________________ तित्थयर 2260 - अभिधानराजेन्द्रः - भाग 4 तित्थयर निशिभक्तम्मूलगुणेसुं दुण्हं, सेसाणुत्तरगुणेसु निसि भुत्तं (287) द्वयोर्जिनयोः ऋषभ१वीरयोः२४ शासने, मूलगुणेषु निशि भोजनप्रत्याख्यानम्, (सेसाणुत्तरगुणेसु निसि भुत्त) शेषाणां द्वाविंशतिमितानां जिनानामुत्तरगुणेषु निशि भोजनप्रत्याख्यानम् / सत्त० 134 द्वार। प्रकीर्णकानि.................. सव्वेसि पइन्नगा ससीसकया। नियनियसीसपमाणा, नेया................)२७०) सर्वेण जिनानां प्रकीर्णकानि स्वशिष्यकृतानि भवन्ति निजनिजशिष्यप्रमाणानि, येषां जिनानां यावन्तः शिष्यास्तेषां तावत्प्रमाणानि प्रकीर्णकानि ग्रन्थविशेषा ज्ञेयाः / सत्त० 124 द्वार ! (67) पञ्चकल्याणकम्पउमप्पभेणं अरहा पंच चित्ते होत्था। तं जहा-चित्ताहिं चुए, चइत्ता गम्भं वकते, चित्ताहिं जाए, चित्ताहि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, चित्ताहिं अणंते अणुत्तरे णिव्वा-घाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिनिव्वए।।१।। पुप्फदंते णं अरहा पंच मूले होत्था। मूलेणं चुए, चइत्ता गब्भं वकते एवं चेव। एएणं अभिलावेणं इमाओ गाहाओ अणुगंतव्वाओ"पउमप्पभस्स चित्ता, मूले पुण होइ पुप्फदंतस्स / पुव्वाऽसाढा सीयल-स्स उत्तरा विमलस्स भद्दवया।।१।। रेवइ य अणंतजिणो, पूसो धम्मस्स संतिणो भरणी। कुंथुस्स कत्तियाओ, अरस्स तह रेवईओ य / / 2 / / मुणिसुव्वयस्स सवणो, आसिणि नमिणो य नेमिणो चित्ता। पासस्स विसाहाओ, पंच य हत्थुत्तरे वीरो॥३॥" समणे भगवं महावीरे पंच हत्थुत्तरे होत्था। तं जहा-हत्थुत्तराहिं चुए, चइत्ता गब्भं वकंते, हत्थुत्तराहिं गब्भाओ गभं साहरइ, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता०जाव पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे०जाव केवलवरनाणदंसणे समुप्पन्ने। पद्मप्रभ ऋषभाऽऽदिषु षष्ठः, पञ्चसु च्यवनाऽऽदिदिनेषु चित्रानक्षत्रविशेषो यस्य स पश्चचित्रः, चित्राभिरिति रूढ्या बहुवचनम् / च्युतोऽवतीर्ण उपरिमोपरिमग्रैवेयकादेकत्रिंशत्सागरोपमस्थितिकात, च्युत्वा च (गल्भं ति) गर्भ कुक्षौ व्युत्क्रान्त उत्पन्नः कौशाम्ब्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकायाः माघमासबहुलषष्ठ्या, जातो गर्भनिमिन कार्तिकबहुलद्वादश्या, तथा मुण्डो भूत्वा केशकषायाऽऽद्यपेक्षया, अगारान्निष्क्रम्यानगारितां श्रमणतां प्रव्रजितो गतोऽनगारतया च प्रव्रजितः कार्तिकशुद्धत्रयोदश्या, तथाऽनन्तं पर्यायानन्तत्वात्, अनुत्तर सर्वज्ञानोत्तमत्वात्, नियाघातमप्रतिपातित्वात्, निरावरण सर्वथा स्वावरणक्षयात्, कटकुड्याऽऽद्यावरणाभावाद्वा, कृत्स्नं सकलप दार्थविषयत्वात्, परिपूर्ण स्वावयवापेक्षयाऽखण्ड पौर्णमासचिन्द्रविम्बवत्। किमित्याह- केवलं ज्ञानान्तरासहायत्वात्, संशुद्धत्वाद्वा। अत एव वरं प्रधानं केवलवर, ज्ञानं च विशेषावभासं दर्शनं च सामान्यावभास ज्ञानदर्शनं, तच तचेति केवलवरज्ञानदर्शनं,समुत्पन्नं जातम, चैत्रशुद्धपञ्चदश्याम् / तथा परिनिर्वृतो निर्वाणं गतः, मार्गशीर्षबहुलैकादश्यान्। आदेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति। (एवं चेव त्ति पद्मप्रभसूत्रमिद पुष्पदन्तसूत्रमप्ययेतव्यम्, एव-मनन्तरोक्तस्वरूपेण। एतेनानन्तरत्वात्प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसंग्रहणिगाथा अनुगन्तव्या अनुसतव्याः शेषसूत्राभिलापनिष्पादनार्थम्। (पउमप्पगरसेत्यादि) तत्र पद्मप्रभस्य चित्रानक्षत्रं च्यवनाऽऽदिषु पञ्चसु स्थानकेषु भवतीत्यादिगाथाक्षरार्थो वक्तवयः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव। इतरेषां त्वेवम्-"सीयले णं अरहा पंच पुव्वासाढे हो था / तं जहापुव्वासाढाहिं चुए.चइत्ता गम्भं वळते, पुव्वासाढाहिं जाए।' इत्यादि। एवं सर्वाण्यपीति। व्याख्या त्वेवम्-पुष्पदन्तो नवमतीर्थकर आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुल-नवम्यां मूलनक्षत्रे च्युतः, च्युत्वा काकन्दीनगर्या सुग्रीवराजभार्यायाः रसमाभिधानायाः गर्भत्वेन व्युत्क्रान्तो मूलनक्षत्रे मार्गशीर्ष-बहुलपञ्चम्यां जातः, तथा मूल एव ज्येष्ठशुद्धप्रतिपदि, मतान्तरेण-मार्गशीर्षबहुलषष्ट्या, निष्क्रान्तः। तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुत्पन्नम्। तथाऽश्वयुजः शुद्धनवम्याम, आदेशान्तरेण-वैशाखबहुलषष्ठ्यां, निवृत इति / तथा शीतलो दशमजिनः प्राणतकल्पाविंशतिसागरोपमस्थितिकाद्वैशाखबहुलषष्ठयां पूर्वाषाढानक्षत्रे च्युतः, च्युक्त्वा च भविलपुरे दृढरथनृपति-- भाया नन्दायाः गर्भतया ब्युत्क्रान्तः, तथा पूर्वापाढास्वेव माघ-बहुलद्वादश्यां जातः, तथा पूवाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्तः, तथा पूर्वाषाढास्वेव पौपस्य शुद्धे, मतान्तरेणबहुलपक्षे, चतुर्दश्या ज्ञानभुत्पन्नम, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्या, मतान्तरणे-श्रावणबहुलद्वितीयायां, निर्वृत इति / एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या। नवरं चतुर्दशसूत्रेऽभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह-(समणे इत्यादि) हस्तोपलक्षिता उत्तरा हस्तोत्तरा, हस्तो वोत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः, पञ्चसु च्यवनगर्भहरणाऽऽदिषु हस्तोत्तरा यस्य स तथा, गर्भात गर्भस्थानात्। (गभ ति) गर्भे गर्भस्यानान्तरे संहृतो नीतो, निर्वृतस्तु स्वातिनक्षत्रे कार्तिकामावास्यायामिति / स्था०५ ठा०१उ०। (68) पर्यायान्तकृद भूमिःतेसिं चिय नाणाओ, मुणीण गयकम्मयाण सिद्धिगमो। अंतमुहुत्ते दुतिचउ-वरिसेसुं इगदिणाईसु॥३२४॥ तेषामृपभनेमिपावन्तिमशेषाणां केवलज्ञानाद् मुनीनां गतकर्मकाणां सिद्धिगमो मोक्षगमनं संजातम्। ऋषभजिनस्य केवलोत्पत्त्यनन्तरमन्तमुहूर्तेन मोक्षमार्गश्चलितः, प्रथमभगवति मरुदेवी स्वामिनी मोक्षं गता१। नेमिजिनस्य केवलज्ञानाद्वर्षद्वयादनन्तरं मोक्षमार्गश्चलितः। पाजिनस्य केवलोत्पत्त्यनन्तरं वर्षत्रयेण मोक्षमार्गश्चलितः 3 / वीरजिनस्य केवलज्ञानादनन्तरं वर्षचतुष्टयादनन्तरं मोक्षमार्गश्चलितः 4 : उक्तव्यति