________________ पुरिसजाय 1027- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय च्छार्थकरोऽऽहमिति न माद्यतीति / अनन्तरं गणस्यार्थ उक्तः स च सडग्रहोऽत आह-(गणसंगहकरे त्ति) गणस्याऽऽहारादिना ज्ञानाऽऽदिना च सङ्ग्रहं करोतीति गणसंग्रहकरः / शेषं तथैव / उक्तं च-'सो पुण गच्छस्सऽट्ठो, उसंगहो तत्थ संगहोदुविहो। दव्वे भावे नियमा, एउ हों ति आहारणाणाऽऽदी / / 1 / / " आहारोपधिशय्याज्ञानाऽऽदीनीत्यर्थः, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वाऽऽदिना वा शोभाकरणशीलो गणशोभाकरी, नो मानकरोऽभ्यर्थनाऽपेक्षितया मदाभावेन वा, गणस्य यथायोग प्रायश्चित्तदानादिना शोद्धि-शुद्धिं करोतीति गणशोधिकरः / अथवां-शविते भत्काऽऽदौ सति गृहि-कुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोतियः स प्रथमः, यस्तुमानान्न गच्छति स द्वितीयाः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनाऽपेक्षी नापि तागन्ता स चतुर्थ इति। रूपंसाधुनेपथ्यं जहातित्यजति कारणवशात् न धर्मचारित्रलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्म न रूपं निह्नववत्, उभयमपि उत्प्रव्रजितवत्, नोभयं सुसाधुवत् धर्म त्यजत्येको जिनाऽऽज्ञारूपन गणसंस्थितिं स्वगच्छकृतां मर्यादाम् / इह कैश्चिदाचार्यः तीर्थकरानुपदेशेन संस्थितिः कृता, यथा-नारमाभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थिति, जिनाऽऽज्ञाननुपालनात्, तीर्थकरोपदेशोह्येवसर्वेभ्यो योग्येभ्यः श्रुतदातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयः, यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्ध कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति / उक्तञ्च-"सयमेव दिसाबंधं, काऊण पडिच्छगस्स जो देइ / उभयमवलंबमाणं, कामं तु तयं पि पूएमो॥१॥'इति। प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्मा, न च दृढो धर्मो यस्य, आपद्यपि तत्परिणामाऽविचलनात्, अक्षोभत्वादित्यर्थः / स दृढधर्मेति। उक्तञ्च-दस विहवेयावञ्चे, अण्णतरे खिप्पमुज्जम कुणइ / अञ्चंतमणेव्वाणिं, घिइविरियकिसो पढमभंगो॥१॥" अन्यस्तुदृढधर्मा अङ्गीकृतापरित्यागान्न तु प्रियधर्मा, कष्टेन धर्मप्रतिपत्तेः / इतरौ तु सुज्ञानौ / उक्त च-"दुक्खेण उगाहिजइ, बीओ गहियं तु नेइ जा तीरं। उभयं तो कल्लाणो, तइओ चरमो उपडिकुट्ठो' / स्था० 4 ठा० 3 उ०। चत्तारि पुरिसजाया पण्णत्ता / तं जहा-पियधम्मे नाम एगे नो दढधम्मे, दढधम्मे नाम एगे नो पियधम्मे, एगे पियधम्मे वि दढधम्मे वि, एगे नो पियधम्मे नो दढधम्मे / / अस्य संबन्धमाहधम्मो नो जहियव्वो, गणसंठितिमित्थ नो पसंसामो। जस्स पिओ सो धम्मो, सो न जहति तस्सिमो जोनो। 762|| अनन्तरसूत्रो इदमुक्तम्-'"गठसंठिति नामेगे जहति नो धम्म / तत्र यस्य प्रियो धर्मः स एवं चिन्तयतिधर्मो नत्यक्तव्यो, गणसंस्थितिमत्रान प्रशंसामः, एवं चिन्तयित्वा धर्म न जहाति / एष तस्य प्रियधर्मसूास्य योगः। संप्रति प्रियधर्माऽऽदिव्याख्यानार्थमाह वेयावचेण मुणी, उवचिट्ठइ संगहेण पियधम्मो। उवचिट्ठइ दढधम्मो, सव्वेसिं निरतियारो य॥७६३ || प्रियधर्मा मुनिर्यावत व्यतः आहारदिना, भावतो वाचनाऽऽदिना येन संगृह्यते तावत् वैयावृत्त्वेन तस्योपतिष्ठते नान्यदा, अन्यस्य वा, दृढधर्मः सर्वेषामविशेषण वैयावृश्येनोपतिष्ठते तावत्सर्वत्र च निरतिचारः। संप्रति भङ्गयोजनामाह - दसविहवेयावचे, अन्नयरे खिप्पमुज्जम कुणइ। अचंतमणिव्वाही, घितिविरियकिसे पढमभंगो / / 765 / / यो दशविधस्व वैयावृत्त्यस्य वक्ष्यमाणस्यान्यतरस्मिन् वैयावृत्त्यै प्रियधर्मतया क्षिप्रमुद्यमं करोति, केवलमदृढधर्मतया अत्यन्तमनिर्वाही तस्मिन् धृतिवीर्यकृशे प्रथमभङ्गः। दुक्खेण उ गाहिज्जइ, विइओ गहियं तु नेइ जा तीरं / उभयत्तो कल्लाणो, तइओ चरिमो अ परिकुट्ठो।। 765 // द्वितीयस्तु प्रियधर्मत्वात् दुःखेन महता कष्टन प्रथमतो वैयावृत्यं ग्राह्यते, गृहीतं तु यावत्प्रतिज्ञायास्तीरं तावन्नयति। उभयतः कल्याणस्तृतीयः / चरमोन प्रियधर्मो नाऽपि दृढधर्म इत्येवरूपो गच्छे प्रतिक्रुष्टो निराकृतः। व्य०१० उ०। आत्मम्भरि:चत्तारि पुरिसजाया पण्णत्ता / तं जहा-आयंभरे णाममेगे णो परंभरे, परंभरे णाममेगे णो आयंभरे, एगे आयंभरे वि परंभरे वि, एगे णो आयंभरे णो परंभरे / / (चत्तारित्यादि)आत्मनं विभर्तिपुष्णातीति आत्मम्भरिः, प्राकृतत्वात् 'आयभरे' इति। तथा परं विभीतिपरम्भरिरिति, प्राकृतत्वात् परंभरे, इति / तत्रा प्रथमभङ्गे स्वार्थकारक एव स च जिनकल्पिकः / द्वितीयः परार्थकारक एव। स च भगवानहस्तस्य विवक्षया सकलस्वार्थसमाप्तेः वरप्रधानप्रयोजनप्रापप्रवणप्राणितत्वात् / तृतीये स्वपरार्थकारी, स च स्थविरकल्पिको विहितानुष्ठानतःस्वार्थकरत्वाद्विधिवत्सिद्धान्तदेशनातश्च परार्थ सम्पादकत्वात् / चतुर्थे तूभयानुपकारी, स च मुग्धमतिः कश्चिद् यथाच्छन्दो वेति। एवं लौकिकपुरुषोऽपि योजनीयः। दुर्गतः - चत्तारि पुरिसजाया पण्णत्ता / तं जहा-दुग्गए णाममेगे दुग्गए, दुग्गए णाममेगे सुग्गए, सुग्गए णाममेगे दुग्गए, सुग्गए णाममेगे सुग्गए / चत्तारि पुरिसजाया पण्णत्ता / तं जहा दुग्गए णाममेगे दुव्वए, दुग्गए णामं एगे सुव्वए, सुग्गए णाममेगे दुय्वए, सुग्गए णामं एगे सुव्वर 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहादुग्गए णाममेगे दुप्पडियाणंदे, दुग्गए णाममेगे सुप्पडियाणंद० 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-दुग्गए णाममेगे दुग्गइगामी, दुग्गए णाममेगे सुगइगामी०४ / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-दुग्गए णाममेगे दुग्गइं गए, दुग्गए णाममेगे सुगइं गए०४।