________________ तित्थयर 2276 - अभिधानराजेन्द्रः - भाग 4 तित्थयर वा कान्तं दीप्तं प्रियं जनानां प्रमोदोत्पादक दर्शनं रूपं येषा ते तथा। (अमरिसण ति) अमसृणाः प्रयोजनेष्वनलसाः, अमर्षणा वा अपराधिष्वपिकृतक्षमाः। प्रकाण्ड उत्कटो दण्डप्रकार आज्ञाविशेषो वा येषां ते-तथा / अथवा-प्रचण्डो दुःसाध्यसाधकत्वाद्दण्डप्रचार: सैन्यविंचरणं येषां ते तथा। गम्मीरा अलक्ष्यमाणन्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः / ततः पदद्वयस्य कर्मधारयः। प्रचण्डदण्डप्रचारेण ये गम्मीरा दृश्यन्ते / तथा तालो वृक्षविशेषो ध्वजा येषा ते तालध्वजाः बलदेवाः। उद्विद्ध उच्छ्रितो गरुडलक्षितः केतुर्ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवाः। तालध्वजाश्च उद्विद्धगरुडकेतवश्व तालध्वजोद्वितगरुडकेतवः। महाधनुर्विकर्षकाः, महाप्राणत्वाद् महासत्त्वलक्षणजलस्य सागरा इव सागरा आश्रयत्वान्महासत्त्वसागराः / दुर्द्धरा रणाङ्गणेतेषां प्रहरतां केनाऽपि धन्विनाधारयितुमशक्यत्वात्। धनुर्धराः कोदण्डप्रहरणाः / धीरेष्वेवैते पुरुषाःपुरुषकारवन्तो, न कातरेष्विति धीरपुरुषाः। युद्धजनिता या कीर्तिस्तत्प्रधानाः पुरुषा युद्धकीर्तिपुरुषाः। विपुलकुलसमुद्भावा इति प्रतीतम् / महारत्नं वजं तस्य महाप्राणतया विघटका अडगुष्टतर्जनीभ्यां चूर्णका महारत्नविघटकाः, वज्रं हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते, नच भिद्यते, तदेव भिन्दन्तीति दुर्भेद तदिति। अथवा महनीया आरचना सागरशटकट्यूहाऽऽदिना प्रकारेण सिसंग्रामविषोर्महासैन्यस्य, तां रणरङ्गरसिकतया महाबलतया च विघटयन्ति वियोजयन्ति येते महारचनाविघटकाः। पाटान्तरेण तु–महारणविघटकाः / अर्द्ध-भरतस्वामिनः। सौम्या नीरुजः। राजकुलवंशतिलकाः। अजिताः / अजितरथाः / हलमुशलकणकपाणयः / तत्र हलमुशले प्रतीते, ते प्रहरणतया पाणौ हस्ते येषां ते बलदेवाः / येषां तु कणका बाणाः पाणौ ते शाङ्ग धन्वानो वासुदेवाः / शङ्खश्च पाञ्चजन्याभिधानः, चक्रं तु सुदर्शननामकं, गदा च कौमोदकीसंज्ञा लकुटविशेषः, शक्तिश्च त्रिशूलविशेषः, नन्दकश्च नन्दकाभिधानः खङ्गः, तान्धारयन्तीति शङ्खचक्रगदाशक्तिनन्दकधराः वासुदेवाः / प्रवरो वरप्रभावयोगात्, उज्ज्वलः शुक्लत्वात् स्वच्छतथा वा, मुकान्तः कान्तियोगात्। पाठान्तरेसुकृतः सुपरिकर्मित्वात्। विमलो मलवर्जितत्वात्, (गोत्थुभत्ति) कौस्तुभाभिधानो यो मणिविशेषस्तं, (तिरीगं ति) किरीटं च मुकुट धारयन्ति ये ते।तथा कुण्डलोद्द्योतिठाननाः / पुण्डरीकवन्नयने येषां ते तथा / एकावली आभरणविशेषः, सा कण्ठे ग्रीवायां लगिता विलम्बिता सती वक्षसि उरसि वर्तते येषां ते एकावलीकण्ठलगितवक्षसः / श्रीवत्साभिधानं सुष्टु लाञ्छनं महापुरुषत्वसूचक वक्षसि येषा ते श्रीवत्सलाच्छनाः / वरयशसः, सर्वत्र विख्यातत्वात्। सर्वर्तुकानि सर्वर्तुसम्भवानि सुरभीणि सुगन्धीनि यानि कुसुमानि तैः सुरचिता कृता या प्रलम्बा आप्रपदीना (सोभंत त्ति) शोभमाना कान्ता कमनीया विकसन्ती फुल्लीन्ती चित्रा पञ्चवर्णा वरा प्रधाना माला स्रक् रचिता निहिता, रतिदा वा सुखकारिका, वक्षसि येषां ते सर्वर्तुकसुरमिकुसुमरचितप्रलम्बशोभमानकान्तविकसचित्रवरमालारचितवक्षसः। तथा अष्टशतसंख्यानि विभक्तानि विविक्तरूपाणि यानि लक्षणानि चक्राऽऽदीनि तैः प्रशस्तानि मङ्गल्यानि सुन्दराणि च मनोहराणि विरचितानि विहितानि (अंगमंग त्ति) अङ्गोपाङ्गानि शिरोऽड् गुल्यादीनियेषां तेऽष्टशतविभक्तलक्षणप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः / तथा गत्तगजवरेन्द्रस्ययो ललितो मनोहरो विक्रमःसञ्चरणं तद्वद्विलसिता संजातविलासा गतिर्गमनं येषां ते मत्तगजवरेन्द्रललितविक्रमविल सितगतयः / तथा शरदि भवः शारदः, स चासौ नवं स्तनितं रसित यस्मिन्नि?षे स नवस्तनितः स चेति समासः। स चासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः पक्षिविशेषनिनादः, तद्वद् दुन्दुभिस्वरवच स्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिस्वराः / इह च शरत्काले हि क्रोचा माद्यन्ति, मधुरध्वनयश्च भवन्तीति शारदग्रहणम् / तथा पीतपानीयेन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणम्, स्वरूपोपदर्शनार्थ मधुरगम्भीरग्रहणमिति / तथा कटीसूत्रमाभरणविशेषः, तत्प्रधानानि नीलानि बलदेवानां, पीतानि वासुदेवानां कौशेयकानि वस्त्रविशेषभूतानि दासांसि वसनानि येषां ते कटी-सूत्रकनीलपीतकौशेयवाससः / प्रवरदीप्ततेजसो वरप्रभावतया वरदीप्तितया च / नरसिंहा विक्रमयोगात् / नरपतयः तन्नायकत्वात्। नरेन्द्राः परमैश्वर्ययोगात्। नरवृषभा उत्क्षिप्तकार्ये भारनिर्वाहकत्वात्। मरुद्वृषभकल्पाः देवराजोपमाः, अभ्यधिक शेषराजेभ्यः राजतेजोलक्ष्म्या दीप्यमानाः / नीलकपीतकवसना इति पुनर्भणनं निगमनार्थम् / कथं ते नवेत्याह-(दुवे दुवे इत्यादि)एवं च नववासुदेवनवबलदेवा इति। (तिविठ्ठ यत्ति) यावत्करणात"विण्हु तिविटु दुविट्ट य, सयंभु पुरिसुत्तमे पुरिससीहे। तह पुरिसपुंडरीए, दत्ते नारायणे कण्हे / / 1 / / अयले विजए भद्दे, सुप्पभे य सुदसणे। आनंदे णंदणे पउमे, रामे यावि अपच्छिमे" || इति। (कित्तीपुरिसाणं ति) कीर्तिप्रधानपुरुषाणामिति / 'महुरा य कणगवत्थू, सावत्थी पोयणं च रायगिह / कायंदी कोसंबी, मिहिलपुरी हत्थिणपुरं च / / 1 / / " तथा''गावि जुए संगामे, तह इत्थिपराहओ रंगे। भजाणुराग गोट्ठी, परइड्ढी माउयाई य" // 1 // इति। तथा"अस्सग्गीवे तारऍ, मेरऍ मेहुकेढमे निसुंडे-1 बलि पहलाए तह रावणे य नवमे जरासंधो / / 1 // " "एए खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं / सव्वे वि चक्कजोही, सव्वे विहया सचक्केहिं / / 2 / / अणियाणकडा रामा, सव्वे विय केसवा नियाणकडा। उड्डगामी रामा, केसव सव्वे अहोगामी // 3 // " इति। (आगमिस्सेणं ति) आगमिष्यता कालेन / 'आगमिस्साणं ति" पाठान्तरम्। आगमिष्यतां भविष्यता मध्ये सेत्स्यन्तीति। स०। (84) तीर्थोत्पत्तिःतेवीसाए पढमे, वीए वीरस्स पुण समोसरणे। संघो१पढमगणहरो२,सुयं च३तित्थं समुत्पन्नं / / 206 / / त्रयोविंशतिजिनानां प्रथमसमवसरणे तीर्थ समुत्पन्नम्, वीरस्य पुनर्द्वितीये समवसरणे तीर्थसमुत्पन्नम्। तीर्थनाम प्रवचनं, तच्च निराधार न भवति, तेन साधुसाध्वीश्रावकश्राविकारूपः चतुर्वर्णः संघः / तथा प्रथमगणधर आद्यगणभृत्, श्रुतं द्वादशानीरूपम्, एतत्वयरूपं तीर्थं __ समुत्पन्नम् ! सत्त० 100 द्वार। आ०म०|