________________ पुण्णमासिणी 665 - अभिधानराजेन्द्रः - भाग 5 पुण्णमासिणी आविष्ठी पौर्णमासी परिसमापयतः, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तम्, कथमेतदवसीयते इति चेत्? उच्यते- इह प्रवचनप्रसिद्धममावास्यापौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थमिद करणम्"नाउमिह अमावासं, जइ इच्छसि कम्मि होइ रिक्खम्मि। अवहार ठाविज्जा, तत्तियरूवेहि संगुणए / / 1 / / छावट्ठी य मुहत्ता, विसट्ठिभागा य पंच पडिपुण्णा। वासविभागसत्त-ट्टिगो य एको हवइ भागो।।२।। एयमवहाररासिं, इछ अमावाससंगुणं कुज्जा / भक्खत्ताणं एत्तो, सोहणगविहिं निसमिह / / 3 / / वावीसं च मुहुत्ता, छायालीसं विसट्ठिभागा य। एयं पुणव्वसुस्सय, सोहेयव्वं हवइ वुच्छं / / 4 / / वावत्तरं सयं फ-गुणीण वाणउइय वे विसाहासु। चत्तारि अ बायाला, सोज्झा अह उत्तरासाढा / / 5 / / एयं पुणव्वसुस्स य, बिसट्ठिभागसहियं तु सोहणगं। इत्तो अभिईआई, बिइयं वुच्छामि सोहणगं // 6 // अभिइस्स नव मुहुत्ता, विसट्टिभागा य हुंति चउवीसं / छावडी असमत्ता, भागा सत्तट्टिछेयकया / / 7 / / उगुणटुं पोहवया-तिसु चेव नवोत्तरं च रोहिणिया। तिसु नवनवएसु भवे, पुणव्वसू फग्गुणीओ य॥८|| पंचेव उगुणपन्नं, सयाइ उगुणुत्तराइँ छचेव। सोज्झाणि विसाहासु, मूले सत्तेव चोयालो / / 6 / / अट्ठसय उगुणवीसा, सोहणगं उत्तराण साढाण। चउवीसं खलु भागा, छावट्ठी चुण्णिवाओ य / / 10 / / एयाइ सोहइत्ता, जं सेसं तं हविज्ज नक्खत्तं / इत्थं करेइ उडुवइ, सूरेण समं अमावासं / / 11 / / इच्छापुण्णिमगुणिओ, अवहारो सोत्थ होइ कायव्यो। तं चेव य सोहणगं, अभिई अइंतु कायव्वं / / 12 / / सुद्धम्मिय सोहणगे, जं सेसं तं हवेज्ज नक्खत्तं / तत्थय करेइ उडुवइ, पडिपुण्णो पुण्णिमं विउल / / 13 / / " एतासां गाथानां क्रमेण व्याख्या - याममावास्यामिह-युगे ज्ञातुमिच्छसि-यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाप्ता भवतीति तावद्रूपैर्यावत्योऽमावास्या अतिक्रान्तास्तावत्याः संख्याया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यतेप्रथमतया स्थाप्यते इति त्यवधार्यो धुवराशिः तमवधार्य राशिं पट्टिकाऽऽदौ स्थापयियित्वा चतुर्विशत्यधिकेन पर्वशतेन संगुणयेत् / / 1 / / अथ किंप्रमाणोऽसाववधार्यो राशिरिति तत्प्रमाणनिरूपणार्थमाह(छावट्ठी गाहा 2) षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भागः, एतावत्प्रमाणोऽवधार्यराशिः, कथ मेतावत्प्रमाणस्यास्योत्पत्तिरिति चेत्? उच्यतेइह यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो | द्वाभ्यां पर्वभ्यां किं लभामहे? राशित्रयस्थापना 124 / 5 / 2 / अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चलक्षणो गुण्यते, जाता दश, तेषां चतुर्विशत्यधिकेन भागहरणं, तत्र छेद्यच्छेदकराश्योकिनापवर्तना क्रियते, जात उपरितनश्छेद्यो राशिः पञ्चकरूपोऽधस्तनो द्वाषष्टिरूपः, लब्धाः पञ्चद्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टादशभिः शतस्त्रिंशदधिकैः सप्तषष्टिभागरूपैर्गुण्यन्ते, जातान्येकनवतिः शतानि पञ्चाशदधिकानि 6150, छेदराशिरपि द्वाषष्टिप्रमाणः सप्तषष्ट्या गुण्यते, जातान्येकचत्यारिंशत् शतानि चतुःपञ्चाशदधिकानि 4154, उपरितनो राशिर्मुहूर्ताऽऽनयनार्थ भूयः त्रिंशता गुण्यते, जातंद्वे लक्षे चतुःसप्तातेः सहस्राणि पञ्च शतानि 274500, तेषां चतुः पञ्चाशदधिकैकचत्वारिंशच्छतैर्भागहरणं, लब्धाः षट्षष्टिर्मुहूर्ताः 66 शेषा अंशास्तिष्ठन्ति त्रीणि शतानि षट्त्रिंशदधिकानि 336 ततो द्वाषष्टिभागाऽऽनयनाथ तानि द्वाषष्ट्या गुण्यन्ते, जातानि विंशतिः सहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि 20832; तेषामनन्तरोक्तेन छेदराशिना 4154 भागो हियते, लब्धाः पञ्च द्वाषष्टिभागाः 5 शेषास्तिष्ठन्ति द्वाषष्टिः, ततस्तस्या द्वाषष्ट्या अपवर्तना क्रियते, जात एककः, छेदराशेरपि द्वाषष्ट्याऽपवर्तनायां लब्धाः सप्तषष्टिः, तत आगतं षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य चद्वाषष्टिभागस्य एकःस-तषष्टिभाग इति, तदेवमुक्तमवधार्य राशिप्रमाणम् / / 2 / / संप्रति शेषविधिमाह(एयमवहारे ३-इत्यादि) एतमनन्तरोदितस्वरूपमवधार्यराशिमिच्छामावास्यासंगुणंयाममावास्यां ज्ञातुमिच्छसि तत्संख्यया गुणितं कुर्यात्, अत ऊर्द्ध तु नक्षत्राणि शोधनीयानि, ततोऽत ऊर्द्ध नक्षत्राणां शोधनकविधि शोधनकप्रकारं वक्ष्यमाणं निशामयत आकर्णयत / / 3 / / तत्र प्रथमतः पुनर्वसुशोधनकमाह-(बावीसं चेत्यादि 4) द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य षट्चत्वारिंशत् द्वाषष्टिभागाः, एतत् एतावत्प्रमाण पुनर्वसुनक्षत्रस्य परिपूर्ण भवति शोद्धव्यं, कथमेवंप्रमाणस्य शोधनकस्योत्पत्तिरिति चेत्? उच्यते-इह यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्य-नक्षत्रपर्याया लभ्यन्ते तदैक पळतिक्रम्य कतिपयास्तेनैकेन पर्वणा लभ्यन्ते?, राशियस्थापना-१२४।५१। अत्रान्त्येन राशिना एककलक्षणेन मध्यो राशिः पञ्चकरूपो गुण्यते, जाताः पञ्चैव, "एकेन गुणितं तदेव भवति'' इति वचनात्, तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्राऽऽनयनार्थमेतेऽष्टादशभिः शतै स्विंशदधिकैः सप्तषष्टिभागरूपैर्गुणयितव्या इति, गुणकारछेदराश्योर्द्विकेनापवर्तना, जातो गुणकारराशिनव शतानि पशदशोत्तराणि 615, छेदराशिषिष्टिः 62, ततः पश्च नवभिः पञ्चदशोत्तरैः शतैर्गुण्यन्ते; जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि 4575, छे दराशिर्द्विषष्टिलक्षणः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुः पञ्चाशदधिकानि 4154, तथा पुष्यस्य ये त्रयोविंशतिः सप्तषष्टिभागाः प्राक्तनयुगचरमपर्वणि सूर्ये ण सह योगमायान्ति ते द्वाषष्ट्या गुण्यन्ते, जातानि चतुर्दश शतानि षड्विंशत्यधिकानि 1426, एतानि प्राक्तनात् पञ्चसप्तत्यधिकपश्चचत्वारिंशच्छतप्रमाणात् शोध्यन्ते, शेषं तिष्ठन्ति एकत्रिंशत्शतानि एकोनपशाशदधिकानि 3146, तत एतानि मुहूर्ताऽऽनयनार्थ त्रिंशता गुण्यन्ते, जातानि चतुर्णवतिः सहस्राणि चत्वारि शतानि सप्तत्यधिकानि 64470, तेषां छेदराशिना चतुःपञ्चाशदधिकै कचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिमुहूर्ताः, शेषं तिष्ठन्ति त्रीणि सहस्राणि व्यशीत्यधिकानि 30