________________ तित्थयर 2286 - अभिधानराजेन्द्रः - भाग 4 तित्थयर न पर्वताऽऽयुः, इत्याशीर्वचनं ददतीति / तत उक्तसकलकार्यकरणानन्तरं तारुचकमध्यवास्तव्याश्चतस्रो दिक्कुमारीमहत्तरिका भगवन्तं तीर्थकर करतलपुटेनतीर्थकरमातरं चबाहुभिर्गृहन्ति, गृहीत्वा च यत्रैव भगवतस्तीर्थकरस्य जन्मभवन, तत्रैवोपागच्छन्ति, उपागत्य च तीर्थकरमातृशय्यायां निषादयन्ति, निषाद्य च भगवन्तं तीर्थकर मातुः पार्श्वे स्थापयन्ति, स्थापयित्वा च नातिदूराऽऽसन्ने आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति। एतासां च मध्येऽष्टावधोलोकवासिन्यो गजदन्तगिरीणामधोभवनवासिन्यः। यत्त्वेतदधिकारसूत्रे "सएहिं सएहिं कूडेहिं" इति पदम् तदपरसकलदिकुमार्यधिकारसूत्रपाठसंरक्षणार्थम्, साधारणरात्रपाठे हि यथासम्भवं विधिनिषेधौ समाश्रयणीयाविति ऊर्द्धलोकवासिन्योऽष्टौ नन्दनवने योजनपक्षशतिककूटवासिन्यः, अन्याश्च सर्वा अपि रुचकसत्ककूटेषु योजनसहस्रोचेषु मूले सहस्रयोजनविस्तारेषु शिरसि पञ्चशतविस्तारेषुवसन्ति। उक्त षट्पञ्चाशद् दिक् कुमारी-कृत्यमिति। जं०५ वक्षा (64) देवदूष्याणिसव्वे वि एगदूसे-ण णिग्गया जिणवरा चउव्वीसं। सर्वेऽपि भगवन्तोऽतीता अपि जिनवराः चतुर्विशतिसंख्याः, चतुविशतिरित्यनेन सर्वास्वप्यवसर्पिणीपूत्सर्पिणीषु च प्रत्येकं भरतक्षेत्रे चतुर्विशतिरेव तीर्थकरा अभूवन्निति ख्यापितम्। एकदुष्येण--एकेन वस्त्रेण, निर्गता अभिनिष्क्रान्ताः / तद्यदि भगवन्तोऽप्येकदृष्येण निर्गता इति सोपधयोऽभवन, कि पुनस्तन्मतानुवर्तिनः शिष्या न सोपधयः? तत्रय उपधिरासे वितो भवद्भिः स साक्षादेवोक्तः। यः पुनर्विने येभ्यः स्थविरकल्पिकाऽऽदिभेदभिन्नेभ्योऽनुज्ञातः, स खलु ग्रन्थान्तरादवसेयः। आ० म०१ अ०१ खण्ड देवदूष्यवस्त्रस्थितिमाहसक्को य लक्खमुल्लं, सुरसं ठवइ सव्वजिणखंधे। वीरस्स वरिसमहियं, सया वि सेसाण तस्स ठिई 1156) शक्रश्च लक्षमूल्यं देवदूष्यं वस्त्रं सर्वजिनस्कन्धे स्थापयति / तत् श्रीवीररस साधिक वर्ष स्थितम्। उक्तं च कल्पसूत्रे-"संवच्छरं साहि मासं जाव चीवरधारी होत्थ त्ति / " मासेकेनाधिकं वर्ष श्रीवीरेण वस्त्र धृतम। शेषजिनानां त्रयोविंशतेरपि तीर्थकृता, सदाऽपि यावजीवमपि, तस्य वस्त्रस्य, स्थिति येति / सत्त०७३ द्वार। (देहमानमुत्सेधाङ्गुलविचारे 2261 पृष्ठे पूर्वमुक्तम्) (65) अथ प्रसङ्गतः तीर्थकरप्रतिपादितत्वेन धर्मभेदानाहदाणं सीलं च तवो, भावो एवं चउव्विहो धम्भो। सव्वजिणेहिं भणिओ, तहा दुहा सुयचरित्तेहिं / / 266|| सुपात्रे दान देयम्, त्रिकरणशुझ्या शीलं पालनीयम्, यथाशक्ति तपो विधिवद्विधेयम्, साधुपुरुषेण शुभभावना भावनीया। एवं चतुर्विधो धर्मः (सव्वजिणेहि भणिओ) सर्वजिनैश्चतुर्विशतिजिनेर्भणितः कथितः। तथा द्विधा धर्मः श्रुतचारित्राभ्याम्, एकः श्रुतधर्मः, द्वितीयश्चारित्रधर्मः / इति गाथाऽर्थः / / 266 // सत्त०४१ द्वार। अथ धर्मप्रसङ्गात्पुण्यमौचित्ये प्रवर्तत इत्यौचित्याष्टकम् / पुण्यानुबन्धिपुण्यं प्रधानफलतो दर्शयन्नाह अतः प्रकर्षसंप्राप्ता-द्विज्ञेयं फलमुत्तमम्। तीर्थकृत्त्वं सदौचित्य-प्रवृत्त्या मोक्षसाधकम्।।१।। अत अरमात पुण्यानुबन्धिपुण्यात प्रकर्षसंप्राप्तादतिप्रकृष्टतां गताद्विशेय ज्ञातव्यं फलं कार्यमुत्तमं प्रधानं तीर्थकृत्त्वं तीर्थकरत्वम् / किस्वरूप तदित्याह-सदा सर्वकालमागर्भावस्थाया औचित्यप्रवृत्त्या यथार्हप्रवर्त्तनन मोक्षसाधकं निर्वाणप्रापकमिति // 1 // औचित्यप्रवृत्तिमेवाऽऽप्तस्य सार्वदिकी दर्शयितुमाहसदौचित्यप्रवृत्तिश्च, गर्भादारभ्य तस्य यत्। तत्राऽप्यभिग्रहो न्याय्यः, श्रूयते हि जगदुरोः / / 2 / / सदा सर्वकालमांचित्यप्रवृत्ति संगतभावनम्, चशब्दः पुनः शब्दार्थः / गर्भादारभ्य गर्भावस्थामवधीकृत्य, तस्येति यः प्रकृष्टपुण्यानुबन्धिपुण्यफलभूतस्तस्य तीर्थकरस्य, भवतीति शेषः / कुत एतदेवं सिद्धमित्याह-यद्यस्मात्कारणात, तत्राऽऽदिगर्भेऽप्यास्तां प्रव्रज्याप्रतिपत्ती, अभिग्रहः प्रतिज्ञाविशेषो वक्ष्यमाणस्वरूपो, न्याय्यो न्यायादनपेतः, श्रूयते आकर्यत, हिशब्दो वाक्यालङ्कारे,जगद्गुरोत्रिलोकगौरवार्हस्य महावीरस्येति भावना / / 2 / / किमर्थमसावभिग्रह इत्याहपित्रुद्वेगनिरासाय, महतां स्थितिसिद्धये। इष्टकार्यसमृद्ध्यर्थमेवंभूतो जिनाऽऽगमे / / 3 / / माता च पिता च पितरौ, तयोरुद्वेगश्चित्तसंतापः तस्य निरासोऽभावः पित्रुद्वेगनिरासः, तस्मै पित्रुद्वेगनिरासाय। यतन्ते च महान्तो विश्वस्याऽपि उद्वेगनिरासार्थम्, तेषां तथा- स्वभावत्वाद, विशेषतः पुनः पित्रोरतिदुःखप्रतीकारित्वात्तयोरिति / तथा महतां महापुरुषाणां स्थितिसिद्धये व्यवस्थासाधनाय। अन्येऽपि महान्तो मातापित्रुद्वेगनिरासेन प्रवर्तन्तामित्येतदर्थमित्यर्थः, प्रधानमार्गानुसारित्वाज्जनस्येति / तथा इष्टकार्य वाञ्छितप्रयोजनं मोक्षार्थिनां मोक्षोपायभूता प्रव्रज्या, तस्य समृद्धिनिष्पत्तिरिष्टकार्यसमृद्धिः, तस्यै। इदनिष्टकार्यसमृद्ध्यर्थमिदं चाभिग्रहः, कृत इति गम्यमानक्रियाविशेषणम् मोक्षसिद्धिहेतोरित्यर्थः / सिद्ध्यति हि मोक्ष उचितप्रवृत्त्या, अनुचितप्रवृत्तिस्तु तद्विघ्न इति / एवम्भूतो वक्ष्यमाणस्वरूपः, अभिग्रह इति योगः। जिनाऽऽगमे आप्तवचने, श्रूयते इति संबन्धः / उच्यते चाऽऽवश्यनियुक्तौ-"अह सत्तमम्मि मासे, गम्भत्थो चेवऽभिग्गहं गहिओ। नाहं समणो होहं, अम्मापियरम्मि जीवते" ||1|| इति // 3 // ___अथवा यथाभूतोऽभिग्रहः श्रूयते, तथाभूतमेवाऽऽहजीवतो गृहवासेऽस्मिन्, यावन्मे पितराविमौ। तावदेवाधिवत्स्यामि, गृहानहमपीष्टतः॥४॥ किल भगवान् श्रीमन्महावीरवर्द्धमानस्वामी देवभवाच्च्युत्वा पूर्वभवोपात्तनीचैर्गोत्राभिधानकर्मशेषवशाद् ब्राह्मणकुण्डग्रामाभिधाननगरनिवासिऋषभदत्ताभिधानद्विजातिजायाया देवानन्दाभिधानायाः कुक्षावुत्पन्नः। अथ व्यशीतितमादिवसे सिंहासनचलनजनितावधिप्रयोगपुरन्दरप्रयुक्तहरिनेगमेषिनाम्नादेवेन क्षत्रियकुण्डाभिधाननगरनायकरिसद्वार्थाभिधाननरपतिप्रधानपल्यास्त्रिशलाभिधानाया गर्भे संक्रमितः / ततो देवानन्दामुपलब्धचतुर्दशमहास्वप्नापहारा सम्भावितगर्भसहारां हृतसर्वस्वमिवाऽतिशोकसागरनिमग्नामवधिनाऽवबुद्धयाऽहो ! अस्म