________________ तित्थयर 2263 - अभिधानराजेन्द्रः - भाग 4 तित्थयर पासस्स नत्थि सो वा, सेससुयपवित्ति जा तित्थं / / 328|| एवमेव पूर्वरीत्या छेदकालोऽपि ज्ञेयः / श्रीऋषभस्यासंख्यातकाल यावत्पूर्वव्युच्छेदः / एवं कुन्थुजिनं यावद् ज्ञेयम् / ततोऽरजिनस्य संख्यातकालं यावत् पूर्वव्युच्छेदः / एवं पार्श्वनाथ यावद् ज्ञेयम् / नवरं वीरस्य विशतिवर्षसहस्राणि पूर्वविच्छेदः / श्रीपार्श्वनाथस्य स पूर्वविच्छेदकालो वा नास्ति। अत्र विकल्पः केषाञ्चिदाचार्याणां मतमाश्रित्यावसेयः / शेषश्रुतप्रवृत्तिः यावत्तीर्थम् / अयमर्थः-यावद् यस्य तीर्थड्करस्य तीर्थ तावत् काल पूर्वव्यतिरिक्ता श्रुतप्रवृतिरिति गाथार्थः / सत्त०१६३ द्वार। (103) पूर्वभवनिरूपणम्(ऋषभस्याष्टी पूर्वभवाः ‘उसह' शब्दे द्वितीयभागे 1133 पृष्ठ कथिताः) चन्द्रप्रभस्य सप्त भवाःसिरिवम्मनिवो सोहम्मसुरवरो अजियसेणचक्की य। अचुयपहु पउमनिवो, य वेजयंते य चंदपहो // 23 // प्रथमे भवे श्रीवर्मनामा राजा१ / द्वितीयभवे सौधर्मदेवलोके देवः 2 / / तृतीयभवेऽजितसेननामा चक्रवर्ती ३।तुर्यभवे अच्युतेन्द्रः 4 / पञ्चमभवे पद्मनामा नृपः 5 / षष्ठभवे द्वितीयानुत्तरविमाने वैजयन्ते देवो जातः 6 / सप्तमभवे वन्द्रप्रभनाम्नाऽष्टमतीर्थपः७। शान्तिनाथस्य द्वादश भवाःसिरिसेणो अभिनंदिय, जुयल सुरा अमियतेयसिरिविजया। | पाणय बल हरि तो हरि, नरए खयरऽधुए दो वि / / 24 / / वजाउह सहसाउह, पिउसुय गेविज्ज तइऍ नवमे वा।। मेहरहदढरहा तो, सव्वड्डे संति गणहारी।।२५।। प्रथमभवे-श्रीषेणो राजाऽभूत, तस्याभिनन्दिता राज्ञी 1 / (जुयल त्ति) द्वितीयभवे उत्तरकुरुक्षेत्रे द्वावपि युगलिनी जातौ 2 / (सुर त्ति) तृतीये सौधर्मकल्पे देवः 3 / (अमियतेय सिरिविजय त्ति) तुर्यभवे जिनजीवोऽमिततेजोनामा विद्याधरो जातः, प्रियाजीवः श्रीविजयो राजा जातः४ / (पाणय त्ति) पञ्चमे प्राणतनाम्नि दशमे देवलोके द्वावपि देवी जातौ 5 / (बलहरि त्ति) षष्ठभवेऽस्मिन् जम्बूद्वीपपूर्व विदेहमध्यस्थे रमणीयाख्ये विजये सुभगायां नगर्या जिनजीवो बलभद्रो जातः / प्रियाजीवो वासुदेवो जातः६। (तो इति) ततः हरिनरके गतः / ततो नरकादुद्वृत्य (खयर ति) खचरौ द्वावपि विद्याधरौ, संजमंलात्वा सप्तमे भवे अच्युते गतौ 7 // 24 / / (वजाउह त्ति) ततोऽष्टमभवे जिनजीवो वज्रायुधराजा जातः, स्त्री-जीवः तस्य सहस्रायुधनामा पुत्रो जातः 8 / (गेविज त्ति) ततो नवमे ग्रैवेयके द्वावपि देवौ जातौ / मतान्तरे-तृतीये ग्रेवयके देवी जातौह / (मेहरह त्ति) दशमभवे ततश्चयुतौ तस्मिन्जम्बूदीपे प्राग्विदेहविभूषणे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्या जिन-जीवो मेघरथः, प्रियाजीवो दृढरथः, एवं द्वावपि भ्रातरौ जातो 10 / (सव्वड्डे त्ति) एकादशभवे ततो द्वावपि भ्रातरौ संयमंलात्वा सम्यक्-संयम प्रपाल्य सर्वार्थसिद्धे विमाने देवौ सम्भूतौ 11 (संतिगण-हारित्ति) द्वादशे भवे भगवान शान्तिनाथः, पूर्वभवप्रियाजीवो सर्वार्थसिद्धविमानात् च्युवा भगवतः पुत्रत्वेन जातः, भगवतः चक्रवर्तित्वे सेनानीरभूत, ततः पश्चात् संजम लात्वाऽऽद्यगणधरो जातः 12 / मुनिसुव्रतस्य नव भवाः सिवकेउ सुहम्मसुरे, कुवेरदत्त तियकप्पि वजकुंडलओ। बंभे सिरिवम्मनिवो, अवराई सुव्वओ नवमे / / 26 / / प्रथमभवे शिवकतुनामा राजा 1 / द्वितीयभवे सौधर्मे देवः / तृतीयभवे कुबेरदत्तनामा नृपः३।तुर्यभवे तृतीयकल्पे सनत्कुमारे देवः 4 // पञ्चमभवे वजकुण्डलनामा राजा५ / षष्ठे भवे ब्रह्मनाम्नि पञ्चमदेवलोके देवो जातः 6 / सप्तमभवे श्रीवर्मराजा जातः 7 / अष्टमेऽपराजितनाम्नि तुर्यानुत्तरे विमाने देवः 8 / नवमे भवे मुनि-सुव्रतजिनः / नेमिनाथस्य नव भवाःधणधणवइ सोहम्मे, चित्तगई खेयरो य रयणवई। माहिंदे अवराइय, पीइमई आरणे तत्तो // 27 // सुपइट्ठो संखो वा, जसमइ भज्जाऽवराइयविमाणे / नेमिजिणो राईमइ, नवमभवे दो वि सिद्धा य॥२८॥ प्रथमभवे-धननामा राजाऽभूत, तस्य धनवती राज्ञी 1 / द्वितीये भवे सौधर्म कल्पे द्वावपि देवौ जातौ 2 तृतीयभवे चित्रगतिनामा विद्याधरो, राज्ञीजीवो रत्नवती प्रिया ३।तुर्यभवे वावपि माहेन्द्र देवलोके देवौ जातो 4 / पञ्चमभवे अपराजितो राजा, प्रीतिमती राज्ञी 5 / षष्ठे भवे आरणदेवलोके द्वावपि देवी जातौ 6 // 27 // सप्तमभवे सुप्रतिष्ठः; मतान्तरेशड खनामा राजा बभूव, धनवतीजीवो यशोमती भार्या जाता 7 / अष्टमभवे अपराजितनाम्नि तुर्यानुत्तरविमाने देवी जातौ 8 / नवमभवे भगवान् श्रीनेमिजिनः, पत्नीजीवः राजीमती जाता है / तदनन्तरं द्वावपि सिद्धी मोक्षं गतौ // 28 // पार्श्वस्य दश भवाःकमढमरुभू इभाया, कुक्कुडअहि हत्थि नरऍ सहसारे। सप्प खयरिंद नारऍ, अच्चुयसुर सवर नरनाहो // 26 नार, गेविजसुरो, सीहो निवई य नरय पाणयगे। कंठो विप्पो पासो, संजाया दो विदसमभवे // 30 // प्रथमे भवे--कमठमरुभूतिनामानौ भ्रातरौ जातौ, तत्र मरुभूति-नामा भगवजीवः 1 / द्वितीयभवे कमठजीवः कुर्कुटाहिर्जातः, जिनजीवो हस्तितिः / तृतीयभवे कमठो नरके गतः, जिनजीवः सहस्रारेऽष्टमदेवलोके गतः३। चतुर्थभवे कमठजीवः सो जातः, जिनजीवो विद्याधरेन्द्रोऽभूत् 4 / पञ्चमभवे कमठजीवो नैरयिको जातः, जिनजीवोऽच्युते देवो जातः 5 / षष्ठभवे कमठजीवः शबरः भिल्लोऽजनि, जिनजीवो नरनाथो बभूव 6 // 26| सप्तमभवे कमठजीवो नरके गतः, जिनजीवो गैवेयके सुरो जातः 7 / अष्टमभवे कमठजीवः सिंहो जातः, पार्श्वजीवो नृपतिर्जातः 8 / नवमे भवे कमठजीवो नरके नारको जातः, पार्श्वजीवः प्राणतनाम्नि दशमे देवलोके देवो जातः६ / दशमे भवे कमठजीवः कण्ठनामा विप्रोऽभूत, मरुभूतिजीवः पार्श्वनाथनामा त्रयोविंशतितमो जिनो जातः 10 / एवं सन्तौ द्वावपि दशमभवे / / 30 / / सत्त०१ द्वार / (वीरस्य सप्तविंशतिभवाः "वीर" शब्दे वक्ष्यन्ते) सप्ततिशतस्थाने वीरस्याष्टाविंशतिभवा निरूपिताः, तत्र देवानन्दोदरात 27 सप्तविंशतिः, त्रिशलोदरादष्टाविंशतितमः। शेषजिनानां भवाःसत्तण्हमिडे भणिया, पयडभवा तेसि सेसयाणं च /