________________ तित्थयर 2304 - अभिधानराजेन्द्रः - भाग 4 तित्थयर भगवतो वर्द्धमानस्वामिनः षट् त्रिंशत्सहस्राणि / एवमृषभाऽऽदीनां जिनाना यथाक्रममार्थिकासंग्रहः। आ०म०१ अ०१ खण्ड। सर्वसंयतीना संख्याचोआलीसं लक्खा, वायालसहस्स चोसयसमग्गा। अज्जाछक्कं एसो, अजाणं संगहो कमसो॥३४१।। चतुश्चत्वारिंशल्लक्षाणि षट् चत्वारिंशत्सहरीश्चतुःशताधिकः समग्राणि पूर्णाणि आर्याषट्कं च, एष आर्यिकाणां संग्रह इति / प्रव० 16 द्वार। अथ मुनिस्वरूपम्पढमियरवीरतित्थे, रिउजड-रिउपन्न-वक्कजडा (263) प्रथमजिनतीर्थे मुनयः ऋजुजडाः, इतरस्मिन् मध्यमजिनतीर्थे ऋजुप्राज्ञाः , वीरतीर्थे मुनयो वक्रजडाः / सत्त० 136 द्वार / संयतप्रमाणम्चुलसीइंच सहस्सा, एगं च दुवे य तिणि लक्खाई। तिण्णि य वीसहियाई,तीसऽहियाइंच तिन्नेव / / तिन्नि य अड्डाइजा, दुवे य एगं च सयसहस्साइं। चुलसीइं च सहस्सा, विसत्तरं अट्ठसर्व्हि च / / छावडिं चोवडिं, बावहिँ सद्विमेव पन्नासा। चत्तातीसा वीसा, अट्ठारस सोलस सहस्सा / / चोद्दस य सहस्साइं, जिणाण जइसीससंगहपमाणं / भगवत ऋषभस्वामिनश्चतुरशीतिसहस्राणि श्रमणानाम / एकं लक्षमअजितस्य / द्वे लक्षे शम्भवनाथस्य / त्रीणि लक्षाणि अभिनन्दनरय / सुमतेः त्रीणि लक्षाणि विंशतिसहस्राभ्यधिकानि / पद्मप्रभस्य त्रीणि लक्षाणि त्रिशत्सहस्राधिकानि। सुपार्श्वस्य त्रीणि लक्षाणि। चन्द्रप्रभस्य अतृतीयानिलक्षाणि / सुविधलक्षे। शीतलस्य एक लक्षम्। श्रेयांसस्य चतुरशीतिः श्रमणानां सहस्राणि। वासुपज्यस्य द्वासप्ततिः सहस्राणि / विमलस्य अष्टषष्टिः सहस्राणि। अनन्तजिनरय षट्षष्टिः सहस्राणि / धर्मनाथस्य चतुःषष्टिः सहस्राणि / शान्तिनाथस्य द्वाषष्टिः सहस्त्राणि / कुन्थुनाथस्य षष्टिः सहस्राणि / अरनाथस्य पञ्चाशत्सहस्राणि / मल्लिनाथस्य चत्वारिंशत्सहस्राणि / मुनिसुव्रतस्वामिनस्त्रिंशत्सहस्राणि / नमिस्वामिनो विंशतिः सहस्राणि / अरिष्टनेमेरष्टादश सहस्राणि / पार्श्वनाथस्य षोडश सहस्राणि / भगवतो महावीरस्य चतुर्दश सहस्राणि / एतद्यतिशिष्यसंग्रहप्रमाणं जिनानामृषभाऽऽदीनां यथाक्रममवसातव्यम्। आ०म०१ अ०१खण्ड। एतेषां सर्वसङ्ख्यामीलनेन यद् भवति तदाहअट्ठावीसं लक्खा, अडयालीसं च तह सहस्साई। सव्वेसिं पिजिणाणं, जईणं माणं विणिघि8 / / 336 / / / (अट्ठावीसमित्यादि) अष्टाविंशतिर्लक्षाणि अष्टचत्वारिंशच तथा सहस्राणि सर्वेषामपि जिनानां संबन्धिनां यतीनां मानं परिमाणं विनिर्दिष्ट विनिश्चितमेतच ये श्रीजिनेन्द्रर्निजकरकमलेन दीक्षितास्तेषामेवैकत्र पिण्डिततापरिमाणं, न पुनर्गणधराऽऽदिभिरपि ये दीक्षिताः, तेषामतिबहुत्वादिति। प्रव०१७ द्वार। तीर्थकृतां संयमनिरूपणम्..............सं-जमो य पढमंतिमाण दुविगप्पो। सेसाणं सामइओं, सत्तरसंगो य सव्वेसिं / / संयमोऽपि सामायिकाऽऽदिरूपः प्रथमान्तिमजिनयोद्धिविकल्पः। इत्वर | सामायिक, छंदोपस्थापनीयं चेत्यर्थः / शेषाणां मध्यमानां द्वाविंशतितीर्थकृतां यावत्कथिकमेवेक सामायिक, न शेष छेदोपस्थापनाऽऽदि, तथाकल्पत्वात् / सप्तदशाङ्गः सप्तदशभेदः, चः पुनरर्थे / सर्वेषां तीर्थकृतामभूत् / ते च सप्तदश भेदा अमी- 'पञ्चास्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः / दण्डत्रयविरतिश्चेतिसंयमः सप्तदशभेदः ||1||" आ०म०१अ०१ खण्ड। (117) इदानी परित्यागद्वारमाहसंवच्छरेण होही, अभिनिक्खमणं तु जिणवरिंदाणं / तो अत्थसंपयाणं, पवत्तए पुव्वसूरम्मि।। संवत्सरेण जिनवरेन्द्राणामभिनिष्क्रमण भविष्यति, ततोऽर्थ-संप्रदानमर्थस्य सम्यक् तीर्थप्रभावनाबुद्ध्या, अनुकम्पाबुद्ध्या च. न तु कीर्तिबुद्ध्या , प्रदान जनेभ्यः प्रवर्तत पूर्वसूर्ये ,पूर्वाह्न इत्यर्थः। कियत्प्रतिदिवसं दीयते? इत्याहएगा हिरण्णकोडी, अद्वैव अणूणगा सयसहस्सा। सूरोदयमाईयं, दिजइ जा पायरासाओ / / एका हिरण्णस्य कोटी अष्टौ चाऽन्यूनानि परिपूर्णानि शतसहस्राणि लक्षाणि इति प्रतिदिवस दीयते / कथं दीयते? इत्याह-सूर्योदय आदौ यस्यदानस्य तत्सूर्योदयाऽऽदि, क्रियाविशेषणभेतत्। सूर्योदयादारभ्य दीयते इति भावः / कियन्त कालं यावदित्याह-प्रातराशात्-प्रातः प्रभाते अशनमाशः, प्रातराशः, तस्मात्तमभिव्याप्य, प्रातर्भोजनकालं यावदिति भावः। यथा दीयते तथा प्रतिपादयन्नाहसिंघामगतिगचउक्क-चच्चरचउम्मुहमहापहपहेसु। दारेसु पुरवराणं, रत्थामुहमज्झकारेसु / / शृङ्गाटक नाम-शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोणं स्थानम्, त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं चतुष्पथसमाहारः, चत्वरं बहुरथ्यापातस्थानम्, चतुर्मुखं यस्माचतसृष्वपि दिक्षु पन्थानो निस्सरन्ति, महापथो राजपथः, शेषः सामान्यः पन्थाः पथः। ततएतेषां द्वन्द्वः। तथा पुरवराणां द्वारेषु, प्रतोलीष्वित्यर्थः / तथा-रथ्याना मुखानि-प्रवेशाः, मध्यकारा मध्य एव, काराशब्दस्य स्वार्थिकत्वात्, रथ्यामुखमध्यकाराः तेषु। किमित्याहवरवरिया घोसिज्जइ, किमिच्छियं दिजए बहुविहीए। सुरअसुरदेवदाणव-नरिंदमहियाण निक्खमणे / वरं याचध्व वर याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते / सा वरवरिका पूर्व शृङ्गाटकाऽऽदिषु घोष्यते / ततः कः किमिच्छति?-यो यदिच्छति तस्य तदान समयपरिभाषयैव किमिच्छिकमुच्यते, किमिच्छिकं यथा भवति एवं दीयते। व? इत्याहसुरैर्वैमानिकज्योतिष्कैरसुरैर्भवनपतिव्यन्तरैः, देवदान-वनरेन्ट्रैरिति। इन्द्रग्रहणं प्रत्येकमभिसंबध्यते-देवेन्द्रैः शक्राऽऽदिभिः, दानवेन्द्रैश्चमरेन्द्राऽऽदिभिः, नरेन्द्रैश्चक्रवर्तिप्रभृतिभिर्महितानां भगवतां तीर्थकृता निष्क्रमणे इति। साम्प्रतमेकैकेन तीर्थकृता कियद्दव्यजातं संवत्सरेण दत्त मित्येतत्प्रतिपादयन्नाहतिण्णेव य कोडिसया, अट्ठासीयं ति हों ति कोडीओ।