________________ तित्थयर 2264 - अभिधानराजेन्द्रः - भाग 4 तित्थयर तइयभवदीवपमुहं, नायव्वं वक्खमाणाओ।।३।। ससजिनानामिमे भणिताः प्रकटभवाः, तेभ्यः सप्तजिनेभ्यः शेषाणामनुक्तभवानां सप्तदशजिनानां तृतीयभवद्वीपप्रभृति ज्ञेयं वक्ष्यमाणाद् ग्रन्थात् / अयं भवः-शेषजिनानां त्रयो भवा अधिकाराद् ज्ञेयाः / तथा पूर्वभवद्वीपक्षेत्रविजयाऽऽदिकथनेन, पूर्वभवनामकथनेन च प्रथमभवो ज्ञेयः 1, पूर्वभवदेवलोककथनेन च द्वितीयो भवो ज्ञेयः 2, तृतीयस्तु जिनभवः ३,इति सर्वेषां जिनानां पूर्वभवा उक्ताः / सत्त० 2 द्वार / ('मल्ली' शब्दे मल्लिनाथस्य त्रयो भवा वक्ष्यन्ते) (104) अथ पूर्वभवगुरवः सर्वेषां जिनानां प्रतिपाद्यन्तेवयसेणो अरिदमणो, संभंतो विमलवाहणो य तहा। सीमंधर पिहियासव,अरिदमण जुगंधर गुरू य॥४७।। सव्वजगाणंदगुरू, संथाहो वजदत्त वयनाहो। तह सव्वगुत्तनामे, चित्तरहो विमलवाहणओ / / 48|| घणरह संवर तह साहुसंवरो तह य होइ वरधम्मो। तह य सुनंदो नंदो, अइजस दामोदरो य पुट्टिलओ / / 4 / / वज्रसेनः 1 / अरिदमनः 2 / संभ्रान्तः३। विमलवाहनः 4 / सीभन्धरः 5 / पिहिताश्रवः 6 / अरिदमनः 7 / युगन्धरः 8 / सर्वजगदानन्दः / संस्ताघः 10 / वज्रदत्तः 11 / वज्रनाभः 12 / सर्वगुप्तः 13 / चित्ररथः 14 / विमलवाहनकः 15 घनरथः१६। संवरः 17 / साहुसंवरः 18 / तथा च भवति वरधर्मः 16 / सुनन्दः 20 // नन्दः२१ / अतियशाः 22 // दामोदरः 23 / पोट्टिलकः 24 / सत्त०६ द्वार। पूर्वभवायु:धम्मस्स मज्झिमाऊ, सेसाणुकोसयं तमिमं / (56) तित्तीसं तित्ती, गुणतीसं दुसु तितीस इगतीसं। अडवीसं तित्तीसं, गुणवीसं वीस बावीसं / / 57 / / वीसट्ठारस वीसं, बत्तीस कमेण पंचसु तितीसं। वीस तितीसं वीसं, वीसऽयरा पुव्वभवआऊ॥५८|| धर्मनाथस्यमध्यमाऽऽयुः। शेषजिनानामुत्कृष्टकमेव तदिदं वक्ष्यमाणम् // 56 // त्रयस्त्रिंशत् सागराणि 1 / त्रयस्त्रिंशत् सागराणि 2 / एकोनत्रिंशत् साग०३ / द्वयोः त्रयस्त्रिंशत् साग०४ / त्रयस्त्रिंशत् साग०५ / एकत्रिशत् साग०६ / अशविंशतिः साग०७। त्रयस्त्रिंशत् साग०८ / एकोनविंशतिः साग०६ / विंशतिःसाग०१०। द्वाविंशतिः साग०११ // 57 / / विंशतिः साग० 12 / अष्टादश सागर०१३। विंशतिः साग० 14 / द्वात्रिंशत् साग० 15 / क्रमेण पञ्चसु-त्रयस्त्रिंशत् साग०१६ / त्रयस्त्रिंशत् साग० 17 / त्रयस्त्रिंशत् साग०१८। त्रयस्त्रिंशत् साग०१६ / त्रयस्त्रिंशत्साग० 20 / विशतिः साग०२१ / त्रयस्त्रिंशत् साग०२२ / विंशति० साग० 23 / विंशतिः सागराणि 24 / इति जिनानां पूर्वभवायुः। सत्त० 13 द्वार। पूर्वभवक्षेत्राणिबारस पुव्वविदेहे, तिन्नि कमा भरह एरवऍ भरहे। पुव्वविदेहे तिन्नि य, मल्लिऽवरविदेहे पण भरहे / / 36 / / मज्झिमसेरुनगाओ, धायइपुक्खरगयाइँ भरहाई। खित्ताइँ पुव्वखंडे, खंडवियारो न जंबुम्मि!|३७।। ऋषभाऽऽद्याः द्वादश जिनाः पूर्वमहाविदेहे जाताः 12 त्रीणि क्रमातभरते 13, ऐरवते 14, पुनः भरते 15 ज्ञेयाः / शान्तिः 16, कुन्थुः 17, अरः 18, एते त्रयोऽपि जिना पूर्वमहाविदेहे ज्ञेयाः। मल्लिः पश्चिममहाविदेहे 16 / मुनिसुव्रतः 20, नमिः 21, नेमिः 22. पार्श्वः 23, बर्द्धमानः 24, एते पश्चापि भरते ज्ञेयाः / मध्यममेरुः सुदर्शननामा, तस्मात् धातकीखण्डभरताऽऽदीनि पुष्कराईभरताऽऽदीनि च क्षेत्राणि पूर्वखण्डे / अत्रायं भावःधातकीखण्डः, पुष्करार्द्धद्वीपश्च इषुकारगिरिभ्या विभक्ती स्तः तेनोभयोरपि द्वौ द्वौ खण्डौ भवतः, एकः पूर्वखण्डोऽपरः पश्चिमखण्डश्च / ततोऽत्रयानि तीर्थकृता पूर्वभवक्षेत्राणि भरताऽऽदीनि तानि सर्वा-ण्यपि पूर्वखण्डसंबन्धीनि, न तु पश्चिमखण्डसम्बन्धीनीति / ननु तर्हि जम्बूद्वीपगतक्षेत्राणि किंखण्डसंबन्धीनीत्याह-खण्डविचारो जम्बूद्वीपे नास्ति,तत्र कस्यापि भाजकस्याभावादिति / सत्त० 3 द्वार। पूर्वभवक्षेत्रदिशाविमलो धम्मो मुणिसु-व्वयाइ पण आसि मेरुदाहिणओ। मेरुत्तरओऽणतो, सीओयादाहिणे मल्ली||३५|| सीयाए उत्तरओ, उसहसुमइसुविहिसंतिकुंथुजिणा। सेसा दस दाहिणओ,इय पुव्वभवम्मि खित्तदिसा // 36 // विमलः, धर्मश्चैतौ द्वौ; मुनिसुव्रतः, नमिः, नेमिः, पावः, वर्द्धमानः, एवं च पञ्च जिनाः, एते सर्वे सप्त जिना मेरुतो दक्षिणत आसन / अनन्तोऽनन्तजिजिनः८ मेरोरुत्तरत आसीत्। सीतोदानद्या दक्षिणपात्रे श्रीमल्लिजिनः 6 / सीतानद्या उत्तरतः ऋषभः 10. सुमतिः 11, सुविधिः 12, शान्तिः 13, कुन्थुः 14, एते जिनाः समुत्पन्नाः पूर्वभवे। शेषाः स्थिता ये दश जिनास्ते दक्षिणस्यां दिशि जाताः / इति सर्वेषां जिनानां पूर्वभवक्षेत्रदिशः / सत्त०४ द्वार। पूर्वभवजिनहेतुःपढमचरिमे हिँ पुट्ठा, जिणहेऊ वीस ते य इमे / / (50) प्रथमः-ऋषभः,चरमो-वीरः, ताभ्यां स्पृष्टा जिनहेतवो विंशतिः, येर्हेतुभिः जिनो भवति। ते च इमे वक्ष्यमाणा भवेयुः / सत्त० 10 द्वार / आ० का तानेव हेतूनाह-- अरिहंतसिद्धपवयण-गुरुथेरबहुस्सुए तवस्सीसु। वच्छल्लया य एसिं, अभिक्खनाणोवओगे अ॥३१२।। अत्र तिस्रो गाथाः तत्र प्रथमगाथायामष्टौ कारणान्युक्तानि, द्वितीयायां नव, तृतीयायां त्रीणि / तत्र प्रथमगाथाव्याख्या-अशोकाऽऽद्यष्ट - महाप्रातिहार्याऽऽदिरूपा पूजामहन्तीत्यर्हन्तस्तीर्थकराः, अपगतसकलकर्माशाः परमसुखिन एकान्तं कृतकृत्याः सिद्धाः, प्रवचनं द्वादशाङ्ग, तदुपयोगानन्यत्वात् संघो वा प्रवचनम्, गृणन्ति यथावस्थितशास्वार्थमिति गुरवो धर्मोपदेशाऽऽदिदातारः, स्थविरा जातिश्रुतपर्यायभेदभिन्नाः / तत्र जातिस्थविरा:-वर्षषष्टिप्रमाणाः। श्रुतस्थविराःसमवायाङ्गधारिणः / पर्यायस्थविराः-विंशतिवर्ष व्रतपर्यायाः। बहु प्रभूतं श्रुतं येषां ते बहुश्रुताः, बहुश्रुतत्वमापेक्षिक प्रतिपत्तव्यम्। श्रुतं च त्रिधा-- सूत्रतः, अर्थतः, उभयतश्च / तर सूत्रधरेभ्योऽर्थधराः प्रधानाः, तेभ्योऽप्युभयधराः प्रधाना इति / विचित्रमनशनाऽऽदिभेदभिन्नं तपों विद्यते येषां ते तपस्विनः सामान्यसाधवः / अर्हन्तश्च सिद्धाश्च प्रवचनं च