________________ पुण्णमासिणी 666 - अभिधानराजेन्द्रः - भाग 5 पुण्णमासिणी 52. एतानि द्वाषष्टिभागाऽऽनयनार्थ द्वाषष्ट्या गुण्यन्ते, जातमेकं लक्षमेकनवतिः सहस्राणि चतुरशीत्यधिकानि 161084, तेषां छेदराशिना 4154 भागो हियते, लब्धाः षट्चत्वारिंशत् मुहूर्त्तस्य द्वाषष्टिभागाः, एषां पुनर्वसुनक्षत्रस्य शोधनकनिष्पत्तिः // 4 // शेषनक्षत्राणां शोधनकान्याह-(बायत्तरंसयमित्यादि५) द्वासप्ततं द्विसप्तत्यधिकं शतं फल्गुनीनामुत्तरफल्गुनीनांशोध्यम् / किमुक्तं भवति? द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धयन्ति / एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वे शते द्विनवत्यधिके 262, अथानन्तरमुत्तराषाढापर्यन्तानि नक्षत्राणि अधिकृत्य शोध्यानि चत्वारि शतानि द्विचत्वारिंशदधिकानि 442 / / 5 / / (एयं पुणेत्यादि६) एतत् अनन्तरोक्तं शोधनक सकलमपि पुनर्वसुसत्कद्वाषष्टिभागसहितमवसेयम् / एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिर्मुहूर्तास्ते सर्वेऽप्युत्तरस्मिन् शोधनकेऽन्तः-प्रविष्टाः प्रवर्तन्ते, न तु द्वाषष्टिभागाः, ततो यत् यत् शोधनक शोध्यते तत्र तत्र पुनर्वसुसत्काः षट्चत्वारिंशत् द्वाषष्टिभागा उपरितनाः शोधनीया इति, एतच पुनर्वसुप्रभृति उत्तराषाढापर्यन्तं प्रथमंशोधनकम्, अत ऊर्द्धमभिजितमाद्यं कृत्वा द्वितीयं शोधनकं वक्ष्यामि / / 6 / / तत्र प्रतिज्ञातमेव निर्वाहयति (अभिइस्सेत्यादि गाथाचतुष्टयम् 7-8-6-10-) अभिजितो नक्षत्रस्य शोधनक नव मुहूर्ता एकस्य च मुहूर्तस्य सत्काश्चतुविशतिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तषष्टि छेदकृताः परिपूर्णाः षट्षष्टिभागाः, तथा एकोनषष्टम्-एकोनषष्ट्यधिक शतं प्रोष्ठपदानाम्-उत्तरभद्रपदानां शोधनकम्। किमुक्तं भवति? एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धयन्ति, एवमुत्तरत्रापि भावना कर्तव्या, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका रोहिणीपर्यन्तानि शुद्धयन्ति, तथा त्रिषु नयनवतेषु नवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्रजातं शुद्ध्यति, तथैकोनपञ्चाशदधिकानि पञ्च शतानि प्राप्य फाल्गुन्यश्चउत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, विशाखासुविशाखापर्यन्तेषु नक्षत्रेप्वेकोनसप्तत्यधिकानिषट् शतानि शोध्यानि 666, मूलपर्यन्ते नक्षत्रजातेसप्त शतानि चतुः चत्वारिशदधिकानि शोध्यानि 744, उतराषाढानाम्-उत्तराषाढापर्यन्ताना नक्षत्राणां शोधनकमष्टौ शतानि एकोनविंशत्यधिकानि 816, सर्वेष्वपि च शोधनकेषूपरि अभिजितो नक्षत्रस्य संबन्धिनो मुहूर्तस्य द्वाषष्टिभागाश्चतुर्विशतिः षट्षष्टिश्च चूर्णिका भागा एकस्यद्वाषष्टिभागस्य सप्तषष्टिभागाः शोधनीयाः 7-8-6-10 / (11 एयाई इत्यादि) एतानि अनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रम्, एतस्मिश्च नक्षत्रे करोति सूर्येण सममुडुपतिरमावास्यामिति। तदेवममावास्याविषयचन्द्रयोगपरिज्ञानार्थ करणमुक्तम् / सम्प्रति पौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थं करणमाह- (१२-इच्छापुण्णिमेत्यादि) यः पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविधौ ईप्सितपौर्णमासीगुणितोयां पौर्णमासी ज्ञातुमिच्छति तत्संख्यया गुणितः कर्तव्यः, गुणिते च सति तदेव पूर्वोक्तं शोधनकं कर्तव्यं, केवलमभिजिदादिकं न तु पुनर्वसुप्रभृतिकं, शुद्धे च शोधनके यत् शेषमवतिष्ठते तत् भवेन्नक्षत्रं पौर्णमासीयुक्तम्, तस्मिंश्च नक्षत्रे करोति उडुपतिश्चन्द्रमाः परिपूर्णः पौर्णमासी विमलामिति / एष पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविषयकरणगाथाद्वयाक्षरार्थः / 11-12 / संप्रत्यस्यैव भावना क्रियते कोऽपि पृच्छतियुगस्याऽऽदौ प्रथमा पौर्णमासी श्रावीष्ठी कस्मिन् चन्द्रनक्षत्रे परिसमाप्तिमुपैति? तत्र षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवरूपोऽवधार्यराशियिते, प्रथमायां किल पौर्णमास्यां पृष्टमित्येकेन गुण्यते. एकेन च गुणितंतदेव भवति, ततस्तस्माद-भिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इत्येवंपरिमाणं शोधनकं शोधनीम् / तत्र षट्षष्टेनव मुहूर्ताः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत्, तेभ्य एको मुहूर्ता गृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि द्वाषष्टिभागराशौपञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टिः द्वाषष्टि भागास्तेभ्यश्चतुर्विंशतिः शुद्धाः स्थिताः पश्वात्विचत्वारिंशत्तेभ्य एक रूपमादाय सप्तषष्टिभागीक्रियते, ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते, जाता अष्टषष्टिः सप्तषष्टिभागाः, तेभ्यः षट्षष्टिः शुद्धाः, स्थितौ पश्चात् द्वौ सप्तषष्टिभागौ, ततस्त्रिंशता मुहूतैः श्रवणः शुद्धः, स्थिताः पश्चात् मुहूर्ताः / षविंशतिः, तत इदमागतं धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु गतेष्वेकस्य च मुहूर्त्तस्य एकोनविंशतिसंख्येषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसंख्येषु सप्तषष्टिभागेषु शेषेषु प्रथमा आविष्ठी पौर्णमासी परिसमाप्तिमियति / यदा तु द्वितीया श्राविष्ठी पौर्णमासी विन्त्यते तदा सा युगस्याऽऽदित आरभ्य त्रयोदशीति स ध्रुवराशिः 66 / 5/62 / 1/67, त्रयोदशभिर्गुण्यते, जातानि मुहूर्तानामष्टौ शतानि अष्टापञ्चशदधिकानि 858, एकस्य च मुहूर्तस्य पञ्चषष्टिषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सत्काः त्रयोदश सप्तषष्टिभागाः 85865/62 / 13/67 तत्राष्टभिः शतैरेकोनविंशत्यधिकैर्मुहूर्तानामेकस्य व मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य सत्कैः षट्षष्ट्या सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धः, ततः / स्थिताः पश्चादेकोनचत्वारिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य चत्वारिंशद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः 36 | 4/60/21/64/7 ततो नवभिर्मुहूर्तरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिन्नक्षत्र शुद्ध्यतिस्थिताः पश्चात् त्रिंशन मुहूर्ताः पञ्चदशः मुहूर्तस्य द्वाषष्टिभागा एकस्य चद्वाषष्टिभागस्य पञ्चदश सप्तषष्टिभागाः 3 / 1/65/2.1/65/7 / तेभ्यस्त्रिशता श्रवणः शुद्धः, आगतम् एकोनविशतिमुहूर्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विपञ्चशति सप्तषष्टिभागेषु शेषेषु धनिष्ठायां द्वितीया श्राविष्ठी पौर्णमासी परिसमाप्तिमेति। यदा तु तृतीया श्राविष्ठी पौर्णमासी चिन्त्यते तदा सा युगाऽऽदितः पञ्चविंशति तमेति स पूर्वोक्तो ध्रुवराशिः 66 / 5/62 1/67 पञ्चविंशत्या गुण्यते, जातानिषोडशशतानिपञ्चाशदधिकानि 1650,