________________ तित्थयर 2287 - अभिधानराजेन्द्रः - भाग 4 तित्थयर निमित्तमेषाऽनाख्येयदुःखमवाप्तवत्येवमेषाऽपि त्रिशला मदगचलनचेष्टानिमित्तमसुखमथ मा प्रापदित्यालोच्य निश्चलोऽवतस्थे / ततोऽसौ निस्पन्दतां गर्भस्यावगम्य गलितो गर्भो ममेति भावनया गाढतरं दुःखसमुदयमगमत् / ततो भगवास्तद् दुखवितोदाय स्फुरति स्म / पालोचयाञ्चकार च-यदुताऽदृष्टेऽपि मयि मातापितोरहो गाढः स्नेहः, दृष्ट पुनः परिचयादवगतगुणग्रामे गाढतरोऽसौ भावी, ततः प्रव्रजनतो वियुज्यमाने शोकातिशयान्महाननन्तस्तापो भविष्यति, ततोऽनयोर्जी - बतोस्तत्संतापपरिहारार्थमप्रव्रजितेन मया भाव्यमिति सप्तममासाऽभिग्रहं जग्राहेति श्लोकसमुदायार्थः / / अक्षरार्थस्त्वयम्-जीवतः प्राणान्धारयतः, पितराविति योगः। गृहवासे गृहस्थतायामस्मिन्नधुनातने, न पुनर्देवाऽऽदिभवसम्भवेऽपि, यावद् यत्परिमाणमिति पितृजीवनक्रियाविशेषणम् / मे मम संबन्धिनाविडी प्रत्यक्षाऽऽसन्नौ त्रिशलासिद्धार्थलक्षणी, न पुनर्ऋषभदत्तदेवानन्दास्वरूपौ' तावदेव तत्परिमाणमेव, न पुनरधिकं विरतावभिष्वङ्गाचेत्थमुक्तमवधारणम्, एतच्चाधिवत्स्यामीति क्रियाविशेषणम्। अधिवत्स्यामि अध्यासिष्ये, गृहान् गेहम् 'गृहशब्दो हि पुंल्लिङ्गो बहुवचनान्तोऽप्यस्तीति।" अथवा-राजत्वाद् बहुगृहाधिपतित्वमनेनदर्शितम्। अहमपि न केवल पितरौ गृहानधिवत्स्येत इत्यपिशब्दार्थः / इष्टमिच्छा, तदाश्रित्याऽधिष्ठितः, इच्छया स्वच्छन्दतया, न पुनः पारवश्येनेति भावः / ननुतावन्तं कालं चारित्रमोहनीयकर्मविशेषोदये सति तस्य गृहावस्थानम्, अन्यथा वा? तत्र यद्याद्यः पक्षः, तदा कर्मविशेषोदय एव तत्रावस्थानकारणं, नाभिग्रहग्रहणं, तत् किं तद् ग्रहणेन? अथवाचारित्रमोहनीयविशेषोदयाभाव इति पक्षः / तदप्यसङ्गतम् / मोहकर्मविशेषोदयाभावे विरतेरेव भावेन गृहावस्थानासम्भवात् व्यर्थमेवाभिग्रहकरणम् ? अत्रोच्यते-मोहनीयविशेषोदय एव तत्र तस्यावस्थानं, किं तु तत्कर्मणः सोपक्रमत्वेन पित्रुद्वेगनिरासाऽऽद्यवलम्बनाभिग्रहानङ्गीकरणे विरतेरेव भावान्न गृहावस्थानहेत्वभिग्रहकरणमसङ्गतम्। उच्यते च सोपक्रमता कर्मणाम / यदाह--"उदयक्खयखउवसमो-वसमा ज चेह कम्मुणो भणिया। दव्वं खित्तं कालं, भवं च भावं च तं पप्प // 1 // " इति / इहोक्तविशेषणाभिग्रहलक्षणं भावमाश्रित्य चारित्रमोहोदयः, तदभावलक्षणं च भावमाश्रित्य तत्क्षयोपशम इति न व्यर्थमभिग्रहकरणमिति। ननूक्तभिग्रहकरणात् पित्रु गनिरासो महतां च स्थितिसिद्धिरिति सङ्गतम्. यत्पुनरिष्टकार्यसमृद्धिरिति, तदसाम्प्रतम्, गृहावस्थान-स्य प्रव्रज्याविरोधित्वादित्यस्यामाशङ्कायामाहइमौ शुश्रूषमाणस्य, गृहानावसतो गुरू। प्रव्रज्याऽप्यानुपूर्ये ण, न्याय्याऽन्ते मे भविष्यति / / 5 / / इमो प्रत्यक्षाऽऽसन्नी, गुरू इति संबन्धः / शुश्रूषमाणस्य परिचरतो, मे इतियोगः / तथा-तच्छुश्रूषणार्थमेव गृहान गेहमावसतोऽधितिष्ठतः सतः, गुरू मातापितरौ, प्रव्रज्याऽपि चिकीर्षितानगारिताऽपि, आस्तां पित्रु गनिरासाऽऽदि, आनुपूर्वेण परिपाट्या, न्याय्यान्यायोपपन्ना, युक्तेत्यर्थः / अन्ते गुरुशुश्रूषावसाने एव, मे मम, भविष्यति संपत्स्यते // 5 // कुत एतदेवमित्याह सर्वपापनिवृत्तिर्यत्,सर्वथैषा सतां मता। गुरूद्वेगकृतोऽत्यन्तं, नेयं न्याय्योपपद्यते // 6 // सर्वपापनिवृत्तिरशेषसावधानुष्ठानव्युपरतिः, यद्यस्मात्सर्वथा सर्व : प्रकारनिमित्ताभविनापीत्यर्थः, एषा प्रव्रज्या, सतां विदुषां, मता इष्टा. इह तस्मादिति शेषो दृश्यः / तस्माद्गुरूद्वेगकृतो मातापितृचित्तसन्तापकारिणः, अत्यन्तमतिशयेन, तत्संबोधनपूर्वकं शास्त्रोक्ततत्संबोधनोपायाप्रयोगपूर्वकं वा प्रवृत्तस्य, न नैव, इयं प्रव्रज्या, न्याय्या युक्ता, उपपद्यते घटते, पितृसंतापरक्षयो पायाप्रवृत्तत्वेन निमित्तभावेन तचित्तसंतापलक्षणपापकारित्वात्तस्येति। परिहर्तव्यश्च तचित्तसंतापः / यदाह- "अपडिबुज्झमाणे कहिं वि पडिबोहिज्जा अम्मापियरो।" प्रव्रज्याऽभिमुखीकुर्वीतत्यर्थः / “अपडिबुज्झमाणेसु य कम्मपरिणईए विहएजा जहासत्ति तदुवगरणं, तओ अणुन्नाए पडिवजिज्ज धम्म।" अथ नानुजानीतस्तदा''अणुवहे चेव उवहिजुत्ते सिया।" अल्पायुरहमित्यादिकां मायां कुर्यादित्यर्थः / एवमुपायप्रवृत्तमपि यदा न मुत्कलयतः, तदा तौ त्यजेत्। नच तो त्यजतस्तचित्तसंपातेऽपि तस्य दोषः, विशुद्धभावत्वात् / यदाह-सव्वहा अपडिवुज्झमाणे वएजा अदाणे गिलाणओ सव्वत्थ चागनाएण।" यथाऽध्वनिग्लानीभूतयोः पित्रोरौषधार्थ गच्छतः तत्त्यागोऽत्याग एवभावतः, एवं तयोः स्वस्यान्येषां चोपकाराय प्रव्रजत इति ज्ञातभावना / अत एव–'सोयणमचंदण बिलवण च तं दुक्खिओ तओ कुणइ / सेवइ जं च अकजं, तेण विणा तस्स सो दोसो।।१।।' इत्यादिकमाक्षिष्यैवं परिहृतम्-"अब्भुवगमेण भणिय, न उ विहिचागो पि तस्स हेउत्ति। सोगाइम्मि वितेसिं, मरणे व्य विसुद्धचित्तस्स / / 1 / / " क्वचित् पठ्यते-"सर्वपापनिवृत्तिा।" इति। तत्र व्याख्येयम् सर्वथा सर्वपापनिवृत्तिरेषां सतां मता, गुरूद्वेगकारिणश्चात्यन्तं नेयं सर्वपापनिवृत्तिाय्योपपद्यत इति।। कस्मादेवमित्याहप्रारम्भमङ्गलं ह्यस्याः , गुरुशुश्रूषणं परम्। एतौ धर्मप्रवृत्तानां, नृणां पूजाऽऽस्पदं महत्।।७।। प्रारम्भमङ्गलमादिमङ्गलं, हिर्यस्मात्, अस्याः प्रव्रज्यायाः, गुरुशुश्रूषणं मातापितृपरिचरण परं प्रकृष्ट, भावमङ्गलमित्यर्थः / प्रारम्भमङ्गलतैवास्य कुतः? इत्याह-एतौ गुरू धर्मप्रवृत्तानां मोक्षहेतुसदनुष्ठानसमुपस्थिताना, नृणां पुंसां, नृग्रहणं च प्रधानतया तेषां, न तु तदन्यव्यवच्छेदार्थम् / पूजाऽऽस्पदमर्हणापदम्, महद् गुरुकम्।यदाह-"इह मातापितृपूजा, आमुष्मिकयोगकारणं ज्ञेया। तदनुज्ञया प्रवृत्तिः, प्रधानदीक्षाविधानार्थम् // 1 // " पूजाऽऽस्पदत्वमेव समर्थयन्नाहस कृतज्ञः पुमान् लोके, स धर्मगुरुपूजकः। स शुद्धधर्मभाक् चैव, य एतौ प्रतिपद्यते // 8|| स इति। य एतौ प्रतिपद्यते स एव कृतज्ञः पितृकृतोपकारज्ञाता, पुमान्नरः, लोके लौकिकमार्गे , तथा स एव धर्मगुरोर्दीक्षाचार्यस्य, पूजकः पूजयिता धर्मगुरुपूजकः, भविष्यतीति गम्यते / नान्यः / यदाह-''उपकारीति पूज्यः स्याद, गुरू चाऽऽद्योपकारिणौ। तावप्यर्चयते यो न, स हि धर्मगुरु कथम्? / 1 / " तथा स इति / स एव शुद्धधर्मभाक् निर्दोषकुशलधर्मभाजनं भवति। चशब्दः समुचये। एवशब्दोऽवधारणे। तस्य च दर्शितः प्रयोगः / यः पुमान् एतौ मातापितरौ प्रतिपद्यते सेवनतोऽङ्गीकरोति।