण्णत्ता। तं जहा-परिण्णायसण्णे णाममेगे णो परिणायगिहावासे, परिण्णायगिहावासे णाममेगे०४ / चत्तारि पुरिसजाया पण्णत्ताातं जहा-इहत्थे णाममेगे णो परत्थे, परत्थे णाममेगे णो इहत्थे०४। परिज्ञातानिज्ञपरिज्ञया स्वरुपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहतानि कर्माणि कृष्यादीनि येन स परिज्ञातकर्मा (नो), न च परिज्ञाताः संज्ञा आहारसंज्ञाऽऽद्या येन स परिज्ञातसंज्ञः, अभावितावस्थ:-प्रव्रजितः श्रावको वेत्येकः 1 / परिज्ञातसंज्ञः सद्- भावनाभावितस्वान्न परिज्ञातकर्मा कृष्याद्य निवृत्तेः श्रावक इति द्वितीय, तृतीयः साधुः, चतुर्थ असंयत इति / परिज्ञातकर्मासावधकरणकारणानुमतिनिवृत्त कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः, अन्यस्तु परिज्ञातगृहावासो न त्यक्ताऽऽरम्भो दुःप्रवजित इति द्वितीयः, तृतीयः साधुः चतुर्थोऽसंयतः, त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादेकः, अन्यस्तु परिहतगृहावासो यतित्वादभावितत्वान्न परिहतसंज्ञः, अन्य उभयथा, अन्यो नोभयथेति / इहैव जन्मनि अर्थः प्रयोजन भोगसुखाऽऽदि आस्था वा इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इह लोकप्रतिबद्धो वा, पौव जन्मान्तरे अर्थः आस्था वा यस्य सपरार्थः परास्थो वा साधुर्वालतपस्वी वा / इह परत्रा च यस्यार्थ आस्था वा स सुश्रावक उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालसौ(शौ) करिकादिर्मूढो वेति / अथवा-इहैव विवक्षिते ग्रामाऽऽदौ तिष्ठतीति इहस्थः तत्प्रतिबन्धान्न परस्थोऽन्यस्तु परत्रा प्रतिबन्धात् परस्थः, अन्यस्तूभयस्थोऽन्यः सर्वाप्रतिबद्धत्वानुभयस्थः साधुरिति। चत्तारि पुरिसजाया पण्णत्ता / तं जहा-एगेणं णाममेगे बड्डइ एगेणं हायइ, एगेणं णाममेगे वडइ दोहिं हायइ, दोहिं णाममेगे बड्डइ एगेणं हायइ, एगे दोहिं णाममेगे वड्डइ दोहिं हायइ।। एकेनेति, श्रुतेन एकः कश्चिद्वर्द्धत एकेनेति सम्यग्दर्शनन हीयते / यथोत्कम्-"जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य / अविणिच्छिओ य समए, तह तह सिद्धंतपडिणीओ'।।१।। इति एकः / तथा एकेन श्रुतेनैवान्यो वर्द्धत द्धाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति द्वितीयः, द्वाभ्यां श्रुतानुष्ठानाभ्याभन्यो वर्द्धते एकेन सम्यग्दर्शनेन हीयत इति तृतीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति चतुर्थः / अथवा-ज्ञानेन वर्द्धते रागेण हीयत इत्येकः, अन्योज्ञानेनवर्द्धते रागद्वेषाभ्यां हीयत इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागेण हीयत इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते राग