SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जमालिपभव 1414 - अभिधानराजेन्द्रः - भाग 4 जम्मणगर जमालिपभव पुं०(जमालिप्रभव) जमालेः प्रभव एतत्तीर्थापेक्षया प्रथमा उपलब्धिरेषां न पुनः सर्वथोत्पत्तिरेव, प्रागप्येवंविधाभिप्रायसम्भवात तेऽमी जमालिप्रभवाः। जमालिमताभ्युपगन्तृबहुरतनिहवेषु, उत्त०३ अ०। जमावण न०(जन्मापन) विषमाणां समीकरणे, नि०चू०१उ०। जम्म पुं० न० (जन्मन्) जन-भावे-मनिन्। 'न्मो मः" ||8/2161 / / इति अधोलोपापवादः / “अन्त्यव्यञ्जनस्य" / / 8 / 1 / 11 / / इत्यन्त्यनकारलोपः / "स्नमऽदामशिरोनमः" / / 8 / 1 / 32 / / इति सूत्रेणचास्य पुंसि प्रयोगः। "जम्मो जम्म" उत्पत्तौ, स्था०६ डा। अने० गर्भवासतो योनिद्वारा निस्सरणे, वाच०। कर्मकृतप्रसूती, औ०। न्यायाधुक्ते अपूर्वदेहग्रहणे, वाच०। तत्र जन्म चतुर्विधम्-अण्डजं, पोतज, जरायुजम् / औपपातिकं च। अण्डजाः हंसादयः, पातजा हस्त्यादयः, जरायुजा मनुष्याः, औपपातिकाः देवनारकाः / विशे०। आ० चू० आ०म० विवक्षाभेदे त्वष्टविधमपि जन्म। तथाहि अण्डाजाता अण्डजाः पक्षिगृहको-किलादयः / पोता एव जायन्ते पोतजाः "अन्येष्वपि दृश्यन्ते'' इति जातेर्डः प्रत्ययः, ते च हस्तिवल्गुलीचर्मजलूकादयो, जरायुवेष्टिता जायन्त इति जरायुजाः पूर्ववत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः / रसाज्जाता रसजास्तत्रारनालदधितीमना-दिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाजाताः सस्वेदजाः मत्कुणयूकाशतपदिकादयः संमूर्च्छनाजाताः संमूर्छनजाः शलभ . पिपीलिकामक्षिकाशालिकादयः, उद्धेदनमुद् भित् ततो जाता उद्भिज्जाः, पृषोदरादित्वात्तलोपः / एवं खञ्जरीटपारिप्लवादयः, उपपाताजाता उपपातजाः / अथवा-उपपाते भवा औपपातिकाः देवा नारकाश्च / एवमष्टविधजन्म यथासंभवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं, संमूंछनगर्भा पपातजन्मरसस्वेदजो द्विजानां संमूर्छनजान्तःपातित्वात अण्डजपोतजजरायुजान गर्भजान्तःपातित्वात् देवनारकाणामीपपातिकान्तः-पातित्वात् इति त्रिविधं जन्मेति / इह चाष्टविध, सोत्तरभेदत्वादिति। आचा०१ श्रु०१ अ०६उ० अथ जन्म केन प्रकारेण जायते इत्यादिस्वरूपं प्रदर्श्यतआयाणामनार्याणां च कर्मभूमिजाऽकर्मभूमिजादीनां मनुष्याणानानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातम् / तेषां च रबीनपुंसकभेदभिन्नाना यथा बीजनेति। यद्यस्य बीज तत्र स्त्रियाः संबन्धि शोणितं पुरुषस्य शुक्रम्, एतदुभयमप्यविध्वस्तं शुक्राधिकं सन्मनुष्यस्य, शोणिताधिकं स्त्रियाः, तत्समता नपुंसकस्य कारणता प्रतिपद्यते। तथा यथावकाशेनेति / योयस्यावकाशो मातुरुदरकुक्ष्यादिकस्तत्रापि किल वामा कुक्षि, स्त्रियो, दक्षिणा कुक्षिः पुरुषस्य, उभयाश्रितः षण्ढ इति / अत्र धाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भगाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो, नशेषेषु त्रिष्विति। अव च स्त्रीपुसयोर्वेदोदये सति पूर्वकर्मनिवर्तितायां योनौ मैथुनप्रत्यायिको रताऽभिलापोदयज-- नितोऽग्निकारणयोररणिकाष्टयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते, ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविध्वस्तायां यौनौ सत्यामिति। विध्वस्थतेतु योनिः। 'पञ्चपञ्चाशिका नारी सप्तसप्ततिः पुरुषः" इति / तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतस्ततऊर्ध्व समाज इति / तत्र जीवा उभयोरपि स्नेह-माहायस्वकर्मविपाकेन यथारवं स्त्रीपुन्नपुंसकभावेन (विउद्दति त्ति) वर्तन्ते समुत्पद्यन्ते इति सावत्, तदुत्तरकालं च स्त्रीकुक्षौ प्रक्षिताः सन्तःस्त्रियाऽऽहारितस्याहार निर्यासं स्नेहमाददति, तत्स्नेहेनच तेषाजन्तूना क्रमोपचयादानन क्रमेण निष्पत्तिरुपजायते। "सत्ताहं कलल होइ, सत्ताहं होइ दबयंइत्यादि। तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रण पालोमभिर्वाऽऽनुपूर्येणाहारयन्ति यथाक्रममानुपूर्येण वृद्धिमुपागता तो गर्भ. परिपाक गर्भनिष्पत्तिमनुपपन्नाः / ततो मातुः कायाभिनिवतमानाः पृथरभवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति, तेच तथा विधकम दया-दात्मनः वीभावमप्येकदा जनयन्त्युत्पादयन्ति / अपरे केचन चुनावम् नपुंसकभावं च / इदमुक्तं भवति-स्त्रीपुनपुंसकभावः प्राणिना स्वकृतकर्मनिवर्तितो भवति, न पुनर्यो यादृगिह भवे सोऽमुष्मिन्नेव तादृगे वेति, ते च तदहर्जातबालकाः सन्तः पूर्वभवाभ्यासादाहाराभिलाषिणो भवन्ति / मातुः स्तन्यमाहारयन्ति। तदाहारेण चानुपूर्येण च वृद्धास्तदुत्तरकालं नवनीतत्ध्योदनादिकं यावत्कुलमाषान् भुञ्जन्ते, तथाहारत्वेनोपगतारत्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविध पृथिवीशरीरं लवणादिकं सचेतनं वा आहारयन्ति, तचाहारितयात्मसात्कृतं सारूप्यमापादितं सत् 'रसासृङमांसमेदोऽस्थिमञ्जाशुक्राणि धातवः' इति सप्तधा व्यवस्थापयन्त्यपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावणान्याविर्भवन्ति, ते च तद्योनिकत्वात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति। सूत्र०२ श्रु०३अ०। जम्मंकुर न०(जन्माडुर) पुनरुत्पत्तिरूपे अड्डरे / 'अज्ञानपांशु-पिहित, पुरातनं कर्मवीजमविनाशि / तृष्णाजलाभिषिक्तं मुश्चति जन्माद कुरं जन्तोः / / 1 / / ' आ०म०द्विा जम्मंतर न०(जन्मान्तर) अन्यान्यजन्मनि, पुनर्जन्मनिच। आ०म०वि० (जन्मान्तरोपपत्तियुक्तयस्तु परलोग' शब्दे विलोक्याः जम्मकहा स्त्री०(जन्मकथा) जातो मृतो वेत्येवं रूपायां वार्तायां, जन्मचरित्रे च / सूत्र०१8०१ अ०२उ०। जम्मजरामरण न० (जन्मजरामरण) जन्म च जरा च मरण चेति जन्मजामरणानि। स्वस्वशब्दप्रदर्शितावस्थात्रये, "जम्मजरामरणकरणगभीरदुक्खपक्खुभिअपउरसलिल'' वृत्ति:- जन्मज-रामरणान्येव करणानि साधनानि यस्य तत्तथा, तच्च गभीरदुःख तदेव प्रक्षुभित संचलितं प्रचुरं सलिलं यत्र स तथा / प्रश्न०३ आश्व० द्वार। जम्मजीवियफल न०(जन्मजीवितफल) जन्मनो जीवितस्य च फले, भ०१५ श०१उ०। जम्मण न०(जन्मन्) उत्पादे, भ० 25 श०६ उ०। प्रश्न। "जम्मणजरामरणबाहिपरियट्टणारघट्ट'। वृत्तिः-जन्मजरामरणव्याधीनां याः परिवर्तनाः पुनःपुनर्भवनानि ताभिररघट्टो यासाम्। प्रश्न०१ आश्रद्वार। जम्मणगर न०(जन्मनगर) 'जम्मणयर' शब्दार्थे, जं०५ यक्षा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy