________________ पुरंदर 1008- अभिधानराजेन्द्रः - भाग-५ पुरंदर न्दानि, केचन काष्टवन्निश्चेष्टाः संजाताः, केचिदव्यक्तशब्देन घुघुरायमाणा लोलुठ्यन्ते महीपीठे, अपरे शून्यहृदया इतस्ततो बम्भम्यन्ते, अन्ये तीव्रतरविषप्रसरसंभूत प्रभूतदाहवेदनापरिभूता निपतन्त्यतिप्रचुरदुःखदम्भोलौ, केचित्पुनरारसन्त्यव्यक्तवाग्भिर्न शक्नुवन्ति जल्पितुमपि स्फुटवचनैः केचन पुनः कदाचन स्खलन्ति कदाचिनिपतन्ति कदाचिन्मूछन्ति कदाचन स्वपन्ति कदाचिज्जाग्रति क्षणमेकं पुनश्च स्वपन्ति, विषाऽऽवेगात अन्ये पुनः सदैव निर्भर स्वपन्ति, न किमपि चेतयन्ते। एवं च तस्मिन् सकलेऽपि पुरे विषधरविषवेदनाऽभिभूते समागादेको महानुभागो विनीतविनयवृन्दपरिवारो महानरेन्द्रः तच तथाविधं पुरमालोक्य समुत्पन्नपुण्यकारुण्येन तेन बभाषिरे लोकाः, यथाभो भो लोका मोचयामि वः सर्वानप्येतस्या महोरगविषवेदनायाः, यदि मयोपदिष्टां क्रियामाचरत। तैरुक्तम् कीदृशी सा? गारुडिकक्रियापरिवृढः प्रोवाचअहो लोकाः! प्रथममेवतावन्मामकीनशिष्यसन्दोहवेष-वत्प्रतिपत्तव्यो वेषः, रक्षणीयाः सकलत्रिभुवनोदरविवरवर्तिनः प्राणिनः, न वक्तव्य सूक्ष्ममप्यलीक, न ग्रहीतव्यमदत्तं, पालयितव्यं नवगुप्तिसनाथमजिह्मब्रह्मचर्य ,मोक्तव्यः स्वदेहेऽपि प्रतिबन्धः, वर्जनीयं रजन्यां चतुर्विधमप्याहारजातं, वस्तव्यं स्त्रीपशुपण्डकविरहितवसतिश्मशानगिरिगहरशून्यसदनकाननाऽऽदिषु कर्तव्यं भूमिकाष्ठशय्याऽऽसनं, परिभ्रमितव्यं युगमात्रादत्तलोचनैः, जल्पनीयं हितमितागर्हितनिरवद्यं वचः, भोक्तव्यमकृताकारितमननुमतमसंकल्पित पिण्डजातं० निवारणीयं सदाऽप्यकुशलचिन्तायां मानसं, परिवर्जयितव्याः सर्वथा राजाऽऽदिकथाः, परित्यक्तव्यो दूरमकल्याणमित्रासंपर्कः, परिहरणीयः सर्वेण कुगारुडिकसंबन्धः, कर्तव्यानि यथाशक्ति सुदुश्चरतपश्चरणानि, बंभ्रमितव्यमनियतविहारेण, सोढव्याः सम्यग् परीषहोपसर्गाः तितिक्षणीयानि नीचदुर्भाषितानि, भवितव्यं सर्व सहेव सर्वसहैः। किंबहुना? क्षणमप्यस्यां क्रियायां न प्रमाद्यं, तथा कर्तव्यो मदुपदिष्टस्यमन्त्रास्य निरन्तरं जापः, ततो निवर्तन्ते पूर्ववर्णितविषविकाराः, उन्मीलन्ति निर्मलबुद्धयः, किं बहुभाषितया? प्राप्यते परम्परया तदपि परमाऽऽनन्दपदमिति। एवं च तस्य वचनं महाराज ! कैश्चन विषाऽऽवेशविवशैन श्रुतमेव यैरपि श्रुतं तेषामप्येके उपहसन्ति, अन्येऽवधीरयन्ति, अपरे निन्दन्ति, केचनदुर्विग्धत्वेन स्वशिल्पकल्पितानल्पकुविकल्पैः प्रतिघ्नन्ति, एके न श्रद्दधति, अपरे श्रद्दधाना अपि नानुतिष्ठन्ति, क्वचित्पुनर्लघुकर्माणो महाभागायुक्तियुक्तमिति श्रद्दधतेऽनुतिष्ठन्ति च। ततो मयाऽपि महाराज! विषधरवेदनानिर्विण्णेनामृतमिव प्रतिपेदेतद्वचः, उररीकृतः सबहुमानं तत्समर्पितो वेषः, प्रारेभे चेमामतिदुष्करां क्रियां, तदेतन्मम व्रतग्रहणे कारणं समजनिष्टा तदाकाऽनवगतपरमार्थेन विजयसेनपार्थिवेन प्रणम्य पृष्टो भूयोऽपि मुनीन्द्रः- भगवन्! कयं तत्तादृशविस्तारभवाऽऽवर्तनगरं सकलमपि सहोदरैसति, कथमेकेन दर्वीकरेण सर्वेऽपि ते एकहेलं दष्टा, कथं चैक एवं महानरेन्द्रवृन्दारकः सकलजननिर्विषत्वकरणे समर्थः, कथमेतादृशो विषनितिनविधिरिति?| तंतः प्रोक्तं गुरुणामहाराज! नेदं बहिरङ्ग वचनमात्र किं तु भव्यजनभववैराग्यकारणं समस्तमप्यन्तरङ्गभावार्थकलितम तथाहि"नैरयिकाऽऽदिभवानामावर्तों येन तत्र नरनाथ! संसारस्तेनेह न्यगादि नगरं भवाऽऽवतम्।।१।। कर्मपरिणामराजः, सर्वेषां कालपरिणतिसमेतः। जनको येन ततोऽमी, जीवाः सर्वेऽपि सोदर्याः / / 2 / / अत्र भवावर्तपुरे,तएव निवसन्त्यनन्तका जीवाः। एकेन विषधरेण च, ते दष्टा येन श्रृणु तच / / 3 / / अष्टमदस्थानफणो, दृढरूढ़कुवासनामलिनदेहः। रत्यरतिचपलरसनो ज्ञानाऽऽवरणाऽऽदिडिम्भयुतः।।४।। कोपमहाविषकण्टक-विकरालो द्वेषरागनयनयुगः। मायागृद्धिमहाविष-दाढो मिथ्यात्वखरहृदयः / / 5 / / हास्याऽऽदिधवलदशनः, सपरिकरस्त्रिभुवनं दशति निखिलम्। कृतचित्तबिलनिवासो, मोहमहाविषधरो भीमः / / 6 / / दष्टाश्च तेन जीवाः, मूर्छितवचेतयन्ति न हि कार्यम्। मीलन्ते लोचनानि. क्षणमात्रसुखानुभवनेन / / 7 / / अङ्रत्यधरैरिव संचार्यन्ते च सेवकजनेन। लग्नाः करे नदेवं, न गुरुं च मुणन्ति गतमतयः ||8|| किं मम युक्तमयुक्तं, किं वा मम कोऽहमिति तथाऽऽत्मानम्। न विदन्ति हितमपि तथा शृण्वन्ति न गुरुभिरुपदिष्टम्।।६।। समविषमाणि न सम्यक् , वीक्षन्ते नैव गुरुजनस्यापि। विदधत्यौचित्यं किल, मूला इव नालपन्ति परम् // 10 // अतितीव्रविषाभिहताः, प्रोक्ता एकेन्द्रिया विगतचेष्टाः। अव्यक्तं च रसन्तो, लुठन्ति विकलेन्द्रिया धरणौ // 11 // ज्ञेयाश्च तायुक्त्या, शून्याश्चेष्टा असंज्ञिनां राजन्। दाहाऽऽदिदुःखदम्भो-लयस्तु नैरयिकजन्तूनाम् / / 12 / / येनासाताभिधलघु-भुजङ्गमस्यातिनिष्ठुरो दंशः। तेषां जातो ह्येव, ज्ञेयः सर्वा च विशेषः / / 13 / / अव्यक्तं विरसन्तः, करिकरभप्रभृतयो विनिर्दिष्टाः। स्खलनपतनाऽऽदिधर्माः, विज्ञेया मानवानां तु॥१४॥ जाग्रति ते प्रतिपन्ना विरतिं विषलाघवानुभावेन। भूयो मोहविषवशात्, स्वपन्ति परिमुक्तविरतिगुणाः / / 15 / / अविरतनिद्रावसतः, स्वपन्ति देवाः सदेति सकलजने। मोहोरगविपविधुरे, गारुडिकं बोधत जिनेन्द्रम्॥१६॥ यतिजनकरणीयायां, सदा क्रियायां हि तदुपदिष्टायाम्। यदि विगलितप्रमादैः, क्रियते सिद्धान्तमन्त्रजपः / / 17 / / तत एकोऽपि समर्थो मोहविषोच्छेदने त्रिभुवनस्या निष्कारणबन्धुरसी, भव्यानां परमकारुणिकः // 18|| एवमवगस्य नरपतिरपूर्वसंवेगमुद्बहन कमपि भालस्थलमिलितकरः, प्रणम्य मुनिराजमित्यूचे / / 16 / / सत्यमिद मुनिपुङ्गवः वयमपि मोहविषधारिता अधिकम्। आत्महितमियत्कालं, चेतितवन्तः किमपि नैव / / 20 / / अधुना तु राजसौस्थ्य, कृत्वाऽऽदत्स्ये व्रतं प्रभुपदान्ते। गुरुरप्याह नरेन्द्र ! क्षणमपि मा स्म प्रमादीस्त्वम्॥२१॥ तदनु पुरन्दरपुत्रो, राज्यभरंन्यस्य विजयसेनृपः। सामन्तकमलमाला-मन्त्र्यादियुतः प्रवव्राज / / 22 / / अथ मालत्यपि देवी, निजदुश्चरितं निवेद्य सुगुरूणाम्। कर्मवनगहनदहन-प्रतिमां दीक्षां समादत्त // 23 // नम्रसुरासुरकिन्नर-विद्याधरगीयमानशुभ्रयशाः। भव्योपकारहेतो-गुरुरप्वन्यत्रा विजहार // 24 // "अह परिपालइ रज्ज, पुरन्दरो दरियवइरिबलदलणो। अप्पुव्यचेइयाई जिन्नुद्धारे य कारतो।।२५।।