________________ तित्थयर 2305 - अभिधानराजेन्द्रः - भाग 4 तित्थयर असिइंच सयसहस्सा,एवं संवच्छरे दिण्णं / / त्रीण्येव कोटिशतानि, अष्टाशीतिश्च भवन्ति कोटयः, अशीतिश्व शतसहस्राणि 3888000000, एतावत्प्रमाणमेकैकेन तीर्थकृता संवत्सरे दत्तम् / एतश्च प्रतिदिनदेयं त्रिभिः षष्ट्यधिकैर्वासरशतैर्गुणयित्वा परिभावनीयम्। आ०म०१अ०१ खण्ड। ('दाण'- 'महादाण' शब्देऽस्य महादानत्वं वक्ष्यते, हारिभद्राष्टके, पत्रचाशकेचाऽस्य प्रयोजनं फलं च) (118) श्राविकाभानमाहपढमस्स पंच लक्खा, चउपन्न सहस्स तयणु पण लक्खा। पणयालीस सहस्सा, छ लक्ख छत्तीस सहसा य॥३७०।। सत्तावीस सहस्सा-ऽहिय लक्खा पंच पंच लक्खा य। सोलससहस्सअहिया, पण लक्खा पंच उ सहस्सा // 371 / / उदरिं चउरो लक्खा, धम्मो जा उवरि सहस तेणवई। इगनवई इगहत्तरि, अडवन अडयाल छत्तीसा॥३७२।। चउवीसा चउदस ते-रसेव तत्तो तिलक्ख जा वीरो। तदुवरि तिनवइ इगासी, विसत्तरी सयरि पन्नासा // 373 / / अडयाला बत्तीसा, इगुणचतऽट्ठारसेव य सहस्सा। सढीण माणमेयं, चउवीसाए जिणवराणं // 374 / / तत्र प्रथमस्याऽऽदिजिनस्य श्राविकाणां पञ्च लक्षाणि चतुः पञ्चाशत्सहयाधिकानि / तदन् प्रथमतीर्थकरादनन्तरम् अजितस्य श्राविकाणां पञ्च लक्षाणि पञ्च चत्वारिंशत्सहस्राधिकानि / श्रीशंभवस्य षट् लक्षाणि षट् त्रिंशत्सहस्राणि च / अभिनन्दनस्य सप्तविंशतिसहस्राधिकानि लक्षाणि पञ्च / सुमतिजिनस्य लक्षाणि पञ्चषोडशसहस्राधिकानि / श्रीपद्मप्रभस्य लक्षाणि पञ्च पशसहरत्राधिकानि / इत उपरि पद्मप्रभादारभ्य धर्मजिनं यावत् श्राविकाणां चत्वारि लक्षाणि / प्रत्येकमुपरि च त्रिनवत्यादीनि सहस्राणि / कोऽर्थः?-सुपार्श्वस्य श्राविकाणां लक्षचतुष्टयं त्रिनवतिसहस्राधिकम्। चन्द्रप्रभस्य लक्षचतुष्टयमेकनवतिसहस्राधिकम्।सुविधेर्लक्षचतुष्टयमेकसप्ततिसहस्राधिकम्। शीतलस्य लक्षचतुष्टयमष्ट-पञ्चाशतसहस्राधिकम्। श्रेयांसस्यलक्षचतु यमष्टचत्वारिंशत्सहस्राधिकम् / वासुपूज्यस्य लक्षचतुष्टयं षट् त्रिंशत्सहस्राधिकम्। विमलस्य लक्षचतुष्टयं चतुर्विशतिसहस्राधिकम्। अनन्तस्य लक्ष--चतुष्टयं चतुर्दशसहस्राधिकम् / धर्मस्य लक्षचतुष्टय त्रयोदशसहस्राधिकम् / ततः श्रीशान्तिनाथादारभ्य प्रत्येक लक्षत्रयं श्राविकाणां यावन्महावीरम्, तदुपरि च त्रिनवत्यादीनि सहस्राणि / तत्र श्रीशान्तेलक्षत्रयं त्रिनवतिसहस्राधिकम्। कुन्थोर्लक्षत्रयमेकाशीतिसहसाधिकम्। अरजिनस्य लक्षत्रयं द्विसप्ततिसहस्राधिकम् / मल्लेर्लक्षत्रयं सप्ततिसहस्राधिकम् / मुनिसुव्रतस्य लक्षत्रयं पञ्चाशत्सहस्राधिकम् / श्रीनमेर्लक्षत्रयमष्टचत्वारिंशत्सहस्राधिकम्। श्रीनेमेर्लक्षत्रयं षट्त्रिंशत्सहस्राधिकम् / श्रीपार्श्वस्य लक्षत्रयमेकोनचत्वारिंशत्सहस्राधिकम् / वीरजिनस्य च लक्षत्रयमष्टादशसहसैरधिकम् / श्राविकाणां मानमेतत् चतुर्विशतिजिनानाम्। प्रव० 25 द्वार। सर्वसंख्याइगकोडी पणलक्खा, अडतीससहस्स सडीओ।।३४६।। सर्वेषां जिनानां पिण्डीकृता एका कोटिः, पञ्च लक्षाणि, अष्टत्रिं- शतसहस्राणि श्राविकाः 10538000 / सत्त० 115 द्वार। (116) उत्कृष्टजघन्याभ्यां विचरतां तीर्थकृता संख्या, तथा त्कृएजन्याभ्या तेषां जन्मसंख्या चाऽऽहसचरिसयमुक्कोसं, जहन्न वीसा य दस य विहरंति। जन्म पइ उकोसं, वीस दस य हुतिहु जहन्ना / / 326 / / सात्यधिकं शतमुत्कृष्टत एककालं तीर्थकृतः समयक्षेत्रे विहरन्ति, पञ्चसु भरतष्येकेकस्य भावात, ऐरवतेष्वपि पञ्चसु तावतां भावात्, पञ्चसु महाविदहेषु प्रत्येक द्वात्रिशता विजयैः कलितेषु तीर्थकृतां षष्ट्यधिकशतस्य सद्भावादेतत्संख्यायाः सम्भव इति / तथा-जधन्यतो विंशतिस्तीर्थकृत एककालं विहरमाणाः प्राप्यन्ते / तथाहि-जम्बूद्वीपस्य पूर्व विदेहे शीतामहानद्या द्विभागीकृते दक्षिणोत्तरदिग्भागेनैकैकस्य सद्भावाद् द्वौ, अपरविदेहे शीतोदाया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रौ, मिलिताश्चत्वारः; एवमपरद्वीपद्वयसंबन्धिमहाविदेहचतुष्टयेडपि चत्वारश्वत्यार इति पञ्चचतुष्कका विंशतिः, भरतैरावतयोस्तु एकान्तसुषमाऽऽदावभाव एव / अन्ये तुसूरयोदशैव जघन्यतो विहरन्तीति मन्यन्ते, पञ्चानां महाविदेहाना पूर्वापरविदेहयोः प्रत्येकमेकैकस्य विहरतः सद्भावेन दशानामेव तीर्थकृता प्राप्यमाणत्वात् / तथा-जन्म प्रति जन्माऽऽश्रितोत्कृष्टत एक कालं विहरवमाणजिनविंशतिवद् विंशतिस्तीर्थकृतो भवन्ति / यतः सर्वेषामपि तीर्थकृतामर्द्धरात्रसमय एव जन्म, ततो महाविदेहेषु तीर्थकृज्जन्मसमये भरतैरावतक्षेत्रेषु दिवससद्भावेन तीर्थकृदुत्पन्नत्वादेतावन्त एव प्राप्यन्ते। ननु महाविदेहवर्त्तिषु विजयेषु चतुभ्योऽधिकानामपि तीर्थकृतामुत्पत्तेः संभवात् कथमुत्कृष्टपदे विंशतिरेवेति? उच्यते-इह हि मेरौ पण्डकवने चूलिकायाश्चतसृषु पूर्वाऽऽदिषु दिक्षु प्रत्येक चतुर्योजनप्रमाणबाहल्याः पचयोजनशतप्रमाणाऽऽयामा मध्यभागेऽद्धतृतीययोजनशतप्रमाणविष्कम्भा अर्द्धचन्द्रसंस्थानसंस्थिताः सर्वश्वेतसुवर्णमय्यश्चतस्रोऽभिषेकशिलाः, तत्र चूलिकायाः पूर्वदिग्भाविन्यां पाण्डुकम्बलशिलाया द्वे तीर्थकराभिषेकसिंहासने / तद्यथा-एकमुत्तरतः, एकं दक्षिणतः / तत्र ये शीताया महानद्या उत्तरतः कच्छाऽऽदिषु विजयेषु तीर्थकरा उपजायन्ते, ते औत्तराहे सिंहासने सुरेन्द्रैरभिषिच्यन्ते / ये पुनः शीताया महानद्या दक्षिणतो मङ्गलावतीप्रमुखेषु विजयेषूत्पद्यन्ते, ते दाक्षिणात्ये सिंहासनेऽभिषिच्यन्ते / तथा चूलिकायाः पश्चिमदिग्भाविन्यां रक्तकम्बलशिलाया द्वे सिंहासने / तद्यथा-एकमुत्तरतः, एकं दक्षिणतः / तत्र शीतोदाया महानद्या दक्षिणतः पद्माऽऽदिषु विजयेषु तीर्थकरा उत्पद्यन्ते, ते दाक्षिणात्ये सिंहासनेऽभिषिच्यन्ते। ये तु शीतोदाया महानद्या उत्तरतो गन्धिलावतीप्रमुखेषु विजयेषु जायन्ते, ते उत्तराहे सिंहासने / तथा चूलिकाया दक्षिणदिग्भाविन्यामतिपाण्डुकम्बलशिलायां ये भरतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽभिषिच्यन्ते / उत्तरदिग्भाविन्यां त्वतिरक्तकम्बलशिलायाभैरवतक्षेत्रसमुद्भवास्तीर्थकरास्तेऽभिषिच्यन्ते। सिंहासनानि च सर्वरत्नमयानि सर्वाण्यपीत्येवं पञ्चधनुः शताऽऽयामविष्कम्भान्यर्द्धतृतीयधनुः शतबाहल्यानीति। ततः समधिकाभिषेकसिंहासनाभावादेव विदेहेषु चतुभ्यो ऽधिकानां तीर्थकृतामेककालमुत्पत्त्यभावइति।। जघन्यतः पुनर्दशैव एककालमुत्पद्यन्ते, पञ्चसु भरतेषु पञ्चसु चैरवतेपु प्रत्येकमेकैकस्य सद्भावात्। भरतैरवतेषु हि जिनजन्मसमये महाविदेहेपु दिनसद्भावान्नाधिकानामुत्पत्तिरिति / प्रव० 13-14 द्वार /