________________ जयघोस 1416 - अभिधानराजेन्द्रः - भाग 4 जयघोस जयघोस पुं०(जयघाष) स्वनामख्याते मुनौ, (उत्त०) वाराणस्यां किल द्विजो यमलौ भ्रातरौ जयघोषविजयघोषौ अभूतां तयोरेको जयघोषनामा गङ्गायां स्नातु गतः, कुररसर्पमण्डूकग्रासं दृष्ट्वा प्रव्रजितः / तद्वार्ता चैवम्माहणकुलसंभूओ, आसि विप्पो महाजसो। जायाई जमजण्णम्मि, जयघोसे त्ति नामओ।।१।। ब्राह्मणकुले संभूतः विप्रकुले समुत्पन्नः, 'जयघोष' इति नामतो विप्र आसीत् / अत्र हि यत् ब्राह्मणकुलसंभूतःविप्र आसीत् इत्युक्त तत् ब्राह्मण-जनकादुत्पन्नोऽपि जननीजातिहीनत्वेऽब्राह्मणः स्यात् अतो विप्र इत्युक्तम् / कीदृशो जयघोषः? (जमजण्णम्मि) यमं यज्ञे यायाजी यायजीत्येवंशीलो यायाजी यमाः अहिंसासत्याऽस्त्येयब्रह्मनिर्लोभाः पञ्च, ते एव यज्ञो यमयज्ञस्तस्मिन् यमयज्ञे अति-शयेन यज्ञकरणशीलः अर्थात्पञ्चमहाव्रतरूपे यज्ञे याज्ञिको जातः, यतिर्जात इत्यर्थः // 1 // इंदियग्गामनिग्गाही, मग्गगामी महामुणी। गामाणुगामं रीयंतो, पत्तो वाणारसिं पुरिं / / 2 / / स महामुनिःएकाकी साधुर्गामानुग्रानम् (रीयंतो इति) विचरन् वाराणसी पुरीं प्राप्तः / कीदृशः स महामुनिः? इन्द्रियग्रामनिग्राही इन्द्रियाणां ग्राम समूहम् इन्द्रियपञ्चकं निगृह्णाति मनोजयेन वशीकरोतीति इन्द्रियग्रामनिग्राही, पुनःकीदृशः? स मार्गगामी मार्ग मोक्षं गच्छति स्वयम्, अन्यान् गमयति इति मार्गगामी। वाणारसीए बहिया, उज्जाणम्मिमणोरमे। फासुए सिजसंथारे, तत्थ वासुमुवागए।।३।। स साधुराणस्या बाह्ये, मनोरमे मनोहरे, उद्याने प्रासुके जीवरहिते शय्यासंस्तारके दर्भतृणादिरचिते शयनोपवेशनस्थितौ तत्र (वासं इति) वसतिं कर्तुमुपागतः॥३॥ अह तेणेव कालेणं, पुरीए तत्थ माहणे। विजयघोसे त्ति नामेणं, जन्नं जयइ वेयवी॥३।। अथ अनन्तरं तस्मिन्नेव काले यस्मिन् काले साधुर्वने समागतः तस्मिन्नेव काले तस्यां वाराणस्या पुर्या 'विजयघोष' इति नामा ब्राह्मणो यशं यजति यज्ञ करोति। कीदृशो विजयघोषः? वेदवित् वेदशः / / 4 / / अह से तत्थ अणगारे, मासक्खमणपारणे। विजयघोसस्स जन्नम्मि,भिक्खट्ठा उववट्टिए।।५।। अथ अनन्तरं तत्र विजयघोषस्य यज्ञे स पूर्वोक्तो जयघोषोऽनगारो मासक्षमणस्य पारणे भिक्षाया अर्थ भिक्षायै उपस्थितः॥५॥ समुवट्ठियं तहिं संतं, जायगो पडिसेहए। नहुदाहामि ते भिक्खं, भिक्खू जायाहि अण्णओ॥६॥ तदा याजको यजमानो विजयघोषो ब्राह्मणस्तत्र भिक्षार्थ समु-पस्थितं सन्तं तं साधु प्रतिषिध्यति निवारयति, कथं निवारयतीत्याह-हे भिक्षो ! त्वम् अन्यतोऽन्यत्र याहि (ते) तुभ्यं भिक्षां न ददामि // 6 // जे य वेयविओ विप्पा, जण्णट्ठा य जिइंदिया। जोइसंगविओ जे य, जे य धम्मस्स पारगा / / 7 / / जे समत्था समुद्धत्तुं, परं अप्पाणमेव य / तेसिं अन्नमिणं देयं, भो भिक्खू व्वकामियं ॥चा युग्मम् विजयघोषो वदति-हे भिक्षो ! अस्मिन् यज्ञे इदं प्रत्यक्ष दृश्यमानम् अन्नं सर्वकामिक षट्रससिद्ध तेषां पात्राणां देयं वर्तते तेभ्यो देयमस्ति। न तु तुभ्यं देयं वर्तते। तेषां केषाम्? ये आत्मानं स्वक यमात्मानम् च पुनः,परं परस्यात्मानं समुद्धर्तुं समर्थाः। ये संसार-समुद्रात् आत्मानं तारयितुं समर्थाः परमपि तारयितुं समर्थाः / तेषां प्रदेयमस्ति इति भावः // 7|| पुनः केषां प्रदेयमन्नं वर्तते? ये विप्रा वेदविदो वेदज्ञाः तेषाम् / पुनर्ये यज्ञार्थाः यज्ञ एव अर्थः प्रयोजनं येषां ते यज्ञार्थास्तेषाम्। पुनर्ये जितेन्द्रिया इन्द्रियाणां जेतारस्तेषाम्। पुनर्ये ज्योतिषाङ्ग विदःज्योतिः शास्त्रस्याङ्ग वेत्तारः। यद्यपिज्योतिः शास्त्र वेदस्याङ्गमेवास्ति वेदविद इत्युक्ते आगतम् तथापि अत्र ज्योतिःशास्त्रस्य पृथगुपादानं प्राधान्यख्यापनार्थ तस्मात् एतद्- गुणविशिष्टा ये ब्राह्मणास्तेषां देयमस्ति, पुनर्ये धर्मशास्त्राणां पारगा-स्तेषां देयम् अत्र अन्नं वर्तत, इत्यर्थः / / 8 / / सो तत्थेवं पडिसिद्धो, जायगेण महामुणी। न वि रुट्ठोन वि तुट्ठो, उत्तमट्ठगवेसओ॥६il स महा मुनिर्जयघोषः तत्र यज्ञे(एव) अमुना प्रकारेण विजयघोषण याजकेन यज्ञकारकेण प्रतिषिद्धः सन् निवारितः सन् नापि रुष्टो नापि तुष्टः समभावयुक्तोऽभूत् / कीदृशः स महामुनिः? उत्तमार्थगवेषको मोक्षाभिलाषी // 6 // नऽन्नटुं पाणहेउं वा, न वि निव्वाहणाय वा। तेसिं विमोक्खणट्ठाए, इमं वयणमव्ववी।।१०।। स महामुनिस्तेषां विजयघोषादिब्राह्मणानां विमोक्षणार्थ कर्मबन्धनात् मुक्तिकरणार्थम् इदं वचनम् अब्रवीत्-परम् अन्नपानलाभार्थन अब्रवीत्। एवं ज्ञात्वा न अब्रवीत् येन अहं एभ्य उपदेशं ददामि एते प्रसन्ना मां सम्यग् अन्नपानं ददति इति बुद्ध्या न अब्रवीत् / किं तु तेषां संसारनिस्तारार्थमवदत् / वा अथवा-निर्वाहणाय अपि न वस्त्रपात्रादिकानां निर्वाह एभ्यो मम भविष्यति तेन हेतुना न अब्रवीदिति भावः / / 10|| न विजाणासि वेयमुहं, न वि जन्नाण जं मुहं। नक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं / / 11 / / किम अब्रवीत? इति आह-भो ब्राह्मण ! विजयघोष ! त्वं वेदमुखं न विजानासि / पुनर्यत् यज्ञानां मुखं वर्तते तदपि त्वं न जानासि / पुनर्यत् नक्षत्राणां मुखं तदपि त्वं न जानासि।च पुनर्यद्धर्माणां मुखं वर्तत तदपि त्वं न जानासि // 11 // पुनः स साधुर्विजयघोषं ब्राह्मणं प्रति पृच्छतिजे समत्था समुद्धत्तुं, परं अप्पाणमेव य। ण ते तुम विजाणासि, अह जाणासि तो भण? ||12|| हे विजयघोष ! ये परं च पुनः आत्मानम् / एवं समुद्धर्तु संसारात् निस्तारयितुं समर्थास्तान स्वपरनिस्तारकान्त्वं न जानासि। अथ चेत् त्व जानासि तदा (भण) कथय? 1112 // तस्स खेवपमोक्खं च, अचयंतो तहिं दिओ। सपरिसो पंजलिउमो, पुच्छई तं महामुणिं!|१३॥