________________ तित्थयर 2273 - अभिधानराजेन्द्रः - भाग 4 तित्थयर नाथयोरन्तरे पल्योपमचतुर्भागरतीर्थव्यवच्छेदः। इति सर्वाग्रेण भागमीलने त्रीणि पल्योपमानि एकचतुर्भागहीनानि जातानि / प्रव० 36 द्वार। एएसु णं भंते ! तेवीसाए जिणंतरे कस्स कहिं कालियसुयस्स वोच्छेदे पण्णत्ते ? गोयमा ! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थणं कालियसुयस्स अवोच्छेदे पण्णत्ते / मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुयस्स वोच्छेदे पण्णत्ते / सव्वत्थ विणं वोच्छिण्णे दिट्ठिवाए॥ कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे, कयोर्जिनयोर-न्तरे, कालिकश्रुतस्यैकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः? इति प्रश्नः / उत्तरं तु-(एएसुणमित्यादि) इह च कालिकस्य व्यवच्छेदेऽपि पृष्ट यदपृष्टस्याव्यवच्छेदस्थाभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकर भवतीतिकृत्वा कृतमिति। (मज्झिमएसु सत्तसुत्ति) अनेन 'करस कर्हि' इत्यस्योत्तरमवसेयम् / तथाहि-मध्यमेषु सप्तस्वित्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद् व्यवच्छेदकालश्च पल्योपमचतुर्भागः। एवमन्ये षड् जिनाः, षट् च जिनान्तराणि वाच्यानि। केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः "चउभागो चउभागो,तिणि य चउभाग पलियमेगं च। तिण्णेव व चउभागा, चउत्थभागो य चउभागो।।१।।" इति। (एल्थणं ति) एतेषु प्रज्ञापकेनोपदयमानेषु जिनान्तरेषु कालिकश्रुतस्य | व्यवच्छेदः प्रज्ञाप्तः / दृष्टिवादापेक्षया त्वाह-(सव्वत्थ विणं वोच्छिण्णे दिट्ठिवाए त्ति) सर्वत्रापि सर्वेष्वपि जिनान्तरेषु, न केवलं सप्तस्येव क्वचित्, कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति। भ० 20 श०८ उ०।। (82) अथ प्रसङ्गात् द्वादशचक्रिनामान्याहचक्की भरहो सगरो, मघव-सणंकुमार-संति-कुंथु-अरा। सुभूम-महपउम-हरिसेण-जयनिवा वंभदत्तो य॥३४७।। चक्री-भरतः१, सगरनामा२ / चक्रिशब्दः प्रत्येकमभिसम्बध्यते / मधवा३, सनत्कुमारः४,शान्तिः५, कुन्थुः६, अरनामा 7, (सुभूममहपउमहरिसेण त्ति) सुभूमनामा८, महापद्मः६, हरिषेणः १०(जयनिवा बंभदत्तो य) जयनृपः 11, ब्रादत्तश्च 12 / इति गाथार्थः // 347 / / अथ नववासुदेवनामान्याहविण्हु तिविट्स दुविढू, सयंभु पुरिसुत्तमं पुरिससीहे। तह पुरिसपुंडरीए, दत्ते लक्खमण कण्हे य // 348|| (विण्हु तिविटु दुविठू सयंभु पुरिसुत्तमे पुरिससीहे) विष्णुः त्रिपृष्टः 1, द्विपृष्टः२, स्वयंभूः३, पुरुषोत्तमः४, पुरुषसिंहः 5, तथा पुरुषपुण्डरीकः 6, दत्तनामा 7., लक्ष्मणनामा 8, कृष्णश्च 6 / इति गाथार्थः / / 348|| अथ बलदेवनामान्याहहरिजिट्ठभायरो नव, बलदेवा अयल-विजय-भद्दा य। सुप्पहसुदंसणाऽऽणंदनंदणा रामवलभद्दा / / 346 / / (हरिजिट्टभायरो) विष्णुना जेष्ठभ्रातरः (नव बलदेवा) नवसंख्या बलदेवा भवन्ति / अचलनामा प्रथमः 1, विजयनामा द्वितीयः 2, | भद्रनामा तृतीयः 3, चः पादपूरणे / (सुप्पहसुदसणाऽऽणंदनंदण त्ति) सुप्रभनामा चतुर्थः 4, सुदर्शननामा पञ्चमः 5, आनन्दनामा षष्ठः 6, नन्दननामा सप्तमः 7 / (रामवलभद्दत्ति) रामनामाऽष्टमः 8, बलभद्रनामा नवमः / इति गाथार्थः॥३४६॥ पद्मः 8 / प्रव०॥ त्रिषष्टिशलाकापुरुषमानमाहचउपन्नुत्तमपुरिसा, इह एए हों ति जीवपन्नासं। नवपडिविण्हूहिँ जुआ, तेसट्ठिसलागपुरिस भवे // 350 / / (चउपन्नुत्तमपुरिसा, इह एए होति जीवपन्नासं ति) एते चतुर्विशतिजिनाः 24, द्वादश चक्रिणः 12, नव वासुदेवाः, नव बलदेवा : श्वेति चतुःपञ्चाशत् 54 उत्तमपुरुषा इह जगति भवेयुः / एते सर्वेऽप्युत्तमपुरुषाः संभूय पञ्चाशजीवाः। यतः शान्तिकुन्थुअराः जिनाश्चक्रिणोऽपि जाताः, तथा श्रीवीरजीवस्तु त्रिपृष्टनामा वासुदेवोऽपि जात इति / (नव पडिविण्हूहिँ जुय त्ति) ते चतुःपञ्चाशदुत्तमपुरुषा नवप्रतिविष्णुभिर्युताः। (तेसहिसलागपुरिस भवे) त्रिषष्टिः शलाकापुरुषा भवन्ति। शलाकापुरुषा इति कोऽर्थः?-शलाका इव रेखा इव पुरुषाः शलाकापुरुषाः, न कोऽप्यन्यपुरुष ईदृशः चतुःषष्टितमः / इति गाथार्थः // 350 / / अथ प्रतिवासुदेवनामान्याहते आसगीवें तारएँ, मेरऍ महुकेढवे निसुभे य। बलि पहलाए तह रावणे य नवमे जरासंधो // 351 / / अश्वग्रीवः 1. तारकः२, मेरकः 3, मधुकैटभः 5, निशुम्भकः 5, (बलि पहलाएतह रावणे अनवमे जरासंधो) बलिः 6, प्रह्लादः 7, तथा रावणश्व 8, नवमो जरासन्धः / इति गाथार्थः॥३५१।। अथ कस्य तीर्थ के चक्रिवासुदेवबलदेवा जातास्तानाहकालम्मि जे जस्स जिणस्स जाया, ते तस्स तित्थम्मि, जिणंतरे जे। नेया उतेऽतीअजिणस्स तित्थे, निएहिँ नामेहि कमेण एवं // 352|| (कालम्मि जे जस्स जिणस्स जाया ते तस्स तित्थम्मि त्ति) यस्य जिनस्य काले जिनतीर्थे वर्तमाने ये जाताः ते चक्रिवासुदेवाऽऽदयः तस्य तीर्थे कथ्यन्ते, (जिणंतरेजे, नेयाउ तेऽतीअजिणस्स तित्थे) जिनान्तरे ये जाताऽतेऽतीतजिनस्य तीर्थे ज्ञेयाः / (निएहिं नामेहिं कमेण एवं) निजैर्नामभिः क्रमेण एवं वक्ष्यमाणरीत्या / इति गाथार्थः / / 352 / / इदमुपजातिच्छन्दः। दो तित्थेस स चक्कि, अट्ठय जिणा,तो पंच केसीजुया, दो चक्काहिव, तिन्नि चक्किअजिणा, तो केसि चक्की हरी। तित्थेसो इग,तो सचक्कि-अजिणो केसीसचक्की जिणो, चक्की, केसवसंजुओ जिणवरो, चक्की अ,तो दो जिणा।।३५३ (दो तित्थेस सचक्कि अट्ट य जिणा तो पंच के सीजुआ) द्वी तीर्थे शौ सचक्रिणौ चक्र वर्तिसहितौ, ततोऽष्ट जिनाः, ततः पशवासुदेवयुताः पश जिनाः / (दो चक्काहिव तिन्नि चकि अ जिणा, तो के सि चक्की हरी) द्वौ ततश्चक्राधिपौ, ततस्त्रयः चक्रि