________________ जयघोस 1420 - अभिधानराजेन्द्रः - भाग 4 जयघोस (तर्हि इति) तत्र यज्ञे द्विजो विजयघोषः प्राञ्जलिपुटो बद्धाञ्जलिः सन्, तं महामुनिं पृच्छति-कीदृशो द्विजः? सपरिषत् बहुभिर्मनुष्यैः सहितः। पुनः स द्विजः कीदृशः सन्? तस्य साधोराक्षेपं प्रश्नस्तस्य प्रमोक्ष प्रतिवचनमुत्तरम् (अचंयतो इति) दातुम् अशक्नुवन् प्रश्नस्योत्तरं दातुमसमर्थः सन् दातुमित्यध्याहारः / / 13 / / वेयाणं च मुहं बूहि, बूहि, जन्नाणजं मुहं। नक्खत्ताण मुहं बूहि, जं च धम्माण वा मुह / / 14 / / हे महामुने ! त्वमेव वेदानां मुखं ब्रूहि ? पुनर्यत् यज्ञानां मुखं तन्मे ब्रूहि? पुनर्नक्षत्राणां मुखं ब्रूहि? पुनर्यत् धर्माणां मुखं तन्मे ब्रूहि / / 14 / / जे समत्था समुद्धत्तुं, परं अप्पाणमेव य / एयं मे संसयं सव्वं, साहू कहसु पुच्छिओ / / 15 / / पुनर्ये पुरुषाः परं, च पुनरात्मानमपि संसारात् उद्धर्तु समर्थाः सन्ति एतन्मे मम शंसयविषयं वेदमुखादिकम् अस्ति। हे साधो ! त्वं मया पृष्टः सन् सर्वं कथयस्व / / 15 // इत्युक्ते पुनराहअग्गिहोत्तमुहा वेया, जन्नट्ठी वेयसा सुहं। नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं / / 16 / / हे विजयघोष ! वेदा अग्निहोत्रमुखाः, अग्निहोत्र मुखं येषां तेअग्निहोत्रमुखाः वेदानां मुखमग्निहोत्रम् / अग्निहोत्रं हि अग्निकारिका, सा च इयम्"कर्मेन्धन समाश्रित्य, दृढा सद्भावनाहुतिः / धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका / / 1 // " इत्यादि यज्ञविधि-विधायिका कारिका गृह्यते / वेदानां यज्ञानां एषा एव कारिका मुखं प्रधानम् / अस्याः कारिकायाः अर्थ:-कमा णि इन्धनानि कृत्वा उत्तमा भावना आहुतिविधया धर्मध्यानाग्नौ दीक्षितेन इयम् अग्निकारिका विधेया पुन ब्राह्मण ! विजयधोष ! यज्ञार्थी पुरुषो वेदसां यज्ञानां मुखं वर्तत, यज्ञो दशप्रकारधर्मः। "सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् / श्रद्धा धृतिरहिंसा च,सम्बरश्च तथा परः / / 1 / / '' इति दशप्रकारः। स चात्र प्रस्तावादावयज्ञस्तं यज्ञम् अर्थयति अभिलषतीतियज्ञार्थी स एव यज्ञाना मुखं वर्तते। नक्षत्राणां अष्टाविंशतीना मुखं चन्द्रो वर्तते, धर्माणां श्रुतधर्माणां चारित्र धर्माणां काश्यपः आदीश्वरो मुखं वर्तते / धर्माः सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः / / 16 / / जहा चंदं गहाईया, चिटुंति पंजलीउडा। वंदमाणा णमंसंति, उत्तम मणहारिणो / / 17 / / यथा ग्रहादिका अष्टाशीतिग्रहाः नक्षत्राणि अष्टाविंशतिप्रमितानि एवं सर्वे ज्योतिष्का देवाश्चन्द्रं प्राञ्जलिपुटाः बद्धाञ्जलयस्तिष्ठन्ति सेवन्ते / एवं श्रीऋषभदेवम् उत्तम प्रधानं यथा स्यात्तथा मनोहारिणस्त्रिभुवनवर्तिनो भव्याः वन्दमानाः स्तवना कुर्वन्तो नमस्कुर्वन्ति विनये प्रवर्तन्ते इति भावः / / 17 // अजाणगाजण्णवाई, विजामाहणसंपया। मूढा सज्झायतवसा, भासच्छन्ना इवऽग्गिणो।।१८।। हे विजयघोष ! विद्याब्राह्मणसंपदामजानानाः पुनर्यज्ञवादिनस्ते त्वया पात्रत्वेन मन्यन्ते / विद्या आरण्यकब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसंपदो विद्याब्राह्मणसंपदस्तासाम् अज्ञास्सन्तो यज्ञवादिनो वर्तन्ते / चेत् बृहदारण्यकाद्युक्तं यज्ञम् एते जानन्ते, तदा कथं एतादृश यज्ञं कुर्युः / तस्माद् वृथैव वयं याज्ञिकाः इत्यभिमानं कुर्वन्ति / पुनः कथंभूताः? स्वाध्यायतपसा वेदाध्यनोपवासादिना मूढाः बहि: संवृतिमन्तः आच्छादिततत्त्वज्ञानाः। एते के इव? भस्मच्छन्नाः अग्रण इव / रक्षाच्छादित बय इव / इत्यनेन बाह्ये शीतत्वे प्राप्ताः परं कषायाग्निना मध्ये सन्तप्ता एवेति भावः / / 18 / / पुनस्साधुर्वदतिजो लोए वम्भणो वुत्तो, अग्गीव महिओ जहा। सया कुसलसंदिटुं, तं वयं वूम माहणं / / 16 / / हे विजयघोष ! वदं तं ब्राह्मणं ब्रूमः / तं कम्? यो मुनिभिब्राह्मण उक्तः। यदा कैश्चित् अज्ञैः अब्राह्मणोऽपि ब्राह्मणोऽयमित्युक्तस्तं ब्राह्मणं न ब्रूमः इति भावः / कथं भूतः सः? लोकैर्महितः पूजितः सन्दीप्यते। क इव? अग्निरिव। यथाऽग्निः पूजितो घृतादिसिक्तो दीप्यते। कीदृशंतं ब्राह्मणम् ? सदा कुशलसन्दिष्टं कुशलैस्तत्त्वाभिज्ञैः संदिष्टं कथितम्।।१६।। अथ कुशलसंदिष्टस्वरूपमाह-- जो न सज्जइ आगंतुं,पव्वयंतो न सोयइ। रमई अजवयणम्मि, तं वयं वूम माहणं / / 20 / / हे विजयघोष ! तं वयं ब्राह्मणं बूमः / तम् इति किम् ? यः(आगंतु इति बहुभ्यो दिनेभ्यः प्राप्त स्वजनादिकं वल्लभंजनंन स्वजति ना लिङ्गति। अथवा-(आगतुं इति) स्वजनादिस्थानमागत्य स्वजनादिकं न स्वजति न अभिष्वङ्गं करीति, पुनर्यः प्रव्रजन् स्थानात् अन्यत्स्थानं स्थानान्तर गच्छन् अर्थात विच्छुटन् न शोचते न शोक कुरुते / पुनर्य आर्यवचने तीर्थकरवाक्ये रमते तं वयं ब्राह्मणं वदामः / / 20 / / जायरूवं जहाऽऽमिटुं,निद्धत्तमलपावगं। रागदोसभयातीतं, तं वयं वूम माहणं // 21|| हे विजयघोष ! वयं तं ब्राह्मणं ब्रूमः। की दृशम्? जातरूपं स्वर्ण इट आमृष्टं तेजो वृद्धये मनःशिलादिना परामृष्ट कृतवर्णिकावर्द्धनमनेन बाह्यगुण उक्तः / यथाशब्द इबार्थे / पुनः कीदृशं तम् ? (निद्धत्तमलपावर्ग) नितरामतिशयेन ध्मातं मलं किमु तद्रूपं पातक यस्य तन्निर्मातमलपातकम् अनेन च अन्तरो गुण उक्तः। पुनः कथंभूतः? रागद्वेषभयातीत रागः प्रेमरूपः द्वेषोऽप्रीतिरूप स्ताभ्यामतीतो दूरीभूतस्तं वयं विप्रं वदामः // 21 // तवस्सियं किसं दंतं, अवचियमंससोणियं / सुव्वयं पत्तनिव्वाणं, तं वयं वूम माहणं / / 22 / / हे विजयघोष ! वयं तं ब्राह्मण ब्रूमः / तं कं तपस्विनम् / अत एव कृतं दुर्बलम् / पुनः कीदृशम् ? दान्तं जितेन्द्रियम् / पुनः कीदृशम्? अपचितमासशोणितं शोषितमासरुधिरम्। पुनः कीदृशम्? सुव्रतं सम्यक् व्रतानां धर्तारम् / पुनः कीदृशम् ? प्राप्तनिर्वाणं प्राप्तं कषायाग्निशमनेन निर्वाणं शीतिभावं येन स प्राप्तनिर्वाणस्तम् // 22 // तसपाणे वियाणित्ता, संगहेण यथावरे।