________________ तित्थयर 2266 - अभिधानराजेन्द्रः - भाग 4 तित्थयर पूर्वभवद्वीपाःजंबूधायइपुक्खर-दीवा चउ चउ जिणाण पुटवभवे / धायइ विमलाइ तिगे,जंबू संतिप्पमुहनवगे।॥३५॥ ऋषभाऽऽदिचतुर्णा जिनाना पूर्वभवे जम्बूद्वीप आसीत् / सुभत्यादीना चतुर्णा जिनाना पूर्वभवे धातकीखण्ड आसीत् / सुविध्यादिचतुण जिनाना पूर्वभवे पुष्करद्वीप आसीत् 12 / विमलाऽऽदीनां त्रयाणां जिनानां पूर्वभवे धातकीखण्डद्वीप आसीत् 15 / शान्त्या--दिनवजिनानां पूर्वभते जम्बूद्वीप आसीत् 24 / इति पूर्वभवद्वीपाः। सत्त०२ द्वार। पूर्वभवनामानिएएसिं चउव्वीसाए तित्थगराणं चउव्वीसं पुव्वभवया णामधेया होत्था / तं जहा "पढमेऽत्थ यइरणाभे, विमले तह विमलवाहणे चेव / तत्तो य धम्मसीहे,सुमित्त तह धम्ममित्ते य / / 11 / / सुंदरबाहू तह दीहवाहु जुगबाहु लद्धबाहू य / दिण्णे य इंददत्ते, सुंदर माहिदए चेव / / 12 / / सीहरहे मेहरहे, रुप्पी असुदंसणे य बोधव्वा / तत्तो य नंदणे खलु, सीहगिरी चेव वीस इमे / / 13 / / अद्दीणसत्तु संखे, सुदंसणे नंदणे य बोधव्वे / इमिसे ओसप्पिणिए, तित्थकराणं तु पुटवभवा" / 14 / जिनानां पूर्वभवनामानि क्रमेण यथा-वजनाभः 1 / विमलः / / विमलवाहनः 31 धर्मसिंहः 4 / सुमित्रः 5 / धर्ममित्रः 6 / सुन्दरबाहुः७। दीर्घबाहुः / युगबाहुः / लब्धबाहुः 10 / दिन्नः 11 / इन्द्रदत्तः 12. सुन्दरः 13 / माहेन्द्रः 14 / सिंह रथः 15 / मेघरथः 16 / रूपी 17 / सुदर्शनः 18 / नन्दनः 16 ! सिंहगिरिः२० / अदीनशत्रुः 21 / शङ्खः 22 / सुदर्शन 23 / नन्दनः 24 / पूर्वभवे जिनानामेतानि नामानि बभूवुरिति / स०। सत्ता पाठान्तरे-वज्रनाभः 1 / विमलवाहनः 2 / विपुलबलः 3 / महा–बलः 4 / अतिबलः 5 / अपराजितः६। नन्दिषेणः 7 / पद्मः८ / महापद्मः। पुनरपि पद्मः१० / नलनीगुल्मः 11 / पद्मोत्तरः 12 / पद्मसेनः 13 / पद्मरथः 14 / अतिदृढरथः 15 मेघरथः 16 / सिंहावहः 17 / धनपतिः 18 / वैश्रवणः 16 / श्रीवर्मा 20 / सिद्धार्थः 21 / सुप्रतिष्ठः 22 / आनन्दः 23 / नन्दनः२४ पूर्वभवनगर्य:पुंडरिगिणी सुसीमा, सुभापुरी रयणसंचया नेया। चउगतिगम्मि महापुरि, रिट्ठा तह भदिलपुरं च / / 42 / / पुंडरिगिणि खग्गिपुरी,तहासुसीमा य वीयसोगा य / चंपा तह कोसंबी, रायगिहाऽउज्झ अहिछत्ता / / 43 / / चतुष्कत्रिके एतानि नगरीनामानि ज्ञेयाति। तथा च ऋषभः१, सुमतिः 5, सुविधिः 6, एते त्रयो जिनाः पुण्डरीकिण्यां पूर्वभवे जाताः / अजितः 2. पद्मप्रभः 6, शीतलः 10, एते त्रयो जिनाः सुसीमायां जाताः। संभवः 3. सुपार्श्व:७, श्रेयांसः 11, एते त्रयो जिनाः शुभापुर्या जाताः। | अभिनन्दनः 4, चन्द्रप्रभः८, वासुपूज्यः 12, एते जिनास्त्रयो रत्नसंचयाया जाताः / विमलः 13 महापुर्याम / अनन्तजिनः 14 रिष्टनगर्याम् / धर्मः 15 भद्दिलपुरेजातः / शान्तिः 16 पुण्डरीकिण्यां जातः / कुन्थुजिनः 17 खनि पुर्याम् / अरजिनः 18 सुसीमायां पुर्याम् / मल्लिजिनः 16 वीतशोकायाम्। मुनिसुव्रतः 20 चम्पायाम् / नमिः 21 कौशाम्ब्याम। नेमिजिनः 22 राजगृहे। पार्श्वजिनः 23 अयोध्यायाम्। वीरः 24 अहिच्छत्रानगर्या पूर्वभवे जातः / सत्त०६ द्वार। पूर्वभवराज्यम्जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थंकरा पुटवे मंडलिरायाणो होत्था / तं जहा-अजित संभव अभिणंदण० जाव पासो वद्धमाणो य / उसमे णं अरहा कोसलिए पुव्वभवे चक्कवट्टी होत्था / स०२३ सम० पूर्वभवविजयाःपुक्खलवइ य वच्छा, रमणिज्जा मंगलावई कमसो। नेआ जिणचउगतिगे, जिणतियगे खित्तनामाओ।।४।। पुक्खलवइ आवत्तो, बच्छा सलिलावई जिणचउक्के / मुणिसुव्वयाइपणगे, विजया खित्ताण नामेणं // 41 // जिनानां चतुष्कत्रिके क्रमश एते विजया ज्ञेयाः। यथा पुष्कलावतीविजयः-प्रथमे, पञ्चमे, नवमे। वच्छाविजयो-द्वितीये, षष्ठे, दशमे। रमणीयाख्यविजयः-तृतीये, सप्तमे, एकादशे / मङ्गला वतीविजयःचतुर्थे , अष्टमे, द्वादशे। एवंद्वादशजिनानां विजयाः कथिताः। (जिणतियगे खित्तनामाओ त्ति) जिनत्रिके-विमलः 13 अनन्तः 14 धम्मश्चेति 15 त्रिके क्षेत्रनामतो विजया ज्ञेयाः / तेषां विजयाभावात्तत्स्थाने भरतैरावतभरतरूपाणि पूर्वोक्तानि क्षेत्रा-ण्येव ज्ञेयानीति भाव इति गाथार्थः / / 40 / / ततः शान्तिः कुन्थुररो मल्लिश्चेतिरूपे जिनचतुष्के क्रमेण पुष्कलावत्याद्या विजयाः। यथा-पुष्कलावतीविजयः षोडशजिने 16 / आवर्तविजयः सप्त-दशे जिने 17 / वच्छाविजयोऽष्टादशे जिने 18 / सलिलावतीवि-जय एकोनविंशतितमे जिने 16 / (मुणिसुव्वयाइपणगे त्ति) मुनिसुव्रताऽऽदिपञ्चके-मुनिसुव्रतो नमिर्नेमिः पावो वीरश्चेतिरूपे (विजया खित्ताण नामेणं ति) क्षेत्रनाम्ना विजया ज्ञेयाः। एतेषां पञ्चानामपि भरतक्षेत्रसम्भवेन विजयाभावात्तत्स्थाने क्षेत्राणामेव नामानि ज्ञेयानीति भावः / / 41 / / सत्त०५ द्वार। ऋषभः१,सुमतिः 5, सुविधिः ६,एतेषां पूर्वभवे पुष्कलावतीवि-जयः / अजितः 2, पद्मप्रभः६, शीतलः 10, एतेषां वच्छाविजयः। संभवः 3, सुपार्श्वः 7, श्रेयांसः 11, एतेषां रमणीयाख्यविजयः। अभिनन्दनः४, चन्द्रप्रभः 8, वासुपूज्यः 12. एतेषां पूर्वभवे मङ्गलावतीविजयः ।विमल: 13, अनन्तः 14, धर्मः १५.एतेषां क्षेत्रनामतो विजया ज्ञेयाः, तेषा विजयाभावात्, तत्स्थाने भरतै-रावतरूपाणि पूर्वोक्तानि क्षेत्राण्येव ज्ञेयानि। शान्तिजिनः 16 पुष्कलावतीविजये। आवर्तविजये कुन्थुजिनः 17 / अरजिनः 18 वच्छाविजये। मल्लिजिनः सलिलावतीविजये 16 / मुनिसुव्रतः 20, नमिः 21. नेमिः२२, पार्श्वः 23, वीरः 24, एतेषः क्षेत्रनाम्ना विजया ज्ञेयाः, भरतक्षेत्रे विजयाभावात् तत्स्थाने क्षेत्राणामेव नामानीति।