SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2275 - अभिधानराजेन्द्रः - भाग 4 तित्थयर पुरिसा विउलकुलसमुब्भवा महारयणविहाडगा अद्धभरहसामी सोमा रायकुलवंसतिलया अजिया अजियरहाहलमुसलकणकपाणी संखचक्कगयसत्तिनंदगधरा पवरुज्जलसुकंतविमलगोत्थुभतिरीडधारी कुंडलउज्जोइयाणणा पुंडरीयणयणा एकावलिकंठलगियवच्छा सिरिवच्छसुलंछणा वरजसा सव्वोउयसुरभिकुसुमरचितपलंबसोभंतकंतविकसंतचित्तवरमालरइयवच्छा अट्ठसयविभत्तलक्खणपसत्थसुंदरविरइयंगमेगा मत्तगयवरिंदललियविक्कमविलसियगई सारयनवत्थणियमहुरगंभीरकुंचनिग्धोसदुंदुभिस्सरा कडिसुत्तगनीलपीयकोसेज्जवाससा पवरदित्ततेया नरसीहा नरवई नरिंदा नरवसहा मरुयवसभकप्पा अब्भहियरायतेयलच्छीपदिप्पमाणा नीलगपीयगवसणा दुवे दुवे रामके सवा भायरो होत्था। तं जहा-तिविट्टु य०जाव कण्हे / अयलोजाव रामे य अपच्छिमे। बलदेववासुदेवानां पूर्वभवनामानिएएसिणं णवण्हं बलदेववासुदेवाणं पुव्वभविया नव नामधेजा होत्था। तं जहा "विसभूई पव्वयए, धणदत्त समुद्ददत्त इसिवाले। पियमित्त ललियमित्ते, पुणव्वसू गंगदत्ते य / / 52|| एयाइं नामाइं, पुव्वभवे आसि वासुदेवाणं।" "एत्तो बलदेवाणं, जहक्कम कित्तइस्सामि / / 53 / / विसनंदी य सुबंधू, सागरदत्ते असोग ललिए य। वाराह धम्मसेणे, अपराइऍ रायललिए य / / 54 / / " एतेषां पूर्वभवधर्माऽऽचार्याःएएसि णं नवण्हं बलदेववासुदेवाणं पुव्वभविया नव धम्मायरिया होत्था / तं जहा"संभूए य सुभद्दे, सुदंसणे सेय कण्हें गंगदत्ते आ सागर समुद्दनामे, दुमसेणे णवमिए होइ / / 5 / / धम्माऽऽयरिया कित्ती-पुरिसाणं वासुदेवाणं / पुव्वभवे एआसिं, जत्थ नियाणाइँ कासी य॥५६॥" एतेषां निदानभूमयःएएसि णं नवण्हं वासुदेवाणं पुव्वभवे नव नियाणभूमीओ होत्था / तं जहा-महुराजाव हत्थिणाउरं च / निदानकारणानिएतेसि णं नवण्हं वासुदेवाणं नव नियाणकारणा होत्था / तं जहा-गावी जूए०जाव माउआ। एतेषां प्रतिशत्रवःएएसि णं नवण्हं वासुदेवाणं नव पडिसत्तू होत्था / तं जहाआसग्गीवे०जाव जरासंधे०जाव सचक्के हिं। के क्व यान्तीत्याह"एको य सत्तमीए, पंच य छट्ठीऍ पंचमीएको। एक्को य चउत्थीए, कण्हो पुण तचपुढवीए।।५७।। अणिदाणकडा रामा, सव्वे विय केसवा नियाणकडा। उद्धंगामी रामा, केसव सव्वे अहोगामी / / 5 / / अढतकडा रामा, एगो पुण बंभलोयकप्पम्मि। एको से गम्भवसही, सिज्झिस्सइ आगमिस्सेणं / / 56 / / " (जंबुद्दीवेत्यादि) दशाराणां वासुदेवानां मण्डलानि बलदेववा–सुदेवदयद्वयलक्षणाः समुदाया दशारमण्डलानि, अत एव "दुवे दुवे रामकेस्रव त्ति" वक्ष्यति / दशारमण्डलाव्यतिरिक्तत्वाच बलदेव-वासुदेवाना दशारमण्डलानीति पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषां विशेषणार्थमाह-तद्यथेत्यादि। तद्यथेति बलदेववा-सुदेवस्वरूपोपन्यासाऽऽरम्भार्थः / केचित्तु दशारमण्डना इति। तत्र दशाराणां वासुदेवकुलीनप्रजानां मण्डनाः शोभाकारिणो दशारमण्डनाः / उत्तमपुरुषा इति / तीर्थकराऽऽदीनां चतुःपञ्चाशत्, उत्तमपुरुषाणां मध्यवर्तित्वाद् मध्यमपुरुषाः, तीर्थकरचक्रिणां प्रतिवासुदेवानां च बलाऽऽद्यपेक्षया मध्यवर्तित्वात / प्रधानपुरुषास्तात्कालिकपुरुषाणां शौर्याऽऽदिभिः प्रधानत्वात्, ओजस्विनो मानसबलोपेतत्वात, तेजस्विनो दीप्तशरीरत्वात. वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विनः पराक्रम प्राप्य प्रसिद्धिप्राप्तत्वात्। (छायंसि त्ति) प्राकृतत्वात् छायावन्तः शोभायमानशरीराः, अत एव कान्ताः क्रान्तियोगात्, सौम्या अरौद्राऽऽकारत्वात्, सुभगा जनवल्लभत्वात्, प्रियदर्शनाःचक्षुष्यरूपत्वात्, सुरूपा समचतुरससंस्थानत्वात, शुभं सुखं वा सुखकरत्वात् शीलं स्वभावो येषां ते शुभशीलाः सुखशीला वा,सुखेनाभिगम्यन्ते सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः, सर्वजननयनानां कान्ता अभिलाष्या ये ते तथा / ततः पदद्वयस्य कर्मधारयः / ओघबलाः प्रवाहबलाः, अव्यवच्छिन्नबलत्वात्। अतिबलाः, शेषपुरुषबलानामतिक्रमात्। महाबलाः प्रशस्तबलाः, अनिहता निरुपक्रमाऽऽयुष्कत्वात्, युद्धे भूम्यामपातित्वात् अपराजिताः, तैरव शत्रूणां पराजितत्वात्। एतदेवाऽऽह- शत्रुमर्दनाः, तच्छरीरतत्सैन्यकदर्थनात्। रिपुसहस्रमानमथनाः, तद्वाञ्छितकार्यविघटनात्। सानुक्रोशाः, प्रणतेष्वद्रोहकत्वात्। अमत्सराः, परगुणलवस्याऽपि ग्राहकत्वात्। अचपला मनोवाकायस्थैर्यात्। अचण्डा निष्कारणप्रबलकोपरहितत्वात् / मिते परिमिते मञ्जुलः कोमलः प्रलापश्चाssलापोहसितं च येषां ते मितमञ्जुलप्रलापहसिताः, गम्भीरमदर्शितरोषतोषशोकाऽऽदिविकारं मेघनादवद्वामधुरं श्रवणसुखकर प्रतिपूर्णमर्थप्रतीतिजनक सत्यमवितथं वचनं वाक्यं येषां ते तथा। ततः पदद्वयस्य कर्मधारयः। अभ्युपगतवत्सलाः, तत्समर्थनशीलत्वात्। शरण्यास्त्राणकरणे साधुत्वात् / लक्षणानि मानाऽऽदीनि, वज्रस्वस्तिकचक्राऽऽदीनि वा, व्याजनानि तिलकमषाऽऽदीनि, तेषां गुणा महर्द्धिप्राप्त्यादयः, तैरुपेताः (शर्कराऽऽदिगणस्थत्वात्।) शर्कराऽऽदिदर्शनादुपपेता युक्ता लक्षणव्यञ्जनगुणोपपेताः। मानमुदकद्रोणपरिमाणशरीरताः, कथम्? उदकपूर्णायां द्रोण्यां निविष्ट पुरुषे यजलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात्तदा स पुरुषो मानप्राप्त इत्यभिधीयते / उन्मानमर्द्धभारपरिमाणता, कथम्? तुलाऽऽरो पितस्य पुरुषस्य यद्यर्द्धभारशस्तील्यं भवति तदाऽसावुन्मानप्राप्त उच्यते / प्रमाणमटोत्तरशतमड गुलानामुच्छ्रयः / मानोन्मानप्रमाणैः प्रतिपूर्णमन्यून, सुजातमागर्भाधानात् पालनविधिना, सर्वाङ्गसुन्दरं निखिलावयवप्रधानमहं शरीर येषां ते तथा। शशिवत् सौम्याऽऽकारमरौद्रमबीभत्सं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy