SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2306 - अभिधानराजेन्द्रः - भाग 4 तित्थयर रनन्तरमुकानि, या च चतुर्भिरनुयोगद्वारः प्रकाशस्यार्थस्य कथना, चदादेकाथिकानामपि या कथना / एतानि यथा ऋषभाऽऽदयस्त्रयोविंशतिस्तीर्थकरा आख्यातवन्तः, तथा किमेवं भगवान् वर्द्धमानस्याग्यप्याख्याति, किं वाऽन्यथेति? उच्यते-तथैव। ननु ते उच्चतराः, भगवान् वर्द्धमानस्वामी पुनः सप्तरत्निप्रमाणः, ततः कथं तथैवाऽऽख्यानम् ? अत आहधिइसंघयणे तुल्ला, केवलभावे य विसमदेहा वि। केवलनाणं तं चिय, पण्णवणिज्जा य चरमे वि।।२०६।। यथा विषमदेहा अपि तीर्थकृतः धृतिसंहनने केवलभावे च तुल्याः, तथा गरपणायानपितुल्याः। यतश्चरभेऽपि भगवति वर्द्धमानज्ञस्वामिनि तदेव केवलज्ञानं त एव च प्रज्ञापनीया भावाः,ये ऋषभाऽऽदीना, ततः कथंन तुल्ला प्ररूपणा? तत्र यो विशेषस्तमुपदर्शयतिणायऽज्झयणाऽऽहरणा, इसिभासियमो पइन्नगसुया य। एए हुंति अणियया, निययं पुण सेसमुप्पण्णं / / 207 / / ज्ञाताध्ययनेषु यान्याहरणानि दृष्टान्ताः, ते हि केचित्त एव भवेयुर्ये ऋपभाऽऽदिभिरुपन्यस्ताः, केचिदन्यथा, ये प्रत्युत्पन्ना इति। तथा यानि ऋपिभाषितानि, प्रकीर्णकश्रुतानि च, एतान्यनियतानि-कदाचिद् भवन्ति, कदाचिन्न भवन्ति / यानि च भवन्ति तान्यपि कदाचित्तथार्थयुक्तानि, कदाचिदन्यथाऽर्थोपेतानि / शेषं पुनरुत्पन्नं प्रायेण नियतम्। आह-कः पुनरत्र दृष्टान्तः, यथा वर्द्धमानस्वाम्बपि तथैवाऽऽख्यातीति? दृष्टान्तमाहजह सव्वजणवएसुं, एक चिय सगडवत्तिणिपमाणं। विसमाणि य वत्थूणी, सगडाईणं तह णिरुत्ता॥२०८।। यथा शकटाऽऽदीनाम्, आदिशब्दाद गन्त्र्यादिपरिग्रहः / यद्यपि विषमाणि वस्तूनि केषाचिन्महान्ति, केषाञ्चित् क्षुल्लकानि, तथाऽपि सर्वेष्वपि जनपदेषु एकमेव तदा शकटवर्तिन्याः प्रमाणं, सर्वत्राक्षाणां चतुर्हस्तप्रमाणत्वात्। तथा निरुक्तानि, उपलक्षणभेतत्, निक्षेपाऽऽदीनि च प्ररूपणामधिकृत्य तुल्यानि। आह-नन्ववश्य पूर्वरथाना, संप्रतिस्थानां च विस्तरस्यास्ति विशेष एव, महाप्रमाणानां पूर्वमनुष्याणामल्पप्रमाणानामधुना-तनमनुष्याणां विशेपो भवति। तत आहजइ वि य वत्थू हीणा, पुदिवल्लरहेहिं संपयरहाणं / तह वि जुगम्मि जुगम्भी, सहत्थचउहत्थगा अक्खा // 206 / / यद्यपि पूर्वतनरथेभ्यः साम्प्रतरथानां वस्तूनि हीनानि, तथा-ऽपि युगे युगे सर्वत्राऽऽत्महस्तेन चतुर्हस्तका अक्षाः, ततः सर्वेष्वपि जनपदेप्चेक शकटवर्तिन्याः प्रमाणम्। तथा यद्यपि पूर्वकाले महा-प्रमाणा मनुष्याः, संप्रतिकाले त्वल्पप्रमाणाः, तथाऽपि सर्वेषां तदेव केवलज्ञानं, तदेव सहननं, त एव च प्रज्ञापनीया भावा इति तुल्या प्ररूपणा। ननु पञ्चधनुःशतिकप्रनृतीना महान्तीन्द्रियाणि, तेन तेषां प्रभूततरक्षेत्र विषयोपलम्भविशेषोऽपि स्यात्। अत आहपरिमेहँ जइवि हीणा, इंदियमाणाउ संपयनराणं। तह वि य सिं उवलद्धी, खित्तविभागेण तुल्ला उ॥२१०।। पूर्वेभ्यः पूर्वकालभाविभ्यः पुरुषेभ्यो यद्यपि साम्प्रतनराणां सम्प्रतिमनुष्याणामिन्द्रियमानानि हीनानि, तथाप्यात्माङ्गुलमधिकृत्य क्षेत्रविभागे तेषां तुल्या उपलब्धिः / तथाहि-श्रोत्राऽऽदीन्द्रियप्रमा-- जश्रोत्राऽऽदीन्द्रियविषयप्रमाणं चात्माङ्कलतः, तच यथा पूर्वमनुष्याणां द्वादशयोजनाऽऽदिक क्षेत्रप्रमाणम्, तथाऽधुनातनमनुष्याणामपि / तथा चोक्तम्-'सोइदियस्स णं भंते ! केवइए विसए पन्नत्ते? गोयमा! जहन्नेण अंगुलरस असखिजइभागाओ, उक्कोसेण वारसेहितो जोयणेहिं / ' इत्यादि। एवं हीनाधिकशरीरप्रमाणत्वेऽपि केवलेनोपलम्भस्तुल्य एवेति न कश्चिद्दोषः / अन्यच -शरीराऽऽश्रितानीन्द्रियाणि, ततः शरीरप्रमाणविषय, तदाश्रितानामिन्द्रियाणामपि प्रमाणविशेषभावात्तद्विषयक्षेत्रोपलम्भविशेषः / वृ०१ उ०।। (125) प्रकीर्णकवार्ताःतित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी। तिन्ने सुगइगइगए, सिद्धिपहपदेसए वंदे / / 1025 / / तीर्थकरान भगवतोऽनुत्तरपराक्रमानमितज्ञानिनस्तीर्णान् सुगतिगतिगतान सिद्धिपथप्रदेशकान् वन्दे / (आ०म०) ननु तीर्थकरानित्यनेनेव भगवत इति गतं, तीर्थकृतामुक्तलक्षणभङ्गाव्यभिधारात्, ततः किमनेन विशेषणेन? तदयुक्तम् / अस्य नयमतान्तरावलम्बिपरिकल्पिबुद्धाऽऽदितीर्थकरतिरस्कारपरत्वात् / तथाहिनते बुद्धाऽऽदयः स्वस्वदर्शनरूपतीर्थकारिणोऽपि तत्त्ववृत्त्या भगवन्तः, यथोक्त समग्रेश्वर्याऽऽदिगुणकलापायोगा-दिति / (आ०म०) ननु येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव, क्रोधाऽऽदिपरिक्षयोत्तरकालमवश्यममितज्ञानस्य भावात्। सत्यमेतत्। केवलं ये क्लेशक्षयेऽप्यमितज्ञानं नाभ्युपगच्छन्ति। तथा च तद् ग्रन्थः- "सर्व पश्यतु वा मा वा, तत्त्वमिष्ट तु पश्यतु / कीटस ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? ||1 / / '' इत्यादि / तन्म-तव्यवच्छेदफलमिदं विशेषणमित्यदोषः / तद् व्यवच्छेदश्वेवम्-- सर्वभावपरिज्ञानाभावे तत्त्ववृत्त्येकस्याऽपि वस्तुनः परिज्ञानायोगात्, सर्वस्याऽपि यथायोगमनुवृत्तव्यावृत्तधर्मतया सर्वः सह सव्यपेक्षत्वात् / आह च- "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः / सर्वे भावाः सर्वथा येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः / / 1 / / " आचारानेऽप्युत्तम्- "जे एण जाणइ.से सव्वं जाणइ। जे सव्वं जाणइ, से एग जाणइ।" इति / अथवा-ये स्वसिद्धान्ते छदास्थवीतरागारते अनुत्तरपराक्रमा भवन्ति, कषायाऽऽदिशत्रूणामाक्रमणात, न त्वमितज्ञानिनः, केवलज्ञानाभावात् / ततस्तद्वयवच्छेदार्थमिदं विशेषणमिति। (आ०म०) अनेन ये प्राप्ताऽणिमाऽऽद्यष्टविधैश्वर्य स्वच्छाविलसनशीलं पुरुष तीर्ण प्रतिपादयन्ति / तथा च तद ग्रन्थः"अणिमाऽऽद्यष्टविध प्राप्यैश्वर्य कृतिनः सदा / मोदन्ते सर्वभावज्ञास्तीणाः परमदुस्तरम।।१।।'' इत्यादि। तद्व्यवच्छेदमाह। (आ०म०) सिद्धिपथप्रदेशकान, अनेनाने कभव्यसत्त्वोपकारितीर्थकरनामकर्मविपाकोदयसमन्वित भगवता स्वरूपमाह। आ०म०१ अ०१ खण्ड। प्रश्रोत्तराणितीर्थकरा एकस्मिन् समये कति सिद्ध्यन्ति? इति प्रश्ने, उत्तरम् एकस्मिन्समये उत्कर्पतः चत्वारस्तीर्थकराः सिद्धयन्तीति सिद्धपशाशिकाऽऽदावुक्त मस्तीति।८६ प्र०ा सेन०१उल्लाका यथाऽत्र भरते श्रीवीरजन्मः भस्मग्रहः, तथाऽन्य क्षेत्र तीर्थकृतां जन्मः
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy