________________ तित्थयर 2278 - अभिधानराजेन्द्रः - भाग 4 तित्थयर 98TI दीक्षायां गृहीतायां तस्मिन् समये सर्वेषां जिनानां चतुर्थ मनः पर्यवज्ञान जालम् / सत्त०७१ द्वार। (61) दीक्षामासादयःजम्मं व मासपक्खा,नवरं सुवयस्स सुद्धफग्गुणिओ। नमिवीराण वयम्मी, कसिणा आसाढमग्गसिरा॥२४६।। अट्ठमि नवमी पुन्निम, दुदसि नवमि तेरसीतिगं छट्ठी। बारसि तेरसि पनरसि, चउत्थि चउदसि य तेरसिया।।२४७।। चउदसि पंचमिगारसि, एगारसि बारसिय नवमि छट्ठीय। एगारसि दसमितिही, वयम्मि उड़रासि पुव्वं व // 24 // व्रतमासाऽऽदिनक्षत्राणि राशयश्च कथ्यन्ते। (जम्मं व मासपक्रा ति) | जन्मवद मासपक्षाः-जन्मकल्याणके ये मासाः पक्षाश्च कथिताः, दीक्षाकल्याणकेऽपि त एव ज्ञेया इत्यर्थः / (नवरं ति) एतावान् विशेषो ज्ञेयः-(सुवयस्स सुद्धफग्गुणिओ त्ति) सुव्रतस्य मुनिसुव्रतस्य व्रते फाल्गुनिको मासः / (नमिवीराण वयम्मि त्ति) नमिजिनवीरजिनयोति (कसिणा आसाढमग्गसिर त्ति) कृष्णावाषाढमार्गशीर्षा, तत्र नमिजिनस्य व्रते कृष्ण आषाढमासः। श्रीवीरजिनस्य व्रते कृष्णो मार्गशीर्षमासः। इति गाथार्थः॥२४६॥ (अट्ठमि नवमी पुन्निम)अष्टमी, नवमी, पूर्णिमा (दुदसि नवमि तेरसी तिगं छट्ठी) द्वादशी, नवमी, त्रयोदशी त्रिकम, पष्ठी (बारसि तेरसि पनरसि) द्वादशी 10 त्रयोदशी 11 अमावास्या 12 (चउत्थि चउदसि अतेरसिया) चतुर्थी 13 चतुर्दशी च 14 त्रयोदशिका 15 // इति गाथार्थः // 247 / / (चउदसि पंचमिगारसि) चतुर्दशी 16 पञ्चमी 17 एकादशी 18 (एगारसि बारसि नवमि छट्टी) एकादशी 16 द्वादशी 20 नवमी २१षष्ठी च 22 (एगारसि दसमितिही) एकादशी 23 दशमी 24 तिथिः। (वयम्मि उडुरासि पुव्वं व ति) व्रते नक्षत्रराशयः पूर्ववत्। 'इय चवणरिक्खरासी, जम्मे दिक्खा वि णाणे वि" इति पूर्वमुक्तत्वात ये च्यवनसमये नक्षत्रराशयो, व्रतेऽपित एव ज्ञेयाः। इति गाथार्थः / / 248 / / सत्त०५६ द्वार / दीक्षाराशिश्चयवनवत्। सत्त०६१ द्वार। दीक्षालिङ्गम्न उ नाम अन्नलिंगे, न य गिहिलिंगे कुलिंगे वा / / सर्व एव तीर्थकृतस्तीर्थकरलिङ्ग एव निष्क्रान्ताः, नतु नाम अन्यलिङ्गे, गृहिलिङ्गे,कुलिङ्गे वा / आ०म०१ अ०१ खण्ड। (अन्यलिङ्गाऽऽद्यर्थोऽन्यत्र) दीक्षालोचमुष्टिःकयपंचमुट्ठिलो आ, उसहो चउमुट्ठिकयलोओ। (250) कृतपञ्चमुष्टिलोचास्त्रयोविंशतिर्जिनाः, ऋषभः चतुर्मुष्टिकृतलोचो जातः / सत्त०६६ द्वार। दीक्षावनानिउसभो सिद्धत्थवणम्मि वासुपूज्जो विहारगिहगम्मि। धम्मो य वप्पगाए, नीलगुहाए मुणी नाम / / आसमपयम्मि पासो, वीरजिणिंदो य नायसंडम्मि। अवसेसा पध्वइया, सहसंक्वणम्मि उजाणे / / ऋषभः-ऋषभस्वामी सिद्धार्थवने उद्याने निष्क्रान्तः, वासुपूज्यो विहारगृहके विहारगृहकाभिधाने उद्याने; धर्मो धर्मस्वामी भगवान् / वप्रगायां वप्रगाभिधाने उद्याने। तथा च वक्ष्यति '' से साण के वलाइं, जे सुजाणेसु पव्वइया / " एवं नीलगुहायां नीलगुहाभिधाने उद्याने मुनिनामा मुनिसुव्रतनामा तीर्थकरो निष्क्रान्तः ! तथा आश्रमपदे आश्रमपदाभिधाने उद्याने पार्श्वनाथो निष्क्रान्तः, वीरजिनेन्द्रो ज्ञातखण्डे ज्ञातखण्डाभिने उद्याने। अवशेषा अजितस्वामिप्रभूतयस्तीर्थकराः सहस्रामवणे निष्क्रान्ताः / आ० म० १अ०१खण्ड। यस्मिन्वयसि निष्क्रान्तास्तदभिधित्सुराह-- वीरो अरिट्ठनेमी, पासो मल्ली य वासुपुञ्जो अ। पढमवए पव्वइया, सेसा पुण मज्झिमवयम्मि।। वीरो महावीरः, अरिष्टनेमिः, पार्श्वनाथो, मल्लिासुपूज्य इत्येते पञ्च तीर्थकृतः प्रथमवयसि कुमारत्वलक्षणे प्रवजिताः / शेषाः पुनः ऋषभस्वामिप्रभृतयो मध्यमे वयसि यौवनलक्षणे वर्तमानाः प्रद्रजिताः। आ०म०१अ०२खण्ड। (12) दीक्षाशिबिकाएएसिं चउव्वीसाए तित्थगराणं चउव्वीसं सीयाओ होत्था। तं जहा"सीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धाय / विजया य वेजयंती, जयंति अपराजिया चेव / / 14 / / अरुणप्पभ चंदप्पभ, सूरप्पभ अग्गिसप्पभाव। विमला य पंचवण्णा, सागरदत्ताय णागदत्ता य।।१५।। अभयकरा निव्वुइकरि, मणोरमा तह मणोहरा चेव। देवकुर उत्तरकुरा, विसाल चंदप्पभाई य॥१६|| एआओ सीआओ, सव्वेसिं चेव जिणवरिंदाणं। सव्वजगवच्छलाणं, सव्वोउयसुखयछायाए।।१७|| पुट्विं ओखित्ता मणुजेहिं सा हट्ठरोमकूवेहिं / पच्छा वहंति सीयं, असुरिंदसुरिंदनागिंदा॥१८|| चलचवलकुंडलधरा, सच्छंदविकुब्वियाभरणधारी। सुरअसुरवंदिआणं, वहति सीअंजिणिंदाणं / / 16 / / पुरओ हवंति देवा, नागा पुण दाहिणम्मि पासम्मि। पञ्चच्छिमेण असुरा, गरुला पुण उत्तरे पासे" // 20 // (सव्वोउयसुखयछायाए त्ति) सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया प्रभया आतपाभावलक्षणया वा, युक्ता इति शेषः / तथा-(सा हट्ठरोमकूवेहिं ति) सा शिबिका यस्यां जिनोऽध्यारूढः, हृष्टरोमकूपैरुधुषितरोमभिरित्यर्थः / तथा (चलचवलकुंडलधर ति) चलाश्च ते चपलकुण्डलधराश्चेति वाक्यम् / तथा स्वच्छन्देन स्वरुच्या विकुर्वितानि यान्याभरणानि मुकुटाऽऽदीनि तानि धारयन्ति येते तथा। असुरेन्द्राऽऽदय इति योगः / (गरुल त्ति) गरुडध्वजाः सुपर्णकुमारा इत्यर्थः / रा०। सत्ता (६३)अथ षट् पञ्चाशद्धिक कुमारीस्थानान्याह / दिकुमारिका नाम-दिक्कुमारभवनपतिविशेषजातिजा देव्यःमेरुअहउडलोया, चउदिसि रुयगाउ अट्ठ पत्ते। चउ विदिसिमज्झरुयगा, इंती छप्पन्न दिसिकुमरी।।१०१।। (मे रु अहउडलोय ति) मेरो रधोलो कात् 1, ऊर्द्धलोका