________________ जयघोस 1421 - अभिधानराजेन्द्रः - भाग 4 जयघोस जो न हिंसइ तिविहेणं, तं वयं बूम माहणं // 23 // हे ब्राह्मण ! तं वयं ब्राह्मणं ब्रूमः / तम् इति कम् ? यस्त्रसान् प्राणान् पुनः स्थावरान् संग्रहेण समासेन संक्षेपेण विज्ञाय त्रिविधेन मनोवाकायेन करणकारणानुमतिभेदेन नवविधेन न हन्ति, त ब्राह्मणं वच्म इति भावः / / 23 / / कोहा वा जइ वा हासा, लोहा वा जइ वा भया। मुसं न वयई जो उ, तं वयं बूम माहणं // 24|| हे विजयघोष ! यः क्रोधात्, यदि वा अथवा हासात्, वा अथवा लोभात्, अथ भयात् मृषाम् असत्यवाणी न वदति, तं वयं ब्राह्मणं ब्रूमः // 24|| चित्तमंतमचित्तं वा, अप्पं वा जदि वा बहु। न गिण्हइ अदत्तं जे, तं वयं बूम माहणं // 24 // हे ब्राह्मण ! यश्चित्तमन्तं सचित्तम् / अथवा-अचित्तं प्रासुकम् अल्पं स्तोकम्, यदि वा बहुप्रचुरम् अदत्तं दायकेन अनर्पित स्वयमेव नगृह्णाति तं वयं ब्राहाणं वदामः / / 25 / / / दिव्वमाणुस्सतेरिच्छं, जो ण सेवइ मेहुणं। मनसा कायवक्केणं, तं वयं बूम माहणं // 26|| पुनर्यो दिव्यमानुष्यतिरश्चीनं मैथुनं मनसा कायेन वचसा कृत्वा न / सेवते। वयं तं ब्राहाणं वदामः // 26 // जहा पोमं जले जायं, नोवलिप्पइ वारिणा। एवं अलित्तं कामे हिं, तं वयं बूम माहणं / / 27 / / हे ब्राह्मण ! पुनस्तं वयं ब्राह्मणं वदामः / तं कीदृशम् ? (एवं) अ-मुना प्रकारेण अनेन दृष्टान्तेन कामैः अलिप्तं भागैः असंलग्रं येन दृष्टान्तेन यथा पद्म जले जातं परं तत् पद्मं वारिणा न उपलिप्यते जलं त्यक्त्वोपरि तिष्ठति तथा भोगैरुत्पन्नोऽपि भोगैरलिप्तो यस्तिष्ठति स ब्राह्मणो ज्ञेयः // 27 // अलोलुयं मुहाजीवी, अणगारं अकिंचणं / असंसत्तं गिहत्थेसु, तं वयं बूम माहणं // 28|| मूलगुणमुक्त्वा उत्तरगुणमाह-पुनर्वयं तं ब्राह्मणं ब्रूमः / कीदृशं तं ब्राह्मणम् ? अलोलुपम् आहारादिषु लाम्पट्यरहितम्। पुनः कीदृशम्? मुधाजीविनम् अज्ञातगृहेषु आहारादि गृहीत्वा आजीविकां कुर्वाण संयमजीवितव्यधारकम् इत्यर्थः / पुनः कीदृशम्? गृहस्थेषु असंसक्तं गृहस्थ प्रतिबन्धरहितम् // 28 // जहित्ता पुय्वसंजोग, नातिसंगे य बंधवे / जो न सज्जइ भोगेसु, तं वयं बूम माहणं // 26 // पुनस्तं वयं ब्राह्मणं वदामः / तमिति कम् ? यो ज्ञातौ स्वकीयगोत्रे च पुनः सङ्गे स्वसुरादिसंबन्धे पुनर्बान्धवे पूर्वसंयोगं मातापित्रादि-स्नेहं त्यक्त्वा पुनरेतेषु पूर्वोक्तेषु न स्वजति रागासक्तो न भवति। तंवयं ब्राह्मणं वदामः // 26 // पसुवंधा सव्ववेया, जटुं च पावकम्मुणा। न तं तायंति दुस्सीलं, कम्माणि वलवंतिह।।३०।। भो विजयघोष ! सर्ववेदाः पशुबन्धाः वर्तन्ते पशूना बन्धो विनाशाय नियन्त्रणं यैस्ते पशुबन्धाः केवलं वेदाः पशुहननहेतवो वर्तन्ते / न तु मोक्षहेतवः / हिंसायाः प्ररूपकत्वात् यतो हि वेदवा-क्यभिदं श्रूयताम् "भूतिकामो वायव्यां दिशि श्वेतं छागमालभेत'' इत्यादिपशुबन्धे हेतुभूतं वेदवाक्यं च पुनः (जट्ठ इति) इष्ट यजनं यज्ञः पापकर्मणामुत्पद्यते तत् इष्ट पापकर्मणा पापकारणपशुबन्धाद्यनुष्ठानेन तं वेदानाम् अध्येतारं यज्ञकर्तारं वा न जायन्ते यज्ञकर्तारं वा दुःशीलं दुराचारं पापशास्त्राणां पठनेन पापकर्मकरणेन दुष्टाचारम् इह कर्माणि बलवन्ति वर्तन्ते दुष्टकर्माणि बलेन पापकर्मकरि नरकं नयन्ति। अतः कारणात् एतस्मात् यागात् ब्राह्मणः पात्रभूतोऽस्ति। किं तु अनन्तरोक्तगुणवान् एव ब्राह्मण इति भावः // 30 // न वि मुंडिएण समणो, न ओंकारेण बंभणो। न मुणीऽरन्नवासेणं, कुसचीरेण न तावसो // 31|| हे विजयघोष ! मुण्डितेन श्रमणो निर्ग्रन्थो न स्यात् / ओङ्कारेण ऊँ भूर्भुवः स्वस्तीत्यादिना ब्राहाणो न स्यात् / तथा-अरण्यवासेन मुनि! च्यते / कुशो दर्भस्तन्मयं चीरं उपलक्षणत्वाद् वल्कलं कुशचीर तेन कुशचीरेण कुशोपलक्षितवल्कलवस्त्रेण तापसो न भवेत्॥३१॥ समयाए समणो होइ, बम्भचेरेण बम्भणो। नाणेण य मुणी होई, तवेण होइ तावसो / / 32 / / (समया) समयत्वेन शत्रुमित्रयोरुपरि समानभावेन श्रमणो भव--ति। ब्रह्मचर्येण ब्राह्मणो भवति, ब्रहा पूर्वोक्तम् 'अहिंसासत्यचौर्याभावामैथुननिर्लोभरूपं तस्य ब्राह्मणश्चरणमङ्गीकरणं ब्रह्मचर्य तेन ब्राह्मण उच्यते, ब्रह्मत्वयुक्तो ब्राह्मण इत्यर्थः / ज्ञानेन मुनिर्भवति मन्यते जानाति हेयोपादेयविधी इति मुनिः। स च ज्ञानेनैव स्यात्। तथा तपसा द्वादशविधन तापसो भवति / / 3 / / कम्मुणा बम्भणो होइ, कम्मुणा होइ खत्तियो। वयसो कम्मुणा होइ, सुद्दो हवइ कम्मुणा / / 33 / / कर्मणा क्रियया ब्राह्मणो भवति, "क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा / ज्ञानविज्ञानमास्तिक्यमेतत् ब्राह्मणलक्षणम् / / 1 / / " अनया क्रियया लक्षणभूतया ब्राह्मणः स्यात् / क्षत्रियः शरणागतत्राणलक्षणक्रियया क्षत्रिय उच्यते, न तु केवलं क्षत्रियकुले जातिसमुत्पन्ने सति शस्त्रबन्धनत्वेनैव क्षत्रिय उच्यते।एवं वैश्योऽपिकर्मणा क्रिययाएव स्यात् कृषिपशुपाल्यादिक्रियया वैश्य उच्यते / कर्मणा एव शूद्रो भवति शोचनादिहेतुप्रेषणभारोद्वहनजलाद्याहरणचरणमर्दनादिक्रियया शूद्र उच्यते / अत्र ब्राह्मणलक्ष्णावसरे अन्येषां वर्णत्रयाणां लक्षणाविधानं व्याप्तिदर्शनार्थम् // 33 // एए पाउकरे बुद्धे, जेहिं होइ सिणायओ। सव्वकम्मविणिम्मुक्कं , तं वयं बूम माहणं // 34 // बुद्धो ज्ञाततत्त्वः श्रीमहावीरः एतान् अहिंसाद्यर्थान प्रादुरकार्षीत् प्रकटी चकार / यैर्गुणैः कृत्वा सर्वकर्मविनिर्मुक्तो भूत्वा स्नातको भवति केवली भवति। प्राकृतत्वात् प्रथमास्थाने द्वितीया। तम् एतादृशगुणयुक्तं स्नातकं वा वयं ब्राह्मणं वदामः॥३४॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा / ते समत्था वि उद्धत्तुं, परं अप्पाणमेव य॥३५॥