________________ तित्थयर 2286 - अभिधानराजेन्द्रः - भाग 4 तित्थयर प्रधानपुष्पशय्याया दोहदाद्वा मल्लिः 16 / (मुणिसुव्वओ जहत्थाऽ- | मिहोत्ते) मुनिसुव्रतः यथार्थाभिधो यथार्थनामामन्यते जगतस्विकालावस्थामिति मुनिः, सुष्ठ व्रतान्यस्येति सुव्रतः, ततो मुनिश्चासौ सुव्रतश्चेति, मुनिवत् सुव्रतो मुनिसुव्रत इति वा 20 (तहऽबा वि तारिसी गब्भे त्ति) तथाऽभ्याऽपि माताऽपि, भगवति गर्भस्थे सति मुनिवत् सुव्रता जातेति मुनिसुव्रतः 20 / इति गाथार्थः।१८।। रागाऽऽइनामणेणं, गब्भे पुररोहिनामणा उ नमी। दुरियतरुचक्कनेमी-ऽरिट्ठमणिनेमिसुविणाओ।।१६।। (रागाऽऽइनामणेणं) रागद्वेषाऽऽदिशत्रूणां नामनेन नम्रीभूतत्वकरणेन नमिः “गम्भे पुररोहिनामणा उ नमि त्ति) गर्भे पुररोधिनामनान्नमिः / अयमर्थ:-भगवति गर्भस्थे प्रत्यन्तनृपैरवरुद्ध नगरे भगवत्सुपुण्यशक्तिप्ररितां प्राकारोपरि स्थितां भगवन्मातरमवलोक्य ते वैरिणो नृपाः प्रणता इति नमिः 21 / (दुरियतरुचक्कनेमि त्ति) दुरितानि पापानि तद्रूपास्तरवस्तद्विषय चक्रनेमिः चक्रधारा, अतो नेमिः / (ऽरिट्टमणिनेमिसुविणाओ त्ति) भगवन्मात्रा स्वप्नेऽरिष्टरत्नमयो नेमिदृष्टरस्तेन ‘‘पदैकदेशे पदसमुदायात्" अरिष्टनेमिः 22 // इति गाथार्थः / / 16 / / भावाण पासणेणं, निसि जणणीसप्पपासणा पासो। नाणाइधणकुलाऽऽईण वद्धणा वद्धमाणो णं / / 20 / / (भावाण पासणेणं) सकलसंसारवर्तिनां भावानां पदार्थानां दर्शनेनाऽवलोकनेन पार्श्वः / (निसि जणणीसप्पपासणा पासो त्ति) निशि रात्रौ जनन्या शय्यासमीपे व्रजन् सर्पोऽवलोकित इति पार्श्वः 23 / (नाणाइधणकुलाईण वद्धणा बद्धमाणो त्ति) ज्ञानदर्शनचारित्राणां वर्द्धनाद् धनकुलाऽऽदीनां च वर्द्धनतो वर्द्धमानः / अत्र ज्ञानाऽऽदीनां वर्द्धनाद् वर्द्धमान इति सामान्यार्थः। कुलधनाऽऽदीनां वर्द्धनाद्वर्द्धमान इति विशेषार्थश्च 24 / इति गाथार्थः / 20 / अथ वीर इति नामापेक्षया सामान्यविशेषार्थमाहअहवा भावारिजया, वीरो दुट्ठसुरवामणीकरणा। सामन्नविसेसे हिं, कमेण नामत्थदारदुर्ग / / 21 / / (अहवा भावारिजया वीरो त्ति) अथवा भावारीणामन्तरङ्गाऽऽरीणा जयाद् वीरः 24 / (दुट्ठसुरवामनीकरण त्ति) आमलकीक्रीडाया दुष्टसुरवामनीकरणाद्वीरः 24 / (सामनविसेसेहिं ति) सामान्यविशेषाभ्यां क्रमेणानुक्रमेण (नामत्थदारदुर्ग) नामार्थेन नाम्नोऽर्थद्विकेन द्वारद्विकं ज्ञेयमिति गाथार्थः / / 21 / / सत्त०४०-४१ द्वार। चतुर्विशन्तिः "एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ। अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः // 26 // सुपार्श्वश्चन्द्रप्रभश्च, सुविधिश्चाऽथ शीतलः। श्रेयांसो वासुपूज्यश्व, विमलोऽनन्ततीर्थकृत्॥२७॥ धर्मः शान्तिः कुन्थुररो, मल्लिश्च मुनिसुव्रतः। नमिर्नेमिः पाॉ वीरश्चतुर्विशतिरर्हताम् // 28 // पुनरपिगाथार्थराहएतस्यामिति वर्तमानायामवसर्पिण्या दशसागरोपमकोटीकोटिप्रमाणाया कालविशेषे, ऋषति गच्छति परमपदमिति 'ऋषिवृषिलुसिभ्यः कित्" ।।(उणा० 331) इत्यभे ऋषभः / यदा-ऊर्वोवृषभलाञ्छनमभूदगवतो जनन्या च चतुर्दशानां स्वप्नानामादा-वृषभो दृष्टस्तेन ऋषभः / / 1 / / परीषहाऽऽदिभिर्न जित इति अजितः। यद्वा गर्भस्थेऽस्मिन् द्यूते राज्ञा जननी न जितेत्यजितः / / 2 / / शं सुख भवत्यस्मिन् स्तुते शंभवः / यदा-गर्भगतेऽप्यस्मिन्नभ्यधिकसस्यसंभवात् संभवोऽपि / / 3 / / अभिनन्द्यते देवेन्द्राऽऽदिभिरित्यभिनन्दनः / भुज्यादित्वादनट् / यद्वा-गर्भात्प्रभृत्ये व अभीक्षण शक्रेणाऽभिनन्दनादभिनन्दनः // 4 // शोभना मतिरस्य सुमतिः / यद्वागर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः // 5 // निष्पकतामङ्गीकृत्य पद्मस्येव प्रभाऽस्य पद्मप्रभः। यद्वा-पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति वा पद्मप्रभः // 6 // 26 // शोभनौ पावविस्य सुपार्श्वः / यद्वा-गर्भस्थे भगवति जनन्यपि सुपाश्वाऽभूदिति सुपार्श्वः // 7 // चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्य चन्द्रप्रभः / तथा गर्भस्थे देव्याः चन्द्रपानदोहदोऽभूदिति चन्द्रप्रभः ||8|| शोभनो विधिविधानमस्य सुविधिः / राद्वा- गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः / / 6 / / सकलसत्त्वसन्तापहरणात् शीतलः / तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः / / 10 / / श्रेयांसावंसावस्य श्रेयांसः, पृषोदराऽऽदित्वात् / यथा-- गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताऽधिष्ठितशय्या जनन्याऽऽक्रान्तेति श्रेयो जातमिति श्रेयांसः / / 11 / / वसुपूज्यनुपतेरयं वासुपूज्यः / यद्वा-गर्भस्थेऽस्मिन् वसु हिरण्य, तेन वासवो राजकुलं पूजितवानिति / वसवो देवविशेषाः / तेषां पूज्यो वा वसुपूज्यः, प्रज्ञाऽऽद्याणि वासुपूज्यः / / 12 / / विगतो मलोऽस्य, विमलज्ञानाऽऽदियोगाद्वा विमलः / यद्वा-गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः / / 13 / / न विद्यते गुणानामन्तोऽस्यानन्तः, अनन्तजिदेकदेशो वा अनन्तः, "भीमो भीमसेनः" इति न्यायात्। स चासौ तीर्थकृच अनन्ततीर्थकृत् / / 14 / 27 / / दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः / तथा गर्भस्थे जननी दानाऽऽदि-धर्मपरा जातेति धर्मः // 15 // शान्तियोगात्तदात्मकत्वात्तत्कर्तृकत्वाचाऽयं शान्तिः। तथा गर्भस्थे पूर्वोत्पन्नाऽशिवशान्ति-रभूदिति शान्तिः // 16|| कुः पृथ्वी तस्यां स्थितवानिति कुन्थुः, पृषोदराऽऽदित्वात्।तथा गर्भस्थे भगवति जननी रत्नानां कुन्थुराशिं दृष्टवतीति कुन्थुः / / 17|| "सर्वो नाम महासत्त्वः, कुले य उपजायते / तस्याऽभिवृद्वये वृद्ध-रसावर उदाहृतः।।१।।" इति वचनादरः / तथा गर्भस्थे भगवति जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः / / 18 / / परीषहाऽऽदिमल्लजयान्निरुक्तान्मल्लिः / तथा-गर्भस्थे भगवति मातुःसुरभिकुड्कुममाल्यशयनीय दोहदो देवतया पूरित इति मल्लिः // 16 // मन्यते जगतस्विकाला-वस्थामिति मुनिः, "मनेरुदेतौ चास्य वा" / / (उणा०६१२) इति इप्रत्यये उपान्त्यस्योत्यं, शोभनानि व्रतान्यस्य सुव्रतः, मुनिश्वासौ सुव्रतश्च मुनिसुव्रतः। तथा गर्भस्थेजननी मुनिवत् सुव्रता जातेति मुनिसुव्रतः॥२०॥ परीषहोपसर्गाऽऽदिनामनात् "नमेस्तुवा" ॥(उणा०६१३) इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः। यद्वा-गर्भस्थेभगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः // 21 // धर्मचक्रस्य नेमिवन्नेमिः; नेमीतीन्नन्तोऽपि दृश्यते / यथा- ''वन्दे सुव्रतनेमिनौ / " इति // 22 // स्पृशति ज्ञानेन सर्वभावानिति पार्श्वः। तथा-गर्भस्थे जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्वः, पायो-ऽस्य वैयावृत्त्यकरो यक्षः, तस्य नाथः पार्श्वनाथः, "भीमो भीमसेनः" इति न्यायाद् वा पार्श्वः // 23 // विशेषेण ईरयति प्रेरयति कर्माणीति वीरः |24|| इत्यभिधानचिन्तामणौ श्रीहेमचन्द्रसूरयः।