________________ पुण्णमासिणी 167 - अभिधानराजेन्द्रः - भाग 5 पुण्णमासिणी एकस्य च मुहुर्तस्य पञ्चविशं शतं द्वाषष्टिभागानाम् 125, एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः 25, तत्र षोडशभिः शतैरष्टात्रिंशदधिकैः 1638, मुहूर्तानामेकस्य च मुहूर्तस्याष्टाचत्वारिंशता द्वाषष्टिभागैः ४८,एकस्य च द्वाषष्टिभागस्य द्वात्रिंशदधिकेन शतेन 132, द्रौ नक्षत्रपर्यायौ शुझ्यतः, स्थिताः पश्चात् द्वादश मुहूर्ताः 12, एकस्य च मुहूर्तस्य पञ्चसप्ततिषिष्टिभागाः 75, एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः 27, ततो नवभिर्मुहूर्तरेकस्य च मुहूर्तस्य चतुविशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिन्नक्षत्र शुद्ध्यति, स्थिताः पश्चात् त्रयोदश मुहूर्ताः 13 / एकस्य च मुहूर्तस्य पञ्चाशत् द्वाषष्टिभागाः 50/62 एकस्य च द्वाषष्टिभागस्याष्टाविंशतिः सप्तषष्टिभागाः 28/67 आगतं श्रवणनक्षत्रं षट्तिशती मुहूर्तेष्वेकस्य च मुहूर्तस्य एकादशसुद्वाषष्टिमागेषु एकस्य चद्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां श्राविष्ठी पौर्णमासी परिसमापयति, एवं चतुर्थी श्राविष्टी पौण्णमासी धनिष्ठानक्षत्रं षोडशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमापयति, पञ्चमी श्राविष्ठी पौर्णमासी श्रवणनक्षत्रं द्वादशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षष्टिसख्येषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिनयतीति। तदेवं यानि नक्षत्राणि श्राविष्ठी पौर्णमासी परिसमापयन्ति तान्युक्तानि // 11 // सम्प्रति यानि प्रोष्ठपदी परिसमापयन्ति तान्याहता पोट्ठवतिं गं पोण्णिम कति णक्खत्ता जोएंति? ता तिण्णि णक्खत्ता जोएंति। तं जहा-सतभिसया, पुव्वासाढवती, उत्तरापोट्ठवया // 2 // (ता पोट्टवई ण इत्यादि) ता इति पूर्ववत्, प्रोष्ठपदी भाद्रपदी, णमिति वाक्यालङ्कारे, पौर्णमासी कति नक्षत्राणि युञ्जन्ति? कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः? एवं सर्वत्रापि. युञ्जन्तीत्यस्य पदस्य भावना कर्तव्या। भगवानाह- (ता इत्यादि) 'ता' इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-शतभिषक, पूर्वप्रोष्ठपदा, उत्तरप्रोष्ठपदा च। तत्र प्रथमा प्रोष्ठपदी पौर्णमासीमुत्तरभद्रपदानक्षत्रं सप्तविंशती मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्दशसु द्राष्टिभागेषु चतुष्षष्टौ सप्तषष्टिभागेषु शेषेषु परिसमापयति नयति। द्वितीयां प्रौष्ठपदी पौर्णमासी पूर्वभद्रपदानक्षत्रमष्टसु मुहूर्तेषु शेषेष्वेकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिणमयति। तृतीयां प्रौष्ठपदी पौर्णमासीं शतभिषक् पञ्चसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभागेषु एस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु शेषेषु, चतुर्थी प्रौष्ठपदी पौर्णमासीम् उत्तरभद्रपदानक्षत्रं चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्यैकचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्विंशतौ सप्तषष्टिभागेषु शेषेषु, | पञ्चमी प्रौष्ठपदी पौर्णमासी पूर्वभद्रपदानक्षत्रमेकविंशती मुहूर्तेष्वेकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकादशसु सप्तषष्टिभागेषु शेषेषु परिणमयति। ता आसोइंणं पुण्णिमं कति णक्खत्ता जोएंति? ता दोण्णि नक्खत्ता जोएंति। तं जहा-रेवतीय, अस्सिणी य॥३॥ (ता आसोइंणमित्यादि) आश्वयुर्जी, णमिति वाक्यालङ्कारे, पौर्णमासी कति नक्षत्राणि युञ्जन्ति? भगवानाह- (ता इत्यादि) 'ता' इति पूर्ववत् ये नक्षत्रे युक्तः , तद्यथा- रेवती च, अश्वनी च / इहोत्तरभद्रपदानक्षत्रमपि काश्चिदाश्वयुर्जी पौर्णमासी परिसमापयति, परंतत्प्रौष्ठपदीमपि पौर्णमासी परिसमापयति, तत्रैव च लोके तस्य प्राधान्यं तन्नाम्ना तस्याः पौर्णमास्या अभिधानात् अतस्तदिह न विवक्षितमित्यदोषः / तथाहि-प्रथमायाश्वयुजी पौर्णमासीमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च / द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमापयति, द्वितीयामाश्वयुजी पौर्णमासी रेवतीनक्षत्रं सप्तदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु शेषेषु, तृतीयामाश्वयुजी पौर्णमासीमुत्तरभद्रपदानक्षत्र चतुर्दशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकस्मिन् द्वाषष्टिभागे एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेषु शेषेषु चतुर्थीमाश्वयुजी पौर्णमासी रेवतीनक्षत्रं चतुर्षु मुहूर्तेषु एकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमीमाश्वयुजी पौर्णमासीमुत्तरभद्रपदानक्षत्रमेकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य दशसु सप्तपष्टिभागेषु शेषेषु परिसमापयति // 3 // ता कत्तियं णं पुण्णिम कति णक्खत्ता जोएंति ? ता दोण्णि नक्खत्ता जाएंति / तं जहा-भरणी य कत्तिया य // 4 // (कत्तियं णमित्यादि) कार्तिी पौर्णमासी कति नक्षत्राणि युञ्जन्ति? भगवानाह-द्वे नक्षत्रे युक्तः , तद्यथा- भरणी, कृत्तिका वा। इहाऽप्यश्विनीनक्षत्रमपि काञ्चित् कार्तिकी पौर्णमासी परिसमापयति, परं तदाश्वयुज्यां पौर्णमास्यां प्रधानमितीह तन्न विवक्षितं, तत्र प्रथमां कार्तिी पौर्णमासी कृत्तिकानक्षत्रमेकस्य च मुहूर्त्तस्य चतुर्यु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वाषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं षड्विंशती मुहूर्तेष्वेकस्य च मुहुर्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनपञ्चाशति सप्तषष्टिभागेषु शेषेषु, तृतीयां कार्तिकी पौर्णमासीमश्विनीनक्षत्रं सप्तसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टा पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यषट्त्रिंशति ससषष्टिभागेषु शेषेषु, चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं षोडशसु मुहुर्तेष्येकस्य च मुहूर्तस्याष्टापञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वविंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी कार्तिकी पौर्णमासी भरणीनक्षत्रं नव मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेषु एकस्य