________________ तित्थयर 2265 - अभिधानराजेन्द्रः - भाग 4 तित्थयर गुरवः च स्थविराश्च बहुश्रुताश्च तपस्विनश्च अर्हत्सिद्धप्रवचनगुरास्थविरबहुश्रुततपस्विनः / सूत्रे च "बहुस्सुए' इत्यत्र एकारः प्राकृटत्वादलाक्षणिकः / तेषु / (एसिं ति) प्राकृतत्वात्सप्तम्यर्थे षष्ठी / तत एतेषु सप्तसु स्थानेषु वत्सलभावो वत्सलता अनुरागः 7, स्थाऽवस्थितगुणोत्कीर्तनं तदनुरूपोपचारलक्षणात्तीर्थकरनामकर्मबन्धकारण मिति शेषः / तथा अभीक्ष्णमनवरत ज्ञानोपयोगो ज्ञाने व्याप्रियमाणतः 8 / इदमष्टमं कारणम् // 312|| दसणविणए आवस्सए असीलव्वए निरइयारो। खणलवतवचियाए, वेयावच्चे समाही य॥३१३।। द्वितीयगाथाव्याख्या-दर्शनं सम्यक्त्व, विनयो ज्ञानाऽऽदिविनयः। स च प्रागुक्तो वक्ष्यमाणो वा, दर्शन च विनयश्च दर्शनविनयम, समाहारद्वन्द्वः, तरिमन् / आवश्यकमवश्यकर्त्तव्यं प्रतिक्रमणाऽऽदि ; तस्मिन्। शीलनि च व्रतानि च शीलव्रतम्, अत्रापि समहारद्वन्द्वः / तस्मिन् / तत्र शीलान्युत्तरगुणाः, व्रतानि मूलगुणाः। एतेषु निरतिचारः सन्, तीर्थकरनामकर्म बध्नातीति क्रियायोगः / एतावता पञ्च कारणान्युक्तानि / तथाक्षणलवे तपसि त्यागे वैयावृत्ये च समाधिस्तीर्थकरनामकर्मबन्धकारणम्।तत्र क्षणलवग्रहणमशेषकालविशेषोपलक्षणम, क्षणलवाऽऽदिषु कालविशेषेषु निरन्तर संवेगभावनातो ध्यानाऽऽसेवनतश्च समाधिः क्षणलवसमाधिः / तथा- तपसि बाह्याऽऽभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तर प्रवृत्तिस्तपः समाधिः। त्यागो द्विधा-द्रव्यत्यागः, भावत्यागश्च / द्रव्यत्यागो नाम- आहारोपधिशय्याऽऽदीनामप्रायोग्याणां परित्यागः, प्रायोग्याणां च यतिजनेभ्यो दानम्। भावत्यागः-क्रोधाऽऽदीनां विवेकः, ज्ञानाऽऽदीना च यतिजनेभ्यो वितरणम् / एतस्मिन् द्विविधेऽपि त्यागे सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिस्त्यागसमाधिः / वैयावृत्त्य दशविधम् / तद्यथा-आचार्यवैया-वृत्त्यम्१, उपाध्यायवैयावृत्त्यम् 2, स्थविरवैयावृध्यम् 3, तपस्विवैयावृत्त्यम् 4, ग्लानवैयावृत्त्यम्५, शैक्षकंधेयावृत्यम् 6, साधर्मिकवैयावृत्त्यन्७, कुलधयावृत्त्यम् 8, गणवैयावृत्त्यम 6, सङ्घ वैयावृत्त्यं चेति 10 / एकैक त्रयोदशविधम् / तद्यथाभक्तदानम् 1, पानदानम् 2, आसनप्रदानम्३. उपकरणप्रत्युप्रेक्षा 4, पादप्रमाजनम् 5, वस्त्र प्रदानम् 6, भेषजप्रदानम् 7, अध्वनि साहाय्यम् 8, दुष्टरतेनाऽऽदिभ्यो रक्षणम् 6, वशतौ प्रविशतां दण्डकग्रहणम् 10, कायिकामात्रकसमर्पणम ११.संज्ञामात्रकसमर्पणम् 12, श्लेष्ममात्रकसमर्पण चेति 13 / एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तर प्रवृत्तियावृत्त्यसनाधिः। अप्पुव्वनाणगहणे, सुयभत्ती पवयणे पहावणया। एएहिँ कारणेहिं, तित्थयरत्तं लहइ जीवो // 314|| तृतीयगाथाव्याख्या-अपूर्वस्या पूर्वस्य ज्ञानस्य निरन्तर ग्रहणमपूर्वज्ञानग्रहणमष्टादशं तीर्थकरनामकर्मबन्धकारणम् ।एकोनविंशतितम श्रुतभक्तिः श्रुतविषयं बहुमानम्। विंशतितमं प्रवचने प्रभावना यथाशक्ति प्रवचनार्थोपदेशदानाऽऽदिरूपा / एभिरनन्तरोक्तेः कारणस्तीर्थकरत्त्रं लभते जीवः। एतानि च कानिचित् कारणानि सूत्रकार एव स्वयं व्याचष्टसंघो पवयणमित्थं, गुरुणो धम्मोवएसघाईया। सुत्तत्थोभयधारी, बहुस्सुया हुंति विक्खाया॥३१५।। जाईसुयपरियाए, पडुच्च थेरो तिहा जहकमेणं / सट्ठीयरिसो समवायधारओ वीसवरिसोय॥३१६।। भत्ती पूआ वण्णप्पयडण वज्जणमवण्णवायस्स। आसायणपरिहारो, अरिहंताईण वच्छल्लं॥३१७।। नाणुवओगो भिक्खं, दंसणसुद्धी अ विणयसुद्धी अ। आवस्सयजोएसुं, सीलवएसुं निरइयारो // 318 / / संवेगभावणााण सेवणं खणलवाइकालेसु / तवकरणं जइजणसंविभागकरसंजहसमाही // 316 / / वेयावच्चं दसहा, गुरुमाईणं समाहिजणणं च / किरियादारेण तहा, अपुव्वनाणस्स गहणं तु // 320 / / आगमबहुमाणो वि य, तित्थस्स पभावणं जहासत्ती। एएहिँ कारणेहिं, तित्थयरत्तं समजिणई // 321 / / "संघो पवयण'' इत्यादि गाथासप्तकं, व्याख्यातार्थ चैतत् ; नवरं स्थविरबहुश्रुतयोर्गाथा ऽनुलोम्याद्व्यतिक्रमनिर्देशः / तथा-तृतीय (317) गाथायां भक्तिरान्तरो बहुमानविशेषः, पूजा यथौ-चित्येन पुष्पफलाऽऽहारवस्त्राऽऽदिभिरुपचारः, वर्णस्य श्लाघायाः प्रकटनं प्रकाशनं, वर्जन परिहरणमवर्णवादस्य अश्लाघायाः, आशातनाया वक्ष्यमाणायाः परिहारो वर्जनम् / एतदर्हदादीनां सप्तानां वात्सल्यं वत्सलता। तथा षष्ठ (320) गाथायां वैयावृत्त्यं भक्तदानाऽऽदिक्रियाद्वारेण गुर्वादीनां समाधिजननम् / तत्पुनर्दशधा पूर्वोक्त प्रकारेण / यता शीलवताभ्यामेकमेव कारणं कृत्वा समाधिरिति भिन्नमेव तीर्थकरगोत्रबन्धस्थान विवक्ष्यते। ततो वैयावृत्त्यं दशधा गुर्वादीनां, तथा तेषामेव क्रियाद्वारेण समाधिजननं कार्यकरणद्वारेण स्वस्थताऽऽपादनमिति / तथा-- ऋषभनायेन वर्द्धमानस्वामिना चपूर्वभवे एतान्यनन्तरोक्तानि सर्वाण्यपि स्थानान्यासेवितानि, मध्यमेषु पुनरजितस्वामिप्रभृतिषु द्वाविंशतितीर्थकरेषु केनाप्येक, केनापि त्रीणि, यावत्केनाऽपि सर्वाण्यपि स्थानानि स्पृष्टानीति। एतच तीर्थकरनामकर्म मनुष्यगतावेव वर्तमानः पुरुषः स्त्री नपुंसको वा तीर्थकरभवात् पृष्ठतस्तृतीयभवं प्राप्य बद्भुमारभते। आहतीर्थकरनामकर्मणो जघन्यत उत्कर्षतश्च बन्धस्थितिरन्तः सागरोपमकोटाकोटीप्रमाणा, ततः कथमुक्तं तीर्थकरभवात् प्राक् तृतीयभवे बध्यत इति? नैप दोषः। द्विविधो हि बन्धः-निकाचनारूपः, अनिकाचनारूपश्च / तत्र अनिकाचनारूपस्तृतीयभवात् प्राक् सुतरामपि भवति, जघन्योऽप्यन्तः सागरोपमकोटाकोटीप्रमाणत्वात्। निकाचनारूपस्तु तीर्थकरभवात् प्राक् तृतीयभव एव, "तं च कह वेइज्जइ, अगिलाए धम्म-- देसणाऽऽदीहिं / बज्झइ तं तु भयवओ, इय भव्यो सक्कइत्ता णं' ||1|| इति वचनप्रामाण्यात् / तत्र निकाचितमबन्ध्यफलम्, इतरत्तु उभयथाऽपि, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावत्प्रवर्त्तते यावतीर्थकरभर्व अपूर्वकरणस्य संख्येयभागा, तत ऊर्द्ध, व्यवच्छेदः, केवलज्ञानोत्पत्तौ च अष्टमहाप्रातिहार्याऽऽदिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेवमनुजासुरायां परिषदि ग्लानिपरिहारेण धर्मदेशनया श्रुतचारित्ररूप धर्मप्ररूपणलक्षणया चतुस्त्रिंशता देहसौगन्ध्यादिभिरतिशयैः, पञ्चत्रिंशता बुद्धवचनातिशयैस्तद्वेद्यत इति। प्रव०१० द्वार।