________________ पुरिसजाय 1022- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय इति / (आयंतकरे त्ति) आत्मनोऽन्तमवसानं भवस्य करोलीत्यात्मान्तकरः, नो परस्य भवान्तकरो, धर्मदेशनाऽनासेवकः प्रत्येकबुद्धाऽऽदिः 1 तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरो, नाऽऽत्मान्तकरोऽवरमशरीर आचार्यऽऽदिः 2. तृतीयस्तु तीर्थकरोऽन्यो वा 3 चतुर्थो दुःषमाऽऽचार्योऽऽदिः 4, अथवाऽऽत्मनोऽन्तं मरण करोतीत्यात्मान्तकरः एवं परान्तकरोऽपि / इह प्रथम आत्मवधको द्वितीयः परवधकः, तृतीय उभयहन्ता। चतुर्थस्त्ववधक इति। अथवाssत्मतन्त्राः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि / इह तु प्रथमो जिनो, द्वितीयो भिक्षुः, तृतीय आचार्यऽऽदिः, चतुर्थः कार्यविशेषापेक्षया शट इति / अथवा आत्मतन्त्रम् आत्मायत्तं धनगच्छाऽऽदि करोति इत्यात्मतन्त्रकर एवमितराऽपि भङ्ग योजना स्वयमूह्येति तथाऽऽत्मानं तमयति खेदयतीत्यात्मतमः आचार्याऽऽदिः, परं शिष्याऽदिकं तमयतीति परतमः सर्वत्र प्राकृतत्वादनुस्वारः / अथवा आत्मानि तमः-अज्ञानक्रोधो वा यस्य स आत्मतमाः, एवमितरेऽपि, तथा आत्मानं दमयति शमवन्तं करोति शिक्षयति वेत्यात्मदमः, आचार्यो ऽश्वदमकाऽऽदिर्वा, एवमितरेऽपि, नवरं परः शिष्योऽश्वाऽऽदिर्वा / स्था० 4 ठा०२ उ०। आत्मनः अलमस्तु - चत्तारिपुरिसजाया पण्णत्ता / तं जहा- अप्पणो णाममेगे अलम) भवइ नो परस्स, परस्स णाममेगे अलमंथू भवइ नो अप्पणो, एगे अप्पणो वि अलमंथु भवइ, परस्स वि, एगे णो अप्पणो अलमंथूभवइ णो परस्स 1 / व्यक्तानि, केवलम् अलमस्तु निषेधो भवतु य एवमाह सोऽलमस्त्वियुच्यते, निषेधक इत्यर्थः / स चात्मानोदुर्नयेषु प्रवर्तमानस्यैको निषेधकः / अथवा-(अलमंथु त्ति) समयभाषया समर्थोऽभिधीयते, तत आत्मनो निग्रहसमर्थः कश्चिदिति। चत्तारि मग्गा पण्णत्ता / तं जहा-उज्जू णाममेगे उज्जू, उजूणाममेगे वके, वंके णाममेगे उजू, बंके णाममेगे वंके 2 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-उज्जू णाममेगे उज्जू०४।३। एकोमार्ग ऋजुःआदौ, अन्तेऽपि ऋजुः, अथवा ऋजु प्रतिभाति तत्वतोऽपि ऋजुरेवेति पुरुषस्तु ऋजुः पूर्वापरकालपेक्षया, अन्तस्तत्वबहिस्तत्वापेक्षया वेति। क्वचित्तु-"उज्जूणाभं एगे उज्जुमणे त्ति' पाटः / सोऽपि बहिस्तत्वान्तस्तपेक्षया व्याख्येयः / / 3 / / चत्तारि मग्गा पण्णत्ता / तं जहा-खेमे णाममेगे खेमे, खेमे णाममेगे अखेम०४१४१ एवामेव चत्तारिपुरिसजाया पण्णत्ता। तं जहा-खेमे णाममेगे खेम०४१५ / चत्तारि मग्गा पण्णत्ता। तं जहा-खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे०४। 6 / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जहा-खेमे णाममेगे | खेमरूवे०४।७। क्षेमो नामैको मार्ग आदौ निरुपद्रवतया, पुनः क्षेमोऽन्ते तथैव, / प्रसिद्धितत्वाभ्यां वा / एवं पुरुषोऽपि क्रोधाऽऽपद्रवरहितततया क्षेम इति / क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्गः / पुरुषप्रथमो भावद्रव्यलिङ्गयुक्तः साधुर्द्वितीयः कारुणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयो निहृवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति७। संबूकाःचत्तारि संवुक्का पण्णत्ता। तं जहा-वामे णाममेगे वामवत्ते, वामे णाममेगे दाहिणावत्ते, दाहिणे णाममेगे वामवत्ते, दाहिणे णाममेगे दाहिणावने / एवामेव चत्तारि पुरिसजाया पण्णत्ता। तं जद्दावामे णाममेगे वामवत्त०४।६। संबूकः-शडखो वामो वामपार्श्वव्यवस्थितत्वात्प्रतिकूलगुणत्वाद्वा वामाऽऽवतः प्रतीतः / एवं दक्षिणावर्तो ऽपि, दक्षिणोदक्षिणापार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति 8 | पुरुषस्तु वामप्रतिकूलस्वभावतया वाम एवाऽऽवर्त्तते-प्रवर्तते इति वामाऽऽवर्तो विपरीतप्रवृत्तेरेकोऽन्यो वाम एव स्वरुपेण कारणवशाद्दक्षिणाऽऽवर्तोऽनुकूलप्रवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतया कारणवशाद्वामाऽऽवर्ते :ऽननुकूल प्रवृत्तिरित्येवं चतुर्थोऽपीति धूमशिखाःचत्तारि धूमसिहाओ पण्णत्ताओ / तं जहा-वामा णाममेगा वामावत्ता०४।१०। एवामेव चत्तारि त्थियाओ पण्णत्ताओ। तं जहा-वामा णाममेगा वामावत्ता०४११। चत्तारि अग्गिसिहाओ पण्णत्ताओ। तं जहा-वामाणाममेगा वामावत्ता०४।१२। एवामेव चत्तारि त्थियाओ पण्णत्ताओ। तं जहा-वामा णाममेगा वामावत्ता०४।१३ / चत्तारि वाय मंडलिया पण्णत्ता। तं जहावामा णाममेगा वामावत्ता०४।१४। एवामेव चत्तारित्थीओ पण्णताओ। तं जहा-वामाणाममेगा वामावत्ता०४।१५। चत्तारि वणसंडा पण्णत्ता। तं जहा-वामे णाममेगे वामावत्ते०४।१६। एवामेव चत्तारि पुरिसजाया पणत्ता / तं जहा-वामे णाममेगे वामावत्ते०४।१७। (286 सूत्र) धूमशिखा वामा वामपार्श्ववर्तितयाऽननुकूल स्वभावतया बावामत एवाऽऽवर्तत या तथा वलनात्सावामावर्त्ता 10 // स्त्री-पुरुषव व्याख्येया, कम्बुदृष्टान्ते सत्यपि धूमाशिखाऽऽदिदृष्टान्तानांस्वीदाष्टान्ति के शब्दसाधर्म्य णोपपन्नतरत्वानेदेनोपादानमिति 11 / एवमिग्नशिखाऽपि 13 / वातमएडलिका मण्डलेनोर्द्धप्रवृत्तौ वायुरिति / इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासुधूमशिखाऽऽदिदृष्टान्तायोपन्यास इति / उक्तं च-"चवला मइलणसीला, सिणेहपरिपूरिया वि तावेई / दीवयसिह व्व महिला, लद्धप्पसरा भयं देइ // 1 // " इति। 15 / वनखण्डस्तुशिखावत् नवरं वामावर्तो धामथलनेन जातत्याद्वायुना वा तथा धूयमानत्वादिति। 16 / पुरुषस्तु पूर्ववदिति / 17 / स्था०४ ठा०२ उ०।