________________ तित्थयरणाम 2313 - अभिधानराजेन्द्रः - भाग 4 तित्थयरत्त प्रवर्तयति / यदागमः... "तित्थं भंते! तित्थं, तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थकरे, तित्थे पुण चाउवन्ने समणसंघे पढमगणहरे था।'' इति परममुनिप्रणीतधर्मतीर्थस्य प्रवर्त्तयितृपदमवाप्नोति, तत्तीर्थकरनाम इत्यर्थः / (46) कर्म०१ कर्म०। ननु केवलज्ञानावाप्ती कृतकृत्यो भवान् किमिति धर्मदेशनायां प्रवर्तत इत्याशकायामाहवीतरागोऽपि सद्वेद्यतीर्थकृन्नामकर्मणः। उदयेन तथा धर्मदेशनायां प्रवर्त्तते / / 1 / / वीतरागोऽपि विगताभिष्वङ्गोऽपि, सरागः किल प्रवर्तत इति शब्दार्थः / सद्वद्य च सातवेदनीयं, तीर्थकृन्नाम च सद्वेद्यतीर्थकृन्नाम्नी, ते एव कर्म सद्वेद्यतीर्थकृन्नाभकर्म / अथवा-सता शोभनेन धर्मदेशनाऽऽदिना प्रकारेण यद्वेद्यते तत्सद्वेद्यं, तच तीर्थकृन्नामकर्म च, तस्य, उदयेन विपाकेन्न तथा तेन प्रकारेण समवसर–णाऽऽदिश्रीसमनुभवलक्षणेन, धर्मदेशनाया कुशलानुष्ठानप्रज्ञापनायां, प्रवर्तते व्याप्रियते इति // 1 // हा०३१ अष्ट०। सम्म०। जी०। ननु सूत्रकर्तुः परमाऽपवर्गप्राप्तिः, अपरं सत्त्वानुग्रहः, तदर्थ-प्रतिपादकस्याऽर्हतः किं प्रयोजनमिति चेत्? उच्यते-न किशित, कृतकृत्यत्वाद्भगवतः / प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्? न / तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्। उक्तं च- 'तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाए उ।" इति। श्रोतृणामनन्तरं प्रयोजनं विवक्षिताऽध्ययनार्थपरिज्ञानं, परं निःश्रेयसं पदं, विवक्षिताध्ययनसम्यगावगमतः संयमः, संयम-प्रवृत्त्या सकलकर्मक्षयोपपत्तेः / जी०१ प्रति० "ज्ञानिनो धर्म-तीर्थस्य, कर्तारः परमं पदम् / गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः" ||1|| (इत्यन्यदीयमतम्) स्था०१ ठा०। आ० म० / पं०सं०। उत्ता (तीर्थकृन्नामबन्धहेतवः 'तित्थयर' शब्दे 2264 पृष्ठे निरूपिताः) तित्थयरणामगोयकम्म न०(तीर्थकरनामगोत्रकर्म) तीर्थकरत्व-- निबन्धनं नाम तीर्थकरनाम, तच गोत्रं च कर्मविशेष एवेत्येक-बद्भावात् तीर्थकरनामगोत्रम् / अथवा-तीर्थकर इति नामगोत्रम-भिधानं यस्य तत्तीर्थकरनामगोत्रम्। तीर्थकरनामाऽऽख्ये नामक-भेदे, स्था०। समणस्स भगवओ महावीरस्स तित्थंसि नवहिं जीवे हिं तित्थकरनामगोयकम्मे निव्वत्तिए / तं जहा-(श्रेणिका राजा 1, सुपाश्चो वर्द्धमानस्वामिपितृव्यः 2, उदायी कूणि-कपुत्रः श्रेणिकपात्रः 3) सेणिएणं, सुपासेणं, उदाइणा, पुट्टलेणं अणगारेणं, दढाउणा, संखेणं, सयएणं, सुलसाए सावियाए, रेवईए। एसणं अञ्जो कण्हे वासुदेवे रामे बलदेवे उदए पेढालपुत्ते पुट्टिले सयए गाहावई दारुए नियंठे सचई य णियंठीपुत्ते सावियबुद्धे अम्मडे परिवाए, अज्जा विणं सुपासा पासावचेज्जा आगमेस्साए उस्सप्पिणीए चाउज्जामं धम्मं पन्नवित्ता सिज्झिहिंति०जाव अंतं काहिति / स्था०६ ठा०। तित्थयरणिग्गमतव न०(तीर्थकरनिर्गमतपस) स्वनामख्यात चित्रतपसि, पञ्चा०। तत्र तीर्थकरनिर्गमतपः प्रतिपादयंस्तदाहतित्थयरणिग्गमो खलु, ते जेण तवेण णिग्गया सव्वे / ओसप्पिणीऍ सो पुण, इमीऍ एसो विणिद्दिट्ठो।।६।। तीर्थकरैर्निर्गमे गृहवासाद्यत्कृतं तपस्तत्तीर्थकरनिर्गमं तपः / खलुरलङ्कार। तन कीदृशमित्याह-तेतीर्थकरा येन तपसा निर्गता गृहवासात्सर्वेऽवसर्पिण्याम् (सो पुण त्ति) तत्पुनस्तपोऽस्यां वर्तमानायाम् (एसो त्ति) एतद् वक्ष्यमाणम्। (विणिद्दिट्ठो त्ति) उक्तमिति गाथार्थः / / 6 / / एतदेवाऽऽहसुमइ त्थ णिचभत्तेण णिग्गओ वासुपुज्जों (जिणों) चउथेणं। पासो मल्ली वि य अट्ठमेण सेसा उछठेणं / / 7 / / सुमतिः पञ्चमजिनः। "त्थ" इति पादपूरणे निपातः। नित्यभक्तेनानवरतभोजनेन, अविहितोपवास इत्यर्थः। निर्गतो गृहवासान्निष्क्रान्तः / तथा वासुपूज्यो द्वादशो जिनोऽर्हन् चतुर्थेनैकोपवासरूपेण। पार्श्वस्त्रयोविशतितमः, मल्लिरेकोनविंशतितमः, अष्टमेनोपचासत्रयरूपेण। शेषास्तु विंशतिः पुनः षष्ठेनोपवासद्वयरूपेणेति गाथाऽर्थः / / 7 / / (एतदेव 'तित्थयर' शब्दे 2277 पृष्टे निष्क्र मणतपःप्ररूपणावसरे व्याख्यातम्) एतद्विधानविधिमाह-- उसभाइकमेणेसो, कायव्वो ओहओ सइ बलम्मि। गुरुआणापरिसुद्धो, विसुद्धकिरियाएँ धीरेहिं / / 6 / / ऋषभाऽऽदिक्रमेण नाभयनिर्गमाऽऽद्यानुपूर्व्या, एष तीर्थकरनिर्गमः, कर्तव्यो विधेयः, ओघतः सामान्येनोत्सर्गेणेत्यर्थः / सति विद्यमाने, बले शक्ती, तथा विधवलाभावे पुनर्व्यतिक्रमणकरणेऽपि न दोष इति भावः। गुज्ञिया परिशुद्धो निर्दोषस्तत्संपादनाद् गुर्वाज्ञापरिशुद्धः / तथाविशुद्धक्रिययाऽनवद्यानुष्टानेन, धीरैः सात्त्विकैरिति गाथार्थः / / 8 / / इहेव मतान्तरमाहअण्णे तम्मासदिणेसु वेंति लिंगं इमस्स भावम्मि। तप्पारणसंपत्ती, तं पुण एवं इमेसिं तु || अन्ये अपरे सूरयः, तेषामृषभाऽऽदिजिननिर्गमतपसां ये मासाः प्रतीताः, दिनानि च तिथयः, तानि तन्मासदिनानि, तेषु, न मासान्तरतिथ्यन्तरेपु, बुदते तीर्थकरनिर्गमतपः। तथाहि ऋषभस्वामिनो निष्क्रमणतपोऽङ्गीकृत्य चैत्रमासबहुलाष्टमीदिनएव षष्ठ कार्य, वर्द्धमानस्वामिनश्च मार्गशीर्षबहुलदशमीदिन एवेति / एव-मन्येषामपीति / तथा लिङ्ग लक्षणम, अस्य ऋषभाऽऽदिनिर्गमतपसः, भावे संसिद्धी, तेषामृषभाऽऽदीनां यस्य यत्पारणं भोजनमासीत्तस्य संपत्तिः प्राप्तिस्तत्पारणसंपत्तिः, तत्पुनः पारणकमेतद्वक्ष्यमाणमेषामृषभाऽऽदीनाम् / तुशब्दः पूरणे। इति गाथार्थः / / 6 / / पशा०१६ विव01 ('उसह' शब्दे द्वितीयभागे 1133 पृष्ठ यावता कालेन भिक्षा लब्धा, यच पारणकमासीत तन्निरूपितम्) तित्थयरत्त न०(तीर्थकरत्य) अर्हत्त्वे, यो०वि० / आ०म०। (तीर्थकरत्वहेतवः 'तित्थयर' शब्देऽनुपदमेव 2264 पृष्ठे व्याख्याताः)