________________ तिरियगई 2321 - अभिधानराजेन्द्रः - भाग 4 तिरियगइ कान्तादूई , प्रातः सूर्यो लोकप्रसिद्धो देवतारूपो भास्करः, तथा जगतस्वभाव्यादाकाशे उत्तिष्ठति उत्पद्यते, स चोत्पन्नः सन् इमं प्रत्यक्षत उपलभ्यमानं मनुष्यलोकं तिर्यकरोति तिर्यक्परिभ्रमति, लोक प्रकाश्यतीत्यर्थः / तिर्यक्कृत्वा पश्चिमे लोकान्ते सायं सान्ध्ये समये आकाशे विध्वंसते। अत्रोपसंहारः-(एगे एवमाहंसु)२।एके पुनरेवमाहुःपौरस्त्याल्लोकान्तादूर्द्ध , प्रातः सूर्यो देवतारूपः सदाऽवस्थायी तथाविधपुराणशास्त्रप्रसिद्ध आकाशे उत्तिष्ठति उद्गच्छति, स चोद्गतः सन् इमं प्रत्यक्षत उपलभ्यमानं मनुष्यलोकं तिर्यक्कृत्या सायं सान्ध्ये समये अधः आकाशमनुप्रविशति, प्रविश्य च अधः प्रत्यागच्छति, अधोलोक प्रका- शयन् प्रतिनिवर्तते इत्यर्थः / तन्मतेन हि भूरियं गोलाऽऽकारा, लोकोऽपि च गोलाऽऽकारतया व्यवस्थितः। इदं च सम्प्रति तीर्थान्तरीयेषु विजृम्भते, ततस्तद्गतपुराणशास्त्रादेतत् सम्यगवसेयम्। अस्य च त्रयो भेदाः / एके एवमाहुः-प्रातः सूत्र आकाशे उद्गच्छति। अपरे आहुः / पर्वतशिरसि / अन्ये आहुः-समुद्रे इति / तत्र प्रथमानामिदं नतमुपन्यस्तम्। अधः प्रत्यागत्य च पुनरप्यवरभुवोऽधो भुवः, पृथिव्या अधोभागेन विनिर्गत्येत्यर्थः / पौरस्त्याल्लोकान्तादूर्ध्वमाकाशे प्रातः सूर्य उद्गच्छति। एवं सर्वदाऽपिद्रष्टव्यम्। अत्रोपसंहारः-(एगे एवमासु) 3 / एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्द्ध प्रातः सूर्यो देवरूपः तथाविधः पुराणप्रसिद्धः पृथिवीकायमध्ये उदयभूधरशिरसि उत्तिष्ठत्युद्गच्छति। सचोत्पन्नः सन्निम मनुष्यलोक तिर्यकरोति, प्रकाशयतीत्यर्थः / तिर्यक कृत्वा पश्चिमे लोकान्ते सायं सान्ध्ये समये सूर्यः पृथिवीकाये अस्तमयभूधरशिरसि (विद्धंसति) विध्वंसमुपयाति / एवं प्रतिदिवसं सकलकाल जगतः / स्थितिः परिभावनीया / अत्रोपसंहारः- (एगे एदमाहसु) 4 / एके पुनरेवमाहुः-पौरस्त्यात् लोकान्तादूर्द्ध प्रातः सूर्यो देवतारूपः सदाऽवस्थायी पृथिवीकाये उदयभूधरशिरसि उत्तिष्ठति उद्गच्छति, स चोद्गतः सन् इमं प्रत्यक्षत उपलभ्यमानं मनुष्यलोकं तिर्यग् करोति, तिर्यक्कृत्वा पश्चिमलोकान्ते सायं सान्ध्ये समये पृथिवीकायमस्तमयभूधरमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति, अधोभागवर्तिनं लोकं प्रकाशयन् प्रतिनिवर्तते। ततः पुनरप्यवरभुवोऽधो भुवः, पृथिव्या अधोभागाद्विनिर्गत इत्यर्थः / पौरस्त्याल्लोकान्तादूर्द्ध प्रातः सूर्यः पृथिवीकाये उदय भूधरशिरसि उत्तिष्ठति-उद्गच्छति, भूतभूगोलवादिनः परं पूर्व आकाशे उत्तिष्ठतीति प्रतिपन्नाः, एते तु पर्वतशिरसीत विशेषः / अत्रैवोपसंहारः-(एगे एवमाहंसु) 5 / एके पुनरेवमाहुः-- पौरस्त्या -- ल्लोकान्तादूर्द्ध प्रातः सूर्योऽप्काये पूर्वसमुद्रे उत्तिष्ठति उत्पद्यते, स चोत्पन्नः सन्निमं प्रत्यक्षत उपलभ्यमानं लोकं तिर्यकरोति, तिर्यग कृत्वा पश्चिमे लोकान्ते सायं सान्ध्ये समये सूर्योऽप्काये पश्चिमस-मुद्रे विध्वंसते, विध्वंसमायाति। एवं सर्वदाऽपि। अत्रोपसंहारः-(एगे एवमाहंसु) 6 / एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्द्ध प्रातः सूर्यः सदाऽवस्थायी पुराणशास्त्रप्रसिद्धोऽप्काये पूर्वसमुद्रे उत्तिष्ठति उद्गच्छति, स चोद्रतः सन्निम लोकं तिर्यक् करोति, तिर्यक् परिभ्रमन्निमं लोकं प्रकाशयतीत्यर्थः / तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं सान्ध्ये समये सूर्योऽप्कायं पश्चिमसमुद्रमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति, अधोभागवर्तिनं लोकं प्रकाशयन् प्रतिनिवर्तते इति भावः / अधः प्रत्यागत्य चावरभुवोऽधः पृथिव्यधोभागाद्विनिर्गत्येत्यर्थः / पौरस्त्या ल्लोकान्तादूर्द्ध , प्रातः सूर्योऽप्काये पूर्वसमुद्रे उत्तिष्ठति उद्गच्छति। एवं सकलकालमपि। अत्रैवोपसंहारः-(एगे एवमाहंसु)७ / एके पुनरेवमाहुः-- पौरस्त्या-ल्लोकान्तादूर्द्ध प्रथमतो बहूनि योजनानि, ततः क्रमेण यहूनि योजनशतानि, तदनन्तरं क्रमेण बहूनि योजनसहस्राणि दूरमूर्द्धमुत्प्लुप्य बुद्ध्या गत्वा, अत्रास्मिन्नवकाशे प्रातः सूर्यो देवतारूपः सदाऽवस्थायी उत्तिष्ठति उद्गच्छति, स चोद्गतः सन् इमं दक्षिणा लोक दक्षिणदिग्भाविनमर्द्धलोकं, दक्षिणलोकस्यार्द्धमित्यर्थः। तिर्यक् करोति, तिर्यक्परिभ्रमन्निम दक्षिणलोकार्द्ध प्रकाशयतीत्यर्थः / दक्षिणं चार्द्धलोकं तिर्यक् कुर्वन् तदेवोत्तरमर्द्धलोकं रात्रौ करोति, ततः स सूर्यः क्रमेणे ममर्द्धलोकम् उत्तरमधलोकं तिर्यक् करोति, तत्रापि तिर्यक्परिभ्रमन् उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थः। उत्तरं चा लोकं तिर्यक्परिभ्रमणेन प्रकाशयन् तदेव दक्षिणमर्द्ध-लोकं रात्रौ करोति, ततः स सूर्य इमौ दक्षिणोत्तरार्द्धलोकौ तिर्यक् कृत्वा भूयाऽपि पौरस्त्याल्लोकान्तादूर्द्ध प्रथमतो बहूनि योजनानि गत्वा, ततः क्रमेण बहूनि योजनशतानि, तदनन्तरं बहूनि योजन-सहस्राणि दूरमूर्द्धमुत्प्लुत्य बुद्ध्या गत्वाऽवास्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति उद्रच्छति। एवं सकलकालम् / अत्रोपसंहारमाह- (एगे एवमाहंसु) 8 / तदेवं परप्रतिपत्तीरुपदश्यं सम्प्रति स्वमतभुप-दर्शयति-(वयं पुण इत्यादि) वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञा-नेन यथावस्थितं वस्तूपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः / तमेव प्रकारमाह-(ता इत्यादि) 'ता' इति पूर्ववत् / जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा, चतुर्विशत्यधिकशतसंख्यान् मण्डलान् परिकल्प्येत्यर्थः / भूयश्च प्राचीनप्रतीचीनाऽऽयतया उदीच्यदक्षिणाऽऽयतया जीवया प्रत्यशया, दवरिकया इत्यर्थः / तत्तन्मण्डलं चतुर्विशतिभागैविभज्य दक्षिणपौरस्त्ये उत्तरपश्चिमे च चतुर्भागमण्डले चतुर्भागे एकत्रिंशदागप्रमाणे एतावति किल चतुरशीत्यधिकमपि मण्डलशतं सूर्य-स्योदये प्राप्यते इति।"चउव्वीसेणं सएणं छित्ता चउब्भागमंडलंसि'' इत्युक्तम्। अस्याः प्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागादूर्ध्वम् , अष्टौ योजनशता-न्युत्प्लुत्य बुद्ध्या गत्वा, अत्रान्तरे प्राती सूर्यो उत्तिष्ठत उद्गच्छतः, दक्षिणपौरस्त्ये मण्डलचतुर्भाग भारतः सूर्य उद्गच्छति, अपरोत्तर-स्मिन् मण्डलचतुगि ऐरावतः सूर्यः / तौ चेवमुद्गतौ भारतैरावतौ सूर्यो यथाक्रममिमौ दक्षिणोत्तरौजम्बूद्वीपभागौ तिर्यक् कुरुतः। किमुक्तं भवति? भारतः सूर्यो दक्षिण पौरस्त्यमण्डलचतुर्भाग उद्गतः सन् तिर्यक् परिभ्रमति, तिर्यक्परिभ्रमन् मेरोदक्षिणभाग प्रकाश-यति। ऐरावतः पुनः सूर्योऽपरोत्तरदिग्विभागे उद्गच्छति, सचोद्रतः सन् तिर्यक्परिभ्रमति, तिर्यक्परिभ्रमन् मेरोरुत्तरभाग प्रकाशयतीति / इत्थं च भारतैरावतौ सूर्यो यदा मेरोदक्षिणोत्तरौ जम्बूद्वीपभागी तिर्यक् कुरुतः, तदैव तौ पूर्वपश्चिमौ जम्बूद्वीपभागी रात्रौ कुरुतः। एकोऽपि सूर्यस्तदा पूर्वभागं पश्चिमभागं वा न प्रकाशयतीत्यर्थः / दक्षिणोत्तरौ च भागौ तिर्यक् कृत्वा ताविमौ पूर्वपश्चिमौ जम्बूद्वीपभागौ तिर्यकुरुतः। इयमत्र भावना-ऐरावतः सूर्यो मेरोरुत्तरभागे तिर्यक्परिभ्रम्य तदनन्तरं मेरोरेव पूर्वस्यां दिशि तिर्यक्परिभ्रमति / भारतः सूर्यो मेरोदक्षिणतस्तिर्यक्परिभ्रम्य तदनन्तरं मेरोरेव पश्चिमे भागे तिर्यक्परिभ्रमतीति। इत्थं च यदा ऐरावतभारतसूयौं यथाक्रमं पूर्वपश्चिमभागौ तिर्यक् कुरुतः, तदेव दक्षिणोत्तरी जम्बूद्वीपभागौ रात्री कुरुतः / एकोऽपि सूर्यस्तदा दक्षिणभागमु