________________ पुण्णट्ठापगड 664 - अभिधानराजेन्द्रः - भाग 5 पुण्णमासिणी वस्तुतो भिक्षाया अग्रहणमेव, शिष्टाना पुण्यार्थमेव पाकप्रवृत्ते, तथाहिन पितृकर्माऽऽदिव्यपोहेनाऽऽत्मार्थमेव क्षुद्रसत्त्ववत्प्रवर्तन्ते शिष्टा इति, नैतदेवम् अभिप्रायापरिज्ञानात, स्वभोग्यातिरिक्तस्य देयस्यैव पुण्यार्थकृतस्य निषेधात्, स्वभृत्यभोग्यस्य पुनरुचितप्रमाणस्येत्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याऽप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः, दयस्यैव यदृच्छादानानुपपत्तेः कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदृशस्यैव प्रतिषेधात् तदारम्भदोषेण योगात्, यदृच्छादानेतुतदभावेऽप्यारम्भप्रवृत्तेः नासौ तदर्थ इत्यारम्भदोषायोगात्, दृश्यते च कदाचित्सूतकाऽऽदाविव सर्वेभ्य एव प्रदानविकला शिष्टाभिमतानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच्च तथा-विधग्रहणान्न दोष इत्थलं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्येति॥४६॥ प्रतिषेधः पूर्ववत्॥५०॥ दश०५ अ०१ उ० पुण्णणिमित्त न०(पुण्यनिमित्त) शुभकर्मनिबन्धने, पञ्चा०१५ विव० पुण्णतिहि स्त्री०(पूर्णतिथि) पूर्णासंज्ञकतिथौ, पञ्चमी दशमी पञ्चदशीच तिथिः पूर्णा उच्यते। पञ्चा० 15 विव०। जं०। ज्यो। पुण्णपगइ स्त्री०(पुण्यप्रकृति) जीवाऽऽहादजनिकायां शुभकर्मप्रकृती, कर्म० 5 कर्म०। प्रव०। (ताश्च सुरगत्याद्या द्वाचत्वारिंशत् 'कम्म' शब्दे तृतीयभागे 267 पृष्ठे दर्शिताः) पुण्णपगय त्रि०(पुण्यप्रकृत) पुण्यार्थ साधिते, प्रश्र० 5 आश्र० द्वार।। पुण्णपय न०(पुण्यपद) पुण्यहेतुत्वात्पुण्यं, तच्च तत्पद्यते गम्यतेऽनेनार्थ इति पदम्, पुण्यस्य वा पदं स्थानम्। पापपरिवर्जनाऽऽत्मके शब्दसंदर्भ, उत्त०१८ अ० पुण्णपाल पुं०(पुण्यपाल) पापायां नगर्या चरमवर्षा रात्रं स्थितस्य श्रीवीरस्य वन्दनार्थमागते अष्टादशस्वप्नपृच्छके, ती०२० कल्पा पुण्णपाव न०(पुण्यपाप) शुभाऽशुभकर्मणोः, उपा० / "णत्थि पुण्णे य पावे य णेवं सन्न णिवेसए।" इति। सूत्र०२ श्रु०५ अ०। ('अस्थिवाय' शब्दे प्रथमभागे 520 पृष्ठे व्याख्यातम्) पुण्णपिवासिय त्रि०(पुण्यपिपासित) पिपासेवापिपासा प्राप्तेऽपि पुण्येऽतृप्तिः, पुण्यपिपासा सा सजाताऽस्येति पुण्यपिपासितः। नित्यं पुण्याऽतृप्ते, तं०। पुण्णप्पभ त्रि०(पूर्णप्रभ) इक्षुवरे समुद्रे तदधिपे देवे, सू०प्र०१६ पाहु०। पुण्णप्पमाण त्रि०(पूर्णाऽऽत्ममान) पूर्णप्रमाणः पूर्ण वा जलेनाऽऽत्मनो मानं यस्य स पूर्णाऽऽत्ममानः। जलपूर्णमाने, “सा नावा तेहि आसवदारहि आपूरमाणी 2 पुण्णा पुण्णप्पमाणा वोसट्टमाणा वोसट्टमाणा समभरघडताए विट्टइ।" भ०१श०६ उ०।। पुण्णभद्दपुं०(पूर्णभद्र) दक्षिणयक्षनिकायेन्द्र स्था०६ ठा०। यक्षनिकाय भेदे, प्रज्ञा०२ पद। भ०। ति० आ० चू०पूर्णभद्राऽभिधानदेवनिवासात् / पूर्णभद्रकटम्। जम्बूद्वीपे भरतखण्डेदीर्घवताट्ये षष्ठकूटे, स्था०६ ठा० / जं० / ऐरवतदीर्घवैताठ्यपर्वतस्य षष्ठे कूटे, स्था० 6 ठा० / अन्त०। आ० चू० / आ०म०। माल्यवद् वक्षस्कारपर्वतस्याऽष्टमे कूटे, जं० 4 वक्ष। चम्पानगर्या उत्तरपूर्वदिग्भागे स्वनामके चैत्ये, नि०१ 01 वर्ग 1 अ०। विपा०। अन्त०। ज्ञा०। उपा०। ओघाआ० चू०। आ० म०। वाणिजग्रामे स्वनामख्याते गृहपतौ, स च वीरान्तिके प्रव्रज्य पञ्चवर्षपर्यायः विपुले पर्वतें सिद्ध इति अन्तकृद्दशानाम्। अन्त०१ श्रु०५ वर्ग 2 अ०॥ स्थविरस्यार्यसम्भूतविजयस्यद्वादशशिष्याणां सप्तमे, कल्प०२ अधि० 8 क्षण। पुण्णमंत त्रि०(पुण्यवत्) पुण्यमस्त्यस्य पुण्यवान्। "आल्विल्लो-लालवन्त-मन्तेत्तेर-मणा मतोः" / / 8 / 2 / 156 / / इति मतोः स्थाने मन्ताऽऽदेशः। पुण्यवान्। पुण्यविशिष्ट प्रा०२ पाद। पुण्णमासिणी स्त्री०(पौर्णमासी) पूर्णो मासो यस्यां सा पौर्णमासी। प्रज्ञाऽऽदित्वात् स्वार्थेऽण् / अन्ये तुव्याचक्षतेपूर्णाऽमाश्चन्द्रमा अस्यामिति पौर्णमासी, अण तथैव / प्राकृतत्वात्सूत्रे पुण्णमासिणी। जी०३ प्रति०४ अधि० / एकायाम्, स्था० 5 ठा०३ उ०। पौर्णमास्यःता कहं ते पुण्णमासिणी आहिताति वदेज्जा? तत्थ खलु इमाओ बारस पुण्णमासिणीओ, बारस अमावासाओ पण्णत्ताओ / तं जहा- साविट्ठी 1, पोट्ठवती 2, असोया 3, कत्तिया 4, मग्गसिरी 5, पोसी 6, माही 7, फग्गुणी 8, चेती, विसाही 10, जेट्ठामूली 11, आसाढी 12 / 'ता' इति पूर्ववत् / कथं? केन प्रकारेण केन नक्षत्रेण परिसमाप्यमाना इत्यर्थः, पौर्णमास्य आख्याताः, अत्र पौर्णमासीग्रहणममावास्योपलक्षणं, तेन कथममावास्या अपि आख्याता इति वदेत् / एवमुक्ते भगवानाह-(तत्थेत्यादि) तत्र-तासां पौर्णमासीनाममावास्यानां चमध्ये जातिभेदमधिकृत्य खल्विमा द्वादश पौर्णमास्यो द्वादश चेमा अमावास्याः प्रज्ञप्ताः / तद्यथा-श्राविष्ठी प्रौष्ठपद्वी इत्यादि, तत्र श्रविष्ठा धनिष्ठा, तस्या भवा श्राविष्टी श्रावणमासभाविनी, प्रोष्ठपदाउत्तरभद्रपदा तस्यां भवा प्रौष्ठपदीभाद्रपदमासभाविनी, अश्वयुजि भवा आश्वयुजी अश्वयुग्मासभाविनी, एवं मासक्रमेण तत्तन्नामानुरूपनक्षत्रयोगात् शेषा अपि वक्तव्याः। सम्प्रति यैर्नक्षत्रैरेकैका पौर्णमासी परिसमाप्यते तानि पिपृच्छिषुराहता साविढेि णं पुण्णमासिं कतिणक्खत्ता जोएंति? ता तिपिण णक्खत्ता जोएंति / तं जहा- अभिई, समणो, धणिट्ठा (1) / 'ता' इति पूर्ववत्, श्राविष्ठी पौर्णमासी कति नक्षत्राणि युञ्जन्ति, कति नक्षत्राणि चन्द्रेण सह यथायोगं संयुज्य परिसमापयन्ति? भगवानाह-(ता तिणि इत्यादि) 'ता' इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्तित्रीणि नक्षत्राणि चन्द्रेण सह यथायोग संयुज्य परिसमापयन्ति। तद्यथा-अभिजित्, श्रवणो, धनिष्टा च। इह श्रवणधनिष्टारूपे द्वे एव नक्षत्रे