________________ पुरिसजाय 1017- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय कण्ठ्य, किन्तु वृश्च्यन्ते छिद्यन्ते इति वृक्षाः, ते विवक्षया चत्वारः प्रक्षप्ता भगवता। तत्रा उन्नतः-उच्चो द्रव्यतया, नामेति सम्भावने, वाक्याद्वारे वा। एकः कश्चिद् वृक्षविशेषः, स एव पुनरुन्नतोजात्याऽऽदिभावतोऽशीकाऽऽदिरित्ये को भङ्ग / उन्नतो नाम द्रव्यत एव एकः अन्यः प्रणतो जात्याऽऽदिभावहीं नो, निम्बाऽऽदिरित्यर्थः। इति द्वितीयः। प्रणतोनामको द्रव्यतः, खर्व इत्यर्थः। स एव उन्नतो जात्याऽऽदिना भावेनाशोका दिरिति तृतीयः। प्रणतो द्रव्यत एव खर्वःस एव प्रणतो जात्याऽऽदिहीनो निम्बाऽऽदिरितिचतुर्थः। अथवापूर्वमुन्नतः-तुङ्ग अधुनाऽप्युन्नतस्तुङ्ग एव इत्येवं कालापेक्षया चर्तुभङ्गीति 1 / एवमित्यादि, एवमेव वृक्षवच्चत्वारि पुरुषजातानिपुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलेश्वर्याऽऽदिभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याय पुनरुन्नतो लोकोत्तरज्ञानादिभिः प्रव्रज्यापर्याय, अथवा उन्नत उत्तम वत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवाऽऽदिवदित्येकः (तहेव त्ति) वृक्षसूामिवेदम्, (जाव ति) यावत् 'पणए नाम एगे पणए त्ति चतुर्थअङ्ग कस्तावत् वाच्य, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञानविहाराऽऽदिहीनतया दुर्गतिगमनाबा शिथिलत्वे शैलकराजर्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः। तृतीयः पुनरागतसंवेगः शैलकवत मेतार्यवद्वा! चतुर्थ उदायि नृपमारवत्काल सौकरिकवद्वेति / एवं दृष्टान्तदा तिकसूत्रो सामान्यतोऽभिधाय तद्विशेषसूत्राण्याहउन्नतःतुगतया एको वृक्षः उन्नतपरिणतः अशुभरसाऽऽदिरूपमनुन्नतत्वमपहाय शुभरसाऽऽ दिरूपोन्त्रततया परिणत इत्येकः, द्वितीय भङ्गे प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागात्, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्राता चास्य पूर्वमुन्नतत्वप्रणतत्वे सामान्येनाभिहिते इह तु पूर्वावस्थातोऽवस्थान्तरयमनेन विशेषिते इति / एवं दार्शन्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति 4 / परिणमश्च आकारबोधक्रियाभेदात निधा, तत्राऽऽकारमाश्रित्यत्र रूपसूत्रां, तत्रा उन्नतरूपः संस्थानावयवाऽऽदिसौन्दर्यात् 5, गृहस्थपुरुषोऽप्येवं प्रव्रजितस्तुसंविग्नसाधुनेपथ्यधारीति 6, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि ता उन्नतो जात्याऽऽदिगुणरुचतया वा उन्नतमनाः-प्रकृत्या औदार्याऽऽदियुक्तमनाः, एवमन्येऽपि त्रयः, एवमिति सङ्कल्पाऽऽदिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थ, संकङ्कल्पोविकल्पो मनोविशेष एव विमर्श इत्यर्थः उन्नतत्वं चास्यौदार्याऽऽदियुक्ततया सदर्शविषयतया वा 8, प्रकृष्ट ज्ञानं प्रज्ञा, सूक्ष्मार्थविवचकन्वमित्यर्थः, तस्याश्चन्नतत्वमविसंवादितया 6, तथा दर्शन दृष्टिःचक्षुनि नयमतं वा, तदुन्नतत्वमप्यसंवादितयैर्वेति 10. क्रियापरिणामाऽपेक्षमतः सूत्रात्रायम, ता शीलाऽऽचारः, शीलसमाधिस्तत्प्रधानस्तस्य वाऽऽचारः अनुष्ठानं शीलेन वा-स्वभावेनाऽऽचार इति, उन्नतत्वं चास्यादुषणतया / वाचनानन्तरे तु शील सूत्रमाचारसूत्रां च भेदेनाधीयत इति 11 / व्यवहारः-अन्योऽन्यदानग्रहणऽऽदिर्विवादो वा, उन्नतत्वमरय लाध्यत्वेनेति 13, पराक्रमः पुरुषकारविशेषः, परेषां वा शत्रूणामाक्रमणं, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चति 12 / उन्नतविपर्ययः सर्वा प्रणतत्वं भावनीयमिति। (एगे पुरीत्यादि) एतेषु मनः- | प्रभृतिषु सप्तसुचभिझिकासूत्रषु एक एव पुरुषजाताऽऽलापकोऽध्येतव्यः, प्रतिपक्षोद्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रा नास्ति, नाध्येतव्यमिति यावत् / इहमनः प्रभृतीनां दार्शन्तिकपुरषधर्माणां दृष्टान्तभूतवृक्षेष्वसम्भवादिति / (उजु त्ति) ऋजुः-अवक्रो नामेति पूर्ववत् एकः कश्चिदवृक्षः, तथा ऋजुः अविपरीतस्वभाव औचित्येन फलाऽऽदिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वत' इति वक्रः,फलाऽऽदौ विपरीतः, तृतीये प्रथमपदं वक्र:-कुटीलः, चतुर्थः सुज्ञानः, अथवा–पूर्वम् ऋजु: अवक्र: पश्चादपि ऋजुः अवक्रः अथवा-मूले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः 1 / पुरुषस्तु ऋजुः अवक्रो बहिस्तात शरीरगतिवाकचेष्टाऽऽदिभिस्तथा ऋजुरन्तर्नियित्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव, वङ्क इतितुवक्रः, अन्तर्मायित्वेन कारणवशप्रयुक्ताऽऽर्जवभावदुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशद्दर्शितवहिरनावोऽन्तर्निर्माय इति प्रवचनगुनि वृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठवदिति, कालभेदेन वा व्याख्येयम् / अथ ऋजु ऋजुपरिणत इत्यादिका एकादश चतुर्भगि का लाघवार्थमतिदेशेनाऽऽह-एवमित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण, यथति-येन प्रकारेण परिणतरूपाऽऽदिविशेषणनवकविशेषिततर्थत्यर्थः, उन्नतप्रणताभ्यां परस्परं प्रतिपक्षभूताभ्यां गमः-सदृशपाठः कृतः, 'तथा' तेन प्रकारेण परिणतरूपाऽऽदि विशेषिताभ्यामित्यर्थः, जुवक्राभ्यामपिभणितव्यः। कियान्स इत्याह-(०जाव परक्कम त्ति) ऋजुवक्रवृक्षसूत्रात् त्रयोदशसूत्र यावदित्यर्थः तत्र व ऋजु२ऋजुपरिणत ऋजुरूपरलक्षणानि षट् सूत्राणि वृक्षदृष्टान्तपुरुषदान्तिकरवरूपाणि शेषाणि तु मनःप्रभृतीनि सप्त अदृष्टान्तानीति 13 / स्था० 4 ठा०१ उ० वस्त्रदृष्टान्तेन पुरुषभेदानाह - चत्तारि वत्था पण्णत्ता। तं जहा-सुद्धे णामं एगे सुद्धे 1, सुद्धे णाम एग असुद्धे णामं एगे सुद्धे 3, असुद्धे णामं एगे असुद्धे 4 / एवामेव चत्तारि पुरिसजाना पण्णत्ता। तं जहा-सुद्धे णामं एगे सुद्धे चउभंगो / एवं परिणतरूवे वत्था सपडिवक्खा / चत्तारि पुरिसजाता पण्णत्ता / तं जहा-सुद्धणाम एगे सुद्धमणे० चउभंगो 4 // एवं संकप्पे० जाव परक्कमे / (236 सूत्रा) (चत्तारि वत्थेत्यादि) स्पष्टा, नवरं शुद्ध वस्त्र निर्मलतन्त्वादिकारणाऽsरब्धत्वात, पुनः शुद्धमागन्तुकमलाभावादिति। अथवा पूर्व शुद्धमासीदिदानीमपि शुद्धमेवा विपक्षी सुज्ञानावेवेति। अथ दान्तिकयोजना(एवमवेत्यादि) शुद्धो जात्याऽऽदिना, पुनः शुद्धो निर्मलज्ञानाऽऽदिगुणलया कालापेक्षया वेति। (चउभंगोत्ति) चत्वारोभङ्गाः समाहताः चतुर्भङ्गी चतुर्भङ्ग वा, पुंल्लिङ्गता चाऽत्रां प्राकृतत्वात् / तदयमों वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति / एवमिति यथा शुद्धात शुद्धपदे परे चर्तुभङ्ग सदान्तिकं वस्त्रमुक्तमेवं शुद्धपदप्राक्-पदेपरिणतपदे रूपपदे च चतुर्भङ्गानि वस्त्राणि (सपडिववखत्ति) सप्रतिपक्षाणि सदाान्तिकानि वाच्यानीति। तथाहि 'चत्तारि वत्था पण्णत्ता। तं जहा-सुद्धे नाम एगे सुद्धपरि