SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2280 - अभिधानराजेन्द्रः - भाग 4 तित्थयर लीलट्ठिअ०एवं विमाणवण्णओ भाणिअव्वोजाव जोअणविस्थिपणे दिव्वे जाणविमाणे विउव्वेह, विउव्वित्ता एअमाणत्तिअं पञ्चप्पिणह / तए णं ते आमिओगा देवा अणेगखंभसयजाव पञ्चप्पिणंति। (खिप्पामेव इत्यादि) भो देवानुप्रियाः ! क्षिप्रमेवाऽनेकस्तम्भशतसन्निविष्टानि लीलास्थितशालभजिकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः / स चायम्- 'ईहामिगउसभतुरगणरमगरविहगबालकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते खंभुग्गय - वरवइरवेइआपरिगयाभिरामे विजाहरजमलजुअल-जंतजुत्ते विव अचीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिडिभसमाणे चक्खुल्लोअणलेसे सुहफासे सस्सिरीअरूवे घंटाचलियमहुरमणहरसर सुभे कते दरिसणिज्जे प्पिउणोचियमिसिमिसंतमणिरयणघटिआजालपरिक्खित्ते / " कियत्पर्यन्तमित्याह- यावद्योजनविस्तीर्णानि दिव्यानि यानायेष्ट स्थाने गमनाय विमानानि, अथवा यानरूपाणि वाहनरूपाणि विमानानि यानविमानानि, विकुर्वतर्व क्रियशक्त्या संपादयत, विकुर्वित्वा एतामाज्ञप्ति प्रत्यर्पयत। अथ यानवर्णकव्याख्या प्राग्वद ज्ञेया, तोरणाऽऽदिवर्णकषु एतद्विशेषणस्य व्याख्यातत्वात्। ततस्तं किं चकु रित्याह-(तए णमित्यादि) ततस्ते आभियोगिका देवा अनेकस्तम्भशतसंनिविष्टानि यावदाज्ञा प्रत्यर्पयन्ति। अर्थताः किं कुर्वन्तीत्याहतए णं ताओ अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारिमहत्तरिआओ पत्तेअं पत्तेअं चउहिं सामाणिअसाहस्सीहिं चउहिं महत्तरिआहिं०जाव अण्णेहिं बहूहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ ते दिव्वे जाणविमाणे दुरूहंति, दुरू हित्ता सविड्डीए सव्वजुईए घणमुइंगपणवपवाइअरवेणं ताए उकिट्ठाए०जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणभवणे, तेणेव उवागच्छंति, उवागच्छित्ता भगवओ तित्थयरस्स जम्मण्णभवणं तेहिं दिव्येहि जाणविमाणेहिं तिक्खुत्तो आयाहिणपयाहिणं करें ति, करित्ता उत्तरपुरच्छिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे ठविंति, ठवित्ता पत्तेअंपत्तेअंचउहिं सामाणिअसाहस्सेहिं०जाव सद्धिं संपरिबुडाओ दिव्येहिंतो जाणविमाणेहिंतो पचोरुहंति, पचोरुहित्ता सव्विड्डीए०जाव गाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवाग-च्छंति, उवागच्छं तित्ता भगवं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करें ति, करित्ता पत्ते पत्तेअं करयलपरि-- ग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट एवं बयासी। "तएणं ताओ' इत्यादि। ततस्ता अधोलोकवास्तव्या अष्टौ दिककुमारमहत्तरिकाः; हट्टतुट्टेत्याद्येकदेशदर्शनेन संपूर्ण आलापको ग्राह्यः। स चायम्-'हट्टतुट्टचित्तमाणंदिआ पीअमणा परमसोमणस्सिआ | हरिसवसविसप्पमाणहिअया विअसिअवरकमलनय गपचलिअवरकडगतुडिअकेऊरमउडकुंडलहारविरायंतरइअवच्छा पालंवपलबमाणघोलतभूसणधरा ससंभमं तुरिअं चवलं सीहासणाओ अब्भुट्टे ति, अब्भुट्टित्ता पायपीढाओ पचोरुहंति, पच्चोरुहित्ता'' इति / प्रत्येक प्रत्येक चतुर्भिः सामानिकसहौः चतसृभिश्च महत्तरिकाभिर्यावदन्यैर्बहुभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृताः, तानि दिव्यानि यानविमानान्यारोहन्ति / आरोहेणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते तथाऽऽह(दुरूहित्ता इत्यादि) आरुह्य च सर्वर्या सर्वद्युत्या धनमृदङ्ग मेघवद् गम्भीर-ध्वनिकं मृदङ्ग, पणवो मृत्पटहः, उपलक्षणमेतत्तेनान्येषामपि तूर्याणां संग्रहः / एतेषां प्रवादितानां यो रवस्तेन तया उत्कृष्टया, यावत्करणात्- "तुरिआए चवलाए'' इत्यादि पदसंग्रहः प्राग्वत्। देवगन्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगर यत्रैव च तीर्थकरस्य जन्मभवन तत्रैवोपागच्छन्ति, उपागत्य च भगवतस्तीर्थकरस्य जन्मभवनं तैर्दिव्यैर्यानविमानैस्त्रिः कृत्व आदक्षिणप्रदक्षिणां कुर्वन्ति, त्रीन वारान् प्रदक्षिणयन्तीत्यर्थः / त्रिःप्रदक्षिणीकृत्य च उत्तरपा रस्त्ये दिग्भागे ईशानकोणे ईषचतुरङ्गुलमसंप्राप्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्तीति / अथ यचकुस्तदाह-स्थापयित्वा च प्रत्येक प्रत्येकम्, अष्टावपीत्यर्थः। चतुर्भिः सामानिकसहस्रर्यावत् सार्द्ध सपरिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहन्ति, प्रत्यवरुह्य च सर्वा, यावच्छब्दात् सर्वद्युत्यादिपरिग्रहः / कियत्पर्यन्तमित्याह"संखपणवभेरिझल्लरिखरमुहिहुडुक्कमुरजमुंइगदुंदुहिनिग्थोसनाइएणं ति।" यत्रैव भगवास्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं च त्रिः प्रदक्षिणयन्ति, त्रिः प्रदक्षिणीकृत्य च प्रत्येक प्रत्येकं करतलपरिगृहीतं शिरस्यावर्त मस्तक अञ्जलिं कृत्वा, एवं वक्ष्यमाणमवादिषुः / तदाहणमोऽत्थु ते रयणकुच्छिधारिए ! जगप्पईवदीविए ! सव्वज-- गमंगलस्स चक्खुणो अ मुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसिअवागिड्डिविमुप्पभुस्स जिणस्स णाणिस्स नायगस्स बुद्धस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवरकुलसमुब्भवस्स जाईए खत्तिअस्स जं सि लोगुत्तमस्स जणणी, धण्णा सि, तं कयत्था सि, अम्हे णं देवाणुप्पिए ! अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो, तेणं तुब्भेहिंण भइअव्वं ति कट्ठ उत्तरपुरच्छिमं दिसीभागं अवक्कमंति। (नमोऽत्थु ते इत्यादि) नमोऽस्तु ते तुभ्य, रत्नं भगवल्लक्षणं कुक्षो धरतीति रत्नकुक्षिधारिके ! अथवा-रत्नगर्भावगर्भधारकत्येनाऽपरस्त्रकुक्षिभ्योऽतिशायित्वेन रत्नरूपा कुक्षि धरतीति: शेषं तथैव / तथा जगदर्तिजनानां सर्वभावाना प्रकाशकत्वेन प्रदीप इव प्रदीपो भगवान, तस्य दीपके ! सर्वजगन्मङ्गलभूतस्य चक्षुखि चक्षुः सकलजगद्भावदर्शकत्वेन तरय, चः समुच्चये। चक्षुश्च द्रव्यभावभेदाभ्यां द्विधा, तत्राऽऽद्य भाव
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy