________________ तित्थयर 2272 - अभिधानराजेन्द्रः - भाग 4 तित्थयर द्वाविंशतिवर्षसहश्च न्यूना सागराणाम् एका कोटाकोटिर्भवति। श्रीऋषभस्य तीर्थात् श्रीवीरस्य तीर्थम् एतावता कालेन परिसमाप्तमितितात्पर्यमिति गाथाऽर्थः / / 21 / / इति तीर्थप्रवृत्तिकालः। सत्त० 101 द्वार। (76) तीर्थकरकल्याणतपः"इअऽतीअवट्टमाणा-ऽणागयचउवीसजिणवरिंदाणं। ओसप्पिणिउस्सप्पिणि-भवा णु अणुलोमपडिलोमा / / 1 / / सग्गाइअमहिवलया.पंचसु भरहेसुएरववपणगे। कल्लाणयमासतिहीउ सासया न य विदेहेसु / / 2 / / इगभत्तिनिविअआमा-खमणमिगदुतिचउपचकल्लाणे ? इअ सखेवतवेणं, आराहह पंचकल्लाणे / / 3 / / वित्थरओ उवउत्तं, चुइजम्मेसु करिज पत्तेअं। जिणवण्णेणं तवसा, दिक्खाइतिगंसु आराहे / / 4 / / सुमइऽत्थ निघभत्ते-ण णिग्गओ वासुपुज्ज चउथेण। पासो मल्ली विअ अ-ट्टमेण सेसा उछट्टेणं / / 5 / / अट्ठमभत्ततम्मी, नाणमुसभमल्लिनेमिपासाणं / वसुयुञ्जस्स चउत्थेण छहभत्तेण सेसाणं / / 6 / / चउदसमेण उसभो, वीरो छ8ण मासिए पत्ते। सिद्धवयम्मी सुमई--सुववासो निच्चभत्ते वि? / / 7 / / काउंकल्लाणतवं, उज्जमणं जो करिज विहिपुव्वं / जिणपहआराहणओ, परमपयं पावए स कमा।।८|| चुइजम्मदिक्खकेवल–सिवाइँ कल्लाणवाइँ पंचेव। सव्वजिणाण छ पुणो, वीररस सगब्भहरणाई।।६।। इहखित्तभवजिणाणं, जो आराहेइ पंचकल्लाणं / तेइसखित्ततिकालिअ-अरिहाण उवासिणा तेण? / / 10 / / पणकल्लाणयकप्पं,भवीण पूरियमणिट्ठसंकप्पं। जो पढइ सुणइ भव्वो, सयंवरा तस्स सिद्धिसिरी'' // 11 // ती०५० कल्प। प्रव०॥ (80) तीर्थकरणप्रयोजनम्ननु सर्वोऽपि प्रेक्षावान् फलार्थी प्रवर्तते, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गः / ततोऽसौ तीर्थ कुर्वन्नवश्यं फलमपेक्षते / फलं चापेक्षमाणोऽस्मादृश इव घ्यक्तमवीतरागः / तदयुक्तम्। यतः तीर्थकरः स एव भवति, यस्तीर्थकरनामकर्मोदयसमन्वितः, न हि सर्वेऽपि भगवन्तो वीतरागास्तीर्थप्रवर्तनाय प्रवर्तन्ते / तीर्थकरनामकर्मव तीर्थप्रवर्तनफलम्। ततो भगवान् वीतरागोऽपि तीर्थकरनामकर्मोदयतः तीर्थप्रवर्तनस्वभावः सवितेव प्रकाशमुपकार्योपकारानपेक्ष तीर्थ प्रवर्तयतीति न कश्चिद्घोषः। उक्तंच"तीर्थप्रवर्तनफलं, यत्प्रोक्तं कर्म तीर्थकरनाम। तस्योदयात् कृतार्थोऽप्यर्हस्तीर्थं प्रवर्तयति / / 1 / / तत्स्वाभाव्यादेव, प्रकाशयति भास्करो यथा लोकम्। तीर्थप्रवर्तनाय, प्रवर्तते तीर्थकर एवम् / / 2 / / " ननु तीर्थप्रवर्तनं नाम प्रवचनार्थप्रतिपादनं, प्रवचनार्थ चेद् भगवान प्रतिपादयति, तर्हि नियमादसर्वज्ञः, सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भात् / तथा चात्र प्रयोगः-विवक्षितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात्, रथ्यापुरुषवदिति / तदसत् / सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात् / तथाहि-वचनं न सर्ववेदनेन सह विरुद्भ्यते, अतीन्द्रियेण सह विरोधानिश्चयात् / द्विविधो हि विरोध:परस्परपरिहारलक्षणः, सहानवस्थानलक्षणश्च / तत्र परस्परपरिहार - लक्षणः तादात्म्यप्रतिषेधे, यथा घटपटयोः। न खलु घट: पटाऽऽत्मको भवति, नापि पटो घटाऽऽत्मको भवति। "न सत्ता सत्तान्तरमुपैति" इति वचनात् / ततो (ना)ऽनयोः परस्परपरिहारलक्षणो विरोधः / एवं सर्वेषामपि वस्तूनां भावनीयम्, अन्यथा वस्तुसार्य प्रसक्तेः / यस्तु सहानवस्थानलक्षणो विरोधः, स परस्परबाध्यबाधक भावसिद्धी सिद्ध्यति, नान्यथा / यथा-वहिशीतयोः। तथाहि-विवक्षिते प्रदेश मन्दमन्दमभिज्वलनवति वह्नौ शीतस्यापि मन्दमन्दभावः / यदा पुनरत्यर्थज्वालामतिविमुञ्चति वहिस्तदा सर्वथा शीतस्याभाव इति भवत्यनयोर्विरोधः। उक्तं च"अविकलकारणमेकं, तदपरभावे यदाऽऽभवन्न भवेत्। भवति विरोधः स तयोः, शीतहुताशाऽऽत्मनोदृष्टः / / 1 / / " न चैव वचनसंवेदनयोः परस्परं बाध्यबाधकभावः, न हि संवेदने तारतम्येनोत्कर्षमासादयति वचस्वितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थानलक्षणो विरोधः / अथ सर्ववेदी वक्ता नोपलब्ध इति विरोध उघुष्यते / तदयुक्तम् / अत्यन्तपरोक्षो हि भगवान, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः, अदृश्यविषयस्यानुपलम्भस्याभावनिश्चायकत्वायोगात्। आह च प्रज्ञाकरगुप्तः"बाध्यबाधकभावः कः, स्यातां तर्जुक्तिसंविदौ? तादृशाऽनुपलब्धेश्चंदुच्यतां सैव साधनम्।।१।। अनिश्चयकर प्रोक्तमीदृक्षानुपलम्भनम्। तत्रात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयैः ।।२।।'नं० (81) तीर्थोच्छेदकाल:पुरिमंऽतिमअट्ठऽटुं-तेरसु तित्थस्स नत्थि वुच्छेओ। मज्झिल्लएसु सत्तसु, एत्तिकालं तु वुच्छेओ।।४३२।। चउभागो चउभागो, तिन्नि य चउभाग पलिय-चउभागो। तिन्नेव य चउभागा, चउत्थभागो य चउभागो।।४३३।। इह हि चतुर्विशतेस्तीर्थकृतां त्रयोविंशतिरेवान्तराणि भवन्ति / यथाचतसृणामङ्गुलीनां त्रीण्ये वान्तराणि, तत्र पूर्वेषु श्रीऋषभाऽऽदिजिनाऽऽदीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां संबन्धिषु अष्टसु. अन्तिमेषु च शान्तिनाथाऽऽदीनां महावीरान्तानां नवानां जिनानां संबन्धिषु अष्टस्वन्तरेषु तीर्थस्य चतुर्वर्णस्य श्रमणसङ्घस्स नास्ति व्यवच्छेदः / (मज्झिल्लएसु ति) मध्यवर्तिषु पुनः सुविधिप्रभृतीनां शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तसुएतावन्मानं वक्ष्यमाणं काल यावत्तीर्थस्य व्यवच्छेदः / तदेवाऽऽह-(चउभागेत्यादि) सुविधिशीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य एकश्चतुर्भागस्तीर्थव्यवच्छेदोऽर्हद धर्मवार्ताऽपि तत्र नष्टत्यर्थः / तथा-शीतलश्रेयांसयोरन्तरे पल्योपमस्यचतुर्भागस्तीर्थव्यवच्छेदः / तथा श्रेयांसवासुपूज्ययोरन्तरे पल्योपमसंबन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः। तथा बासुपूज्यविमलजिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः। तथा विमलानन्तजिनयोरन्तरे पल्योपमसंबन्धिनस्वयश्चतुर्भागास्तीर्थव्यवच्छेदः / तथाऽनन्तधर्मयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः। तथा धर्मशान्ति