________________ तित्थयर 2276 - अभिधानराजेन्द्रः - भाग 4 तित्थयर त 2 / तत्र अधोलोके गजदन्तगिरिचतुष्टयस्याधस्तादष्टानां दिक् - कुमारीणां भवनानि सन्ति। एतच्च सामान्यमात्रेणैव स्थानमुक्तम्। विशेषण तु संप्रदायगम्यम्। तथा-ऊर्द्धलोके मेरोरुपरिनन्दनवने अष्टौ कूटानि सन्ति / तेषामुपरि अष्टानां दिक्कुमारीणां भवनानि सन्ति / (चउदिसि रुयगाउत्ति) चतुर्दिवर्तिरुचकात्रुचकानेर्दिक्चतुष्टयादित्यर्थः। (अट्ठ पत्तेयं ति) एतेभ्यः षट्स्थानकेभ्यः प्रत्येकमष्टावष्टौ समागच्छन्ति / एवमष्टचत्वारिंशद् दिक्कुमार्यो जाताः। (चउ विदिसिभज्झरुयग त्ति) / चतखो विदिक सचकात, रुचकगिरिविदिग्भ्य इत्यर्थः / चतस्रो मध्यरुचकान्तात्रुचकद्वीपमध्यादित्यर्थः / (इंती छप्पन्न दिसिकुमरी) आगच्छन्ति एवं षट् पञ्चाशद् दिक् कुमार्यः / इति गाथार्थः / / 101 / / सत्त०३३ द्वार। अधोलोकवासिन्योऽष्टकुमार्य:जयाणं एकमेक्के चक्कवट्टिविजए भगवंतो तित्थयरा समुप्पजंति, तेणं कालेणं तेणं समएणं अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरिआओसएहिं सएहिं कूडे हिंसएहिं सएहिं भवणेहिं सएहिं सएहिं पासायवर्डसएहिं पत्ते पत्तेअं चउहिं सामाणिअसाहस्सीहिं चउहिं महत्तरिआहिंसपरिवाराहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवईहिं सोलसएहिं आयरक्खदेवसाहस्सीहिं अण्णेहि अबहूहिं वाणमंतरेहिं देवेहिं देवीहि असद्धिं संपरिवुडाओ महयाहयणट्टगीअवाइअ०जाव भोगभोगाई भुंजमाणीओ विहरंति / तं जहा "भोगकरा 1 भोगवई 2, सुभोगा 3 भोगमालिनी / / तोयधारा५ विचित्ताय 6, पुप्फमाला 7 अणिंदिया"||१|| (तेणं कालेणं इत्यादि) तस्मिन् काले संभवजिनजन्मके भरतैरावतेषु तृतीयचतुर्थारकलक्षणे, महाविदेहेषु चतुर्थारकप्रविभागलक्षणे, तत्र सर्वदाऽपि तदाद्यसमयसदृशकालस्य विद्यमानत्वात् / तस्मिन् समये सर्वत्राप्यर्द्धरात्रलक्षणे, तीर्थकराणां हि मध्यरात्र एव जन्मसंभवात्। अधोलोकवास्तव्याः, चतुर्णा गजदन्तानामधः समभूतलाद् नवशतयोजनरूपां तिर्यग लोकव्यवस्था विमुच्य प्रतिगजदन्तं द्विद्विभावेन तत्र भवनेषु वसनशीलाः / यत्तु गजदन्ताना षष्ठपञ्चमकूटेषु पूर्व गजदन्तसूत्रे आसा वासः प्ररूपितः, तत्र क्रीडार्थमागमनं हेतुरिति, आसामपि चतुःशतयोजनाऽऽदिपञ्चशतयोजनाऽऽदिपञ्चशतयोजनपर्यन्तोचत्वगजदन्तगिरिगतं पशशतिककूटगतप्रासादावतंसकवासित्वेन नन्दनवनकूटगतमेघराऽऽदिदिकुमारीणामिवोर्द्धलोकवासित्वाऽऽपतिः / अथ प्रकृतं प्रस्तुमः-अष्टौ दिक् कुमार्यो दिक् कुमारा भवनपतिजातीयाः, महत्तरिकाः स्ववर्गेषु प्रधानतरिकाः, स्वकेषु स्वकेषु कूटेषु गजदन्ताऽऽदिगिरिवर्तिषु, स्वकेषु स्वकेषु भवनेषु भवनपतिदेवाऽऽवासेषु, स्वकेषु स्वकेषु प्रासादावतंसकेषु स्वस्वकूटवर्त्तिक्रीडाऽऽवासेषु / सूत्रेषु च सप्तम्यर्थे तृतीया प्राकृतत्वात्। प्रत्येक प्रत्येकं चतुर्भिः सामानिकानां दिक्कु मारिसदृशद्युतिविभवाऽऽदिकदेवानां सहस्रः, चतसृभिश्च महत्तरिकाभिर्दिकुमारिकातुल्यविभवाऽऽदिभिस्ताभिरन- | तिक्रमणीयवचनाभिश्च स्वस्वपरिवारसहिताभिः, सप्तभिरनीकैर्हस्त्यश्वस्थपदातिमहिषगन्धर्वनाट्यरूपैः सप्तभिरनीकाधिपतिभिः, षोडशभिरात्मरक्षक देवसहस्ररित्यादिकं सर्व विजयदेवाधिकार इव व्याख्येयम् / ननु कासाश्चिद्दिकुमारीणां युक्त्या स्थानाङ्गे पल्योयमस्थितेर्भणनात समानजातीयत्वेनासामपि तथाभूतायुषः संभाव्यमानत्वाद भवन पतिजातीयत्वं सिद्धम्, तेन भवनपतिजातीयाना वानमन्तरजातीयपरिकरः कथ संगच्छते? उच्यते-एतासामहर्द्धिकत्वेन ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति। अथवा वानमन्तरशब्देनाऽत्र वनानामन्तरेषु चरन्तीति यौगिकार्य संश्रयणाद् भवनपतयोऽपि वानमन्तरा इत्युच्यते। उभयेषामपि प्रायो वनकूटाऽऽदिषु विहरणशीलत्वादिति सम्भाव्यते। तत्त्व तु बहुश्रुतगम्यमिति सर्व सुस्थम्। अथैतासा नामान्याह-(तं जहा इत्यादि) तद्यथा-''भोगंकरा'' इत्यादि / रूपकमेतत् कण्ठ्यम्। एतासामासनानि चलन्तितए णं तासिं अहोलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीणं महत्तरिआणं पत्ते पत्ते आसणाइं चलंति / तए णं ताओ अहोलोगवत्थव्वाओ अट्ट दिसाकुमारीओ महत्तरिआओ पत्ते पत्तेअं आसणाई चलिआई पासंति, पासित्ता ओहिं पउंति, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति, आभोएत्ता अण्णमण्णं सद्दावेंति, सद्दावित्ता एवं बयासीउप्पण्णे खलु भो ! जंबुद्दीवे भयवं तित्थयरे, तंजीयमेअंतीअपचुप्पण्णमणागयाणं अहोलोगवत्थव्वाणं अट्ठण्ह दिसाकुमारीमहत्तरिआणं भगवओ तित्थयरस्स जम्मणमहिमं करित्तए, तं गच्छामो णं अम्हे वि भगवओ तित्थगरस्स जम्मणमहिमं करेमो त्ति कट्ट एवं वयंति, वइत्ता पत्तेअंपत्ते आभिओगिए देवे सद्दावें ति, सद्दावेत्ता एवं बयासी। अर्थतास्येव विहरन्तीषु सतीषु किं जातमित्याह-(तए णमित्यादि) ततस्तासामधोलोकवास्तव्यानामष्टानां दिकुमारीणां महत्तरिकाणां प्रत्येकं प्रत्येकमासनानि चलन्तीति / अथैताः किं किमकार्षुरित्याह(तए णमित्यादि) तत आसनप्रकम्पानन्तरं ता अधोवास्तव्या अष्टी दिकुमार्यो महत्तरिकाः प्रत्येक प्रत्येकमासनानि चलितानि पश्यन्ति, दृष्ट्वा चाऽवधि प्रयुञ्जन्ति,प्रयुज्य भगवन्तं तीर्थकरमवधिना आभोगयन्ति, आभोग्य च अन्यमन्यं शब्दयन्ति, शब्दयित्वा च एवमवादिषुः / यदवादिषुस्तदाह-(उष्पण्णे इत्यादि) उत्पन्नः खलु भो :! जम्बूद्वीपे भगवास्तीर्थङ्करः, तज्जीतमेतत्कल्प एषोऽतीतप्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिक्कुमारीमहत्तरिकाणा भगवतो जन्ममहिमा कर्तुं . तद्रच्छामो वयमपि भगवतो जन्ममहिमा कुर्म इति कृत्वा, धातूनामनेकार्थत्वान्निश्चित्य मनसा एवमनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येक प्रत्येकमाभियोगिकान् देवान् शब्दयन्ति, शब्दयित्वा चैवमवादिषुः। किमवादिषुरित्याहखिप्पामेव भो देवाणु प्पिआ ! अणेगखं भसयसण्णिविटे